आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 142, कुल 399 में से
संदर्भ में पढ़ेंआत्मस्वरूपम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३१ शक्यं स्थापयितुम् । महान्, अत एव शुचिर्निरञ्जनः । अथवा शुचिः पावन इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम्, यथा लोके वाय्वग्न्यादि । किञ्च य आत्मा प्रकृतः, स सर्वम् । (१)'इदं सर्वं यदयमात्मे'ति हि वाज- सनेयके । न ह्यात्मव्यतिरेकेण किञ्चिन्निरूप्यमाणमुपपद्यते । अत एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२)'सा काष्ठा सा परा गति- रि'ति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं मध्यं सर्वस्य, सर्वान्तरश्रुतेः। विषुवत्सु वा(३) दिवाकीर्त्येषु मन्त्रेषु नित्यं प्रकाश्यं भवतीति वैषुवतः । स परमात्मा । ननु 'स सर्वं परमा काष्ठा स वैषुवत'मित्युक्तम् । कस्मात् पुनस्तदात्मतत्त्वं विभक्तमुपलभ्यत इति । उच्यते-स परमात्मा वैभाजनं, विभक्तिर्विभजनं विवेकः आत्मनो यस्मिन् देहे क्रियते, तत् । विभाजनमेव वैभाजनम् । आत्मनो विवेकोपलब्ध्य- धिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवर्ति- त्वाद् वैभाजनम् सर्वथा शुद्धमेव सर्वैर्नोपलभ्यते । किं तर्हि ? विभक्तो विपरीतश्चोपलभ्यते ॥ ७ ॥ उज्ज्वला । पुनरप्यसौ कीदृश इत्याह- सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति विपश्चित् मेधावी चित्स्वरूपः । अमृतः नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः एकरूपः, विकाररहितः । न प्रधानवद्विकारिणस्सतो धर्मिरूपेणाऽस्य नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूत- गुणानामुपलक्षणम् । शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वर्जि तः । महाञ्छुचिः महत्त्व शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः । स सर्व प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः पर गन्तव्याभावात् । स वैषुवत विषुवान्नाम गवामयनस्य मध्ये भवमहः । 'एकविंशमेतदह • रुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्ये'ति दर्शनात् । विषुवानेव वै- १ बृह उ. ४. ५. ७ २. काठ. १. ३ ११. ३. गवामयनाख्यस्सवत्सरसाध्यस्सत्रविशेष । स एकषष्ट्यधिकशतत्रयादिवस (३६१) साध्यः । तत्राशीत्युत्तरशत ( १८० ) दिनानि पूर्व पक्ष. । तावन्त्येव दिना- न्युत्तरं पक्षः । मध्यमं यदहरेकाशीत्युत्तरशततमरू (१८१) पं स विषुवान् । तत्र दिवा- कीर्त्याह्य साम ब्रह्मसाम भवति । तेन च साम्ना परमात्मा गीयते । अतो विषुवद्वत् मध्यस्थानत्वात् तत्प्रतिपाद्यत्वाद्वा ब्रह्म वैषुवतमिति भाव. ।