आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 143, कुल 399 में से
संदर्भ में पढ़ें१३२ आपस्तम्बधर्मसूत्रे [ (प.८) क.२३ ध्रुवतम् । तद्यथा सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष मध्ये । (१) 'मध्यं ह्येषामाङ्गानामात्मे'ति बह्वृचब्राह्मणम् । स एव च वैभा- जनं पुरं विविधैर्मार्गैर्भजनीयं विभजनम् । तदेव वैभाजनं प्रज्ञादिरनुश- तिकादिश्च । यथा समृद्धं पुरं सर्वैरर्थिभिः प्राप्यमेवमयमपीति ॥ ७ ॥ तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् । दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८ ॥ विवरणम् । अतस्तदुपाध्यनुवर्तिस्वभावदर्शनमविद्याख्यं हित्वा विद्यया शा- स्त्रजनितदर्शनेन तं यथोक्तलक्षणमात्मानमनुतिष्ठेत् । । सर्वत्र सर्वस्मिन् काले । किञ्च न केवलमनुष्ठानमात्रमस्य । प्राध्वं बन्धनम् आत्मैकत्वरस- प्रज्ञतां स्थिरां बाह्यैषणाव्यावृत्तरूपां सर्वसन्न्यासलक्षणाम् । तद्धि बन्धनं विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽव- र्तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्धने सदाचरतः किं स्यादिति ? उच्यते—दुर्दर्शं दुःखेन ह्येषणात्यागादिना स दृश्यत इति दुर्दर्शम् । निपुणं यस्माद्धि दुर्दर्शं तस्मान्निपुणम् । अत्यन्तकौशलेन समाहितचेतसा युक्तो यः पश्येत् साक्षादुपलभेत—अहमात्मेति, स मोदेत । एवं दृष्ट्वा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगतसन्ताप- लक्षणेऽस्मिन् ब्रह्मणित्यर्थः ॥ ८ ॥ उज्ज्वला । तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्यं प्रतिषिद्धवर्जनं नित्यनैमित्ति- ककर्मानुष्ठानं च । यश्च दुर्दर्शं निपुण(२) सूक्ष्मतः युक्तः समाहितो भूत्वा पश्येत् साक्षात्कुर्यात् । सः विष्टपे विगततापे स्वे महिम्नि स्थितो मोदेत सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्व- मानन्दमनुभवतीति ॥ ८ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां द्वाविंशी काण्डका ॥ २२ ॥ आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥ ९ ॥ १ ॥ १. ऐ. ब्रा. ६. प. ८. ख. २. सूक्ष्ममेत इति क. ख. पु.