आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 150, कुल 399 में से
संदर्भ में पढ़ेंआत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३९
दृष्टार्थवादित्वम् । संविभागः आत्मान(१)मुपरुध्याऽप्यन्नादिदानम् । त्यागोऽपरिग्रहः । आर्जवं मनोवाक्कायानामेकरूपत्वम् । मार्दवं सूपगम्यता । शमः मन्युपरित्यागः । दम-(२)इन्द्रियजयः । एताभ्यामेव गतत्वात् पूर्व- त्र स्वस्मिन् क्रमे अकामः, अमन्युः, आत्मवत्वमिति नोपदिष्टम् । सर्वभूतैर- विरोधः ।सर्वग्रहणं क्षुद्रैरविरोधात्थम् । योगः ऐकाग्र्यम् । आर्याणां भावः आर्य शिष्टाचारानुपालनम् । आनृशंस आनृशंस्य व्यवहारवचनादौ प्रसक्त- नैष्ठुर्यस्य वर्जनम् । तुष्टिरनिर्वेदः । समयो व्यवस्था । सा च प्रकरणाद्ध- र्मज्ञानाम् । पदं विषयः । एते अक्रोधादयः सर्वेषामाश्रमाणां सेव्याः, न केवलं योगिनामेवेति धर्मज्ञानां समय इत्यर्थः । एते हि भाव्यमानाः क्रोधादीन् समूलघातं घ्नन्ति । अतश्च ताननुतिष्ठन् विधिना सार्वगामी भवति । तान्यक्रोधादीनि तुष्ट्यन्तानि । विधिना यथाशास्त्रम् । अनुतिष्ठन् सार्वगामी सर्वस्मै हितः सार्वः आत्मा तं गच्छति प्राप्नोति । ‘विधिने’ति वचनात्(३)‘प्राणिनां तु वधो यत्र तत्र साक्ष्यनृतं वदेत् ।’ इत्यादिके विषये अनृतवचनादावपि न दोष इति ॥ ६ ॥ इति श्रीहरदत्तविरचितायामापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां त्रयोविंशी कण्डिका ॥ २३ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्नेऽष्टमः पटलः ॥८॥
१. अवरुध्य इति क. पु. २. इन्द्रियनिग्रहः इति ग. पु ३. द्वित्रेष्वप्यादर्शपुस्तकेषु ‘प्राणिनां तु वधो यत्र’ इत्येव पाठस्समुपलभ्यते । परन्तु श्लोकार्धमिदं याज्ञवल्कीयम् । तत्र “वर्णिनां हि वधो यत्र” इत्येव मुद्रितपुस्तकेषु पाठस्स- मस्ति । ( या. स्मृ. २. ८३. ) किञ्च मनौ-एतत्त्समानार्थकश्लोक एवमुपलभ्यते- शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ इति । (म. स्मृ. ८. १०४) अनयोरेकार्थत्वमभ्युपगम्यैव विज्ञानेश्वरेणाऽपि “यत्र वर्णिना शूद्रविट्क्षत्रवि- प्राणां सत्यवचनेन वधस्सम्भाव्यते” इति याज्ञवल्कीय वचनं व्याख्यातम् । अन्यैरपि विश्वरूपापरार्कादिभि ‘वर्णिनाम्’ इत्येवं पाठ. स्वीकृतः । अतोऽत्रापि ‘वर्णिना’ इत्येव पाठस्साधीयानिति युक्तमुत्पश्यामः ॥