आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 139, कुल 399 में से
संदर्भ में पढ़ें१२८ आपस्तम्बधर्मसूत्रे [ (प८.) क. २२. (१)'अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः, इति च मन्त्रान्तरम् । अह्न्यमानस्य न ह्यसौ शरीरे हन्यमानेऽपि हन्यते (२)तथा चोक्तं भगवता-(३)'न हन्यते हन्यमाने शरीरे' इति । विकल्मषस्य निर्लेपस्य । सर्व एव हि धर्माधर्मादिरन्तःकरणस्य धर्मः, आत्मनि त्वध्य- स्तः । एवंभूतस्यात्मनः सर्व एव प्राणिनः ब्रह्माद्यास्तिर्यगन्ताः प्राणादि- मन्तः संघाता पू पुरं उपभोगस्थानम् । यथा राजा पुरमधिवसन् सचिवैरानीतान् भोगानुपभुङ्क्ते, तथाऽयं देवादि शरीरमधिवसन् करणै- रुपस्थापितान् भोगानुपभुङ्क्ते । तमेवभूतमचलं सर्वगतत्वेन निश्चलम् । चलनिकेतं निकेतं स्वस्थान शरीरं तद्यस्य चलं तं येऽनुतिष्ठन्ति उपासते एवंभूतोऽहमिति प्रतिपद्यन्ते, तेऽमृताः मुक्ता भवन्तीति ।' ४ ॥ विवरणम् । कथं तदनुष्ठानमिति ? उच्यते— यदिदमिदिहेदिह लोके विषयमुच्यते । विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ॥ यदिदं प्रत्यक्षतोऽवगम्यमानं स्त्र्यन्नपानादिसंभोगलक्षणम् । इदिति किञ्चिदर्थे । यत्किञ्चिदिदं प्रत्यक्षम् । इहाऽस्मिन् लोके । विषयम् । इदंशब्दसामानाधिकरण्यान्नपुंसकलिङ्गप्रयोगो विषयमिति । उभयलि- ङ्गो वा विषयशब्दः । द्वितीय इच्छब्द इहशब्दश्च । तयोः क्वचिद्विनियो- गः । इच्छब्दश्चार्थे । इहशब्दोऽमुष्मिन्नर्थे । लोकशब्दः काकाक्षिवदुभ- यत्र सम्बध्यते । इह लोके इह च लोकेऽमुष्मिंश्च यदिदं विषयमुच्यते, स्वर्गादिलोके पार्श्वस्थमध्यस्थो व्यपदिशति इह लोके इति च लोके इत तत्सर्वं विधूय परित्यज्य । कविः क्रान्तदर्शी, मेधावीत्यर्थः । फलं सा- धनं च तद्विधूय एषणात्रयाद् व्युत्थायेत्यर्थः । अनुतिष्ठेद् गुहाशयं य- थोक्तलक्षणमात्मतत्त्वम् ॥ ५ ॥ उज्ज्वला । विषयसङ्गपरित्यागेनाऽयमुपास्य इत्याह— यदिद, विषयं, मेतदिति सर्वत्र लिङ्गव्यत्ययश्छान्दसः । एवमितिशब्दे तकारस्य दकारः । इतिशब्दः प्रसिद्धौ । हशब्द आश्चर्ये । इतिशब्देना- १. तै. आ ( नारायणोपनिषदि ) १०. १. २. 'तथा चोक्तं भगवता-न हन्यते हन्यमाने शरीरे ।' इति नास्ति क. पुस्तके. ३. भगवद्गी. २. २०.