भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 152, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 152

ब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४१

एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् ॥ एतदेव व्रतं कृत्स्नं षण्मासाञ्शूद्रहा चरेत् । ऋषभैकादशा वाऽपि दद्याद्विप्राय गास्सिताः ॥' इति ॥ ४ ॥ स्त्रीषु चैतेषामेवम् ॥ ५ ॥ एतेषां क्षत्रियादीनां स्त्रीषु च हतासु एवमेव प्रायश्चित्तं यथा पुरुषेषु॥५॥ पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाऽभिशस्तः॥६॥ उक्तेषु यौ पूर्वौ वर्णौ क्षत्रियवैश्यौ तयोर्यो वेदाध्यायः अधीतवेदः तं हत्वा अभिशस्तो भवति । अभिशस्त इति ब्रह्मघ्नोऽभिधानम् । सवनगतं वा, तयो- रेव वर्णयोः यः सवनगतः सवनशब्देन न प्रातस्सवनादीन्युच्यन्ते, नापि यागमात्रम् । किं तर्हि ? सोमयागः । तत्र यो दीक्षितः सवनगतः ‘ब्राह्मणो वा एष जायते यो दीक्षित’ इति दर्शनात् । तं च हत्वाऽभिश- स्तो भवति । पूर्वयोर्वर्णयोरिति किम् ? ब्राह्मणे मा भूत् । इष्यते ब्राह्मणे । वक्ष्यति च ‘ब्राह्मणमात्रं चे’(२४.७.)ति । एवं तर्हि शूद्रे मा भूत् । न शूद्रो वेदाध्यायः सवनगतो वा भवति । इदं तर्हि प्रयोजनं पूर्वयोर्वर्णयोरेव यथा स्यात्तयोरेव यावनुलोमौ(१) करणाम्बष्ठौ तयोर्मा भूदिति । तेना- न्ये वर्णधर्मा अनुलोमानामपि भवन्ति ॥ ६ ॥ ब्राह्मणमात्रं च ॥ ७ ॥ हत्वाऽभिशस्तो भवति । मात्रग्रहणान्नाऽभिजनविद्यासंस्काराद्यपेक्षा ॥ गर्भं च तस्याऽविज्ञातम् ॥ ८ ॥ तस्य ब्राह्मणमात्रस्य । गर्भं च स्त्रीपुन्नपुंसकभेदेनाऽविज्ञातम् । हत्वा- भिशस्तो भवति ॥ ८ ॥ आत्रेयीं च स्त्रियम् ॥ ९ ॥ (२)‘ऋतुस्नातामात्रेयीमाहु’रिति वसिष्ठः । तस्येति वर्तते । आत्रेयीं च ब्राह्मणस्त्रियं हत्वाऽभिशस्तो भवति । ब्रह्महा भवति । सम्भवत्यस्यां ब्राह्मणगर्भ इति । अत्रिगोत्रजा आत्रेयीत्यन्ये ॥ ९ ॥ तस्य निर्वेषः ॥ १० ॥


१. इतरपुस्तकेषु “सवर्णाम्बष्ठौ” इत्येव पाठः । २. व. ध. १०. १४.