भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 149, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 149

१३८ आपस्तम्बधर्मसूत्रे [(प.८.) क.२३. मानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य- नुतिष्ठन् विधिना (१)सार्वगामी भवति ॥ १४ ॥ ६ ॥ विवरणम् । अक्रोधोऽहर्षः इत्येवमाद्या अयोगविपरीताः । अतस्ते समाधिलक्षण- त्वाद् योगाः । संविभागः आत्मनो यात्रासाधनस्याऽर्थिभ्यः संविभजनम् । त्यागः दृष्टादृष्टभोगानां शक्तितः परित्यजम्, तत्साधनानां च । आर्जवम् ऋजुता, अदुष्टाकलनपूर्विका वाङ्मनःकायानां प्रवृत्तिः । मार्दवं मृदुत्वम् । शमोऽन्तःकरणोपशमः । दमो बाह्यकरणापेशमः । इदमन्यद् योगलक्षणं संक्षेपत उच्यते-सर्वभूताविरोधो योगः, विरोधे हि भूतानां पीडा, तदभावेऽपीडा । स एव सर्वभूतापीडालक्षणो योगः । आर्यम् आर्याणां भावः अक्षुद्रता । आनृशंसम् आनृशंस्यम् , अक्रौर्यम् । तुष्टिः लब्धव्यस्याऽलाभेऽपि चेतसः प्रसन्नतयाऽवस्थानं लाभ इव । सर्व- भूताविरोलक्षणांहिसा परिव्राजकस्यैव संभवतीत्यार्यादीनां त्रया- णामन्येषां चाऽविरुद्धानां सर्वाश्रमान् प्रति प्राप्तिरितीतिशब्दसाम- र्थ्याद्, इतिशब्दस्य च प्रकारवचनत्वादार्यादीनीत्थंप्रकाराणि सर्वाश्र- मान् प्रति गमयति सर्वाश्रमाणां समयपदानिति । समयस्थानानीत्ये- तत् । अवश्यमनुष्ठेयानीत्यर्थः । तान्येतानि यथोक्तान्यनुतिष्ठन् विधिना सार्वगामी सर्वगमनशीलः, ज्ञानाभिव्यक्तिकमेण । भवति मुच्यते इत्यर्थः ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवत्पादाचार्यस्य कृतिषु आपस्तम्बीयधर्मशास्त्राध्यात्मपटलविवरणम् ॥ ॐ उज्ज्वला । के पुनस्ते योगाः ? तानाह— एते चाऽक्रोधादयोऽपि भावरूपाः न क्रोधाद्यभावमात्रम् , क्रोधादिनि- र्घातहेतुतयोपदेशात् । के पुनस्ते ? अक्रोधः, क्रोधादिषु प्रसक्तेष्वपि मा कार्षमिति सङ्कल्पः । अहर्षः, इष्टलाभालाभेषु चेतस ऐकरूप्यम् । अरोधः मित्रादिषु प्रतिकूलेष्वपि मनोविकाराभावः । अलोभः सन्तो- षोऽलम्बुद्धिः । अमोहोऽवधानम् । अदम्भो धर्मानुष्ठानम् । अद्रोहः परेष्व- पकारिष्वप्यनपकारः । अनसूया परगुणेष्वभिमोदनम् । सत्यवचनं यथा-