आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 148, कुल 399 में से
संदर्भ में पढ़ेंआत्मलाभयोगाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३७ क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अना- त्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥ विवरणम् । तत्र क्रोधस्ताडनाक्रोशानादिहेतुरन्तःकरणविक्षोभो गात्रस्वेदक- म्पनादिलिङ्गः । हर्षस्तद्विपरीतोऽभीष्टलाभजनितो बाष्परोमाञ्चनादि- लिङ्गः । रोषोऽनिष्टविषयो मानसो विक्रियाविशेषः । लोभः परद्रव्येप्स्रा, स्वद्रव्याविनियोगस्तीर्थे । मोह कार्याकार्यविवेकता । दम्भ आत्मनो धार्मिकत्वप्रकाशनम् । द्रोहः परानिष्ठाचिकीर्षा । मृषोद्यमनृतवचनम् । अत्याशपरीवादौ अत्याशोऽतिमात्रमशनम् । परीवादोऽसमक्षं परदो- षाभिधानम् । असूया परगुणेष्वक्षमा । काममन्यू कामः स्त्रीव्यतिक- राभिलाषः । मन्युस्तद्विघातकृत्सु द्वेषः । अनात्म्यम् अनात्मवत्त्वा । एष क्रोधादिरयोगः, असमाधानलक्षणो ह्येष चेतसो विक्षेपप्रकारः । तेषां योगमूलो निर्घातः ॥ १२ ॥ १३ ॥ उज्ज्वला । (१)ताडनाक्रोशादिहेतुकोऽन्तःकरणविक्षोभः स्वेदकम्पादिलिङ्गः क्रोधः । हर्षः इष्टलाभाच्चेतस उद्रेको रोमाञ्चादिलिङ्गः । रोषः क्रोधस्यैव कियानपि भेदो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः । लोभो द्रव्यसङ्गः, यो धर्मव्ययमपि रुणद्धि । मोहः कार्याकार्ययोरविवेकः । स च प्रायेण क्रोधादिजन्योऽपि पृथगुपदिश्यते कदाचित्तदभावेऽपि सम्भवतीति । दम्भो धार्मिकत्व(२)प्रकाशनेन लोकवञ्चनम् । द्रोहोऽपका- रः । मृषोद्यमनृतवादः । अत्याशोऽत्यशनम् । परीवादः परदोषाभिधानम् । असूया परगुणे(३)ष्वक्षमा । कामः स्त्रीसंसर्गः । मन्युः गूढो द्वेषः । अनात्म्य अजितेन्द्रियत्वं जिह्वाचाफलादि । अयोगो विक्षिप्तचित्तता । एते भूतदाहीया दोषाः । तेषां योगमूलो निर्घातः ॥ ५ ॥ के पुनस्ते योगा इति, उच्यते-- अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः स- त्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्- र्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्य- १. आक्रोशादि इति ख. पु. २. प्रदर्शनेन इति क. पु. ३. अक्षमता इति क. पु.