आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 138, कुल 399 में से
संदर्भ में पढ़ेंआत्मज्ञानप्रशंसा ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२७ विवरणम् । पूः पुरं शरीरम् । प्राणिन प्राणवन्तः । सर्व एव ब्रह्मादीनि स्त- म्बपर्यन्तानि प्राणिनः । पुरं पुरमिव राज्ञः उपलब्ध्याधिष्ठानम् । कस्य पुरम् ? गुहाशयस्याऽऽत्मनः । यथा स्वकीयपुरे राजा सचिवादिपरिवृत उपलभ्यते, एव देहेष्वात्मा बुद्ध्यादिकरणसंयुक्त उपलभ्यते । उपल- भते च बुद्ध्यादिकरणोपसंहृतान् भोगान् । अतोऽविद्यावरणात्मभूता- यां बुद्धिगुहायां शेत इति गुहाशयः । तस्य पुरम् । तस्यां बुद्धाववि द्यादिदोषमलापनये विद्वद्भिस्सूक्ष्मैषणैरुपलभ्यते । इदमपरं विशेषणं गुहाशयस्याऽहन्यमानस्य, छेदनभेदनजरारोगादिभिर्हन्यमाने देहे न हन्यते । (१)'न वधेनाऽस्य हन्यते' इतिच्छान्दोग्ये । तस्य विकल्मषस्य, क ल्मषं पापं तदस्य नास्तीति विकल्मषः । सर्वं ह्यविद्यादोषसहितं धर्मा धर्माख्यं कर्म कल्मषं भवति, विकल्मषस्येति विशेषणेन तत् प्रतिषिध्यते तत्कार्यं जरारोगादिदुःखरूपमहन्यमानस्येति । एवं हेतुफलसम्बन्धर- हितस्याऽसंसारिण उपलब्ध्याधिष्ठानं पूः सर्वे प्राणिनः । अतो न संसा- र्येभ्यो ऽस्ति । (२)'एको देवः सर्वभूतेषु 'गूढ' इति श्वेताश्वतरे । (३)“एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते” इति च काठके । (४)'नान्यदतोऽस्ति द्रष्टा' इत्यादि वाजसनयके । (५) 'स आत्मा तत्त्वमसी'ति च छान्दोग्ये । पूर्वार्धेन ब्रह्मणो याथात्म्यमुक्त्वो त्तरार्धेन तद्विज्ञानवतस्तद्विज्ञानफलमाह-यस्य सर्वे प्राणिनः पुर अह न्यमानस्य विकल्मषस्य, तस्य सर्वप्राणिसम्बन्धादर्थसिद्धमाकाशवत् सर्वगतत्वम्, 'आकाशवत् सर्वगतश्च नित्य' इति च श्रुतेः। सर्वगतस्य चाऽचलत्वमर्थसिद्धमेव । तमचलं चलनिकेतं चलायां हि प्राणिगुहायां स्वयं शेते तमचलं चलनिकेतम् । येऽनुतिष्ठन्ति ममात्मेति साक्षात् प्र तिपद्यन्ते, तेऽमृताः अमरणधर्माणो भवन्ति ॥ ४॥ उज्ज्वला । गुहेति प्रकृतिनाम । 'यत्तत्स्मृत कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः । आत्मा गुहा योनि(६)रनाद्यनन्त क्षेत्रं तथैवामृतमक्षरं च ॥' इति पुराणे दर्शनात् । तस्यां शेते तया सहाऽऽविभागामापन्नास्तिष्ठतीति गुहाशय आत्मा । १. छा. उ. ८ १० ४. २. श्वेता. उ. ६. ११. ३. कठो १ ३, १२. ४. बृ. उ. ३. ८. ११ ५. छा. ६. ८. ९. ६ अनाद्यनन्त इति. ख. पुस्तके'