आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 153, कुल 399 में से
संदर्भ में पढ़ें१४२ आपस्तम्बधर्मसूत्रे [ (प.९.)क. २४. तस्य सर्वप्रकाराभिशस्तस्य निर्वेषः प्रायश्चित्तं वक्ष्यते ॥ १० ॥ अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशा- णीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ॥ ११ ॥ कृत्वेति वचनान्न परकृता कुटी ग्राह्या । वाक् यता नियता येन स वाग्यतः वाच्यमः । आहिताग्न्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः । शवशिर- ध्वजो यस्य स शवशिरोध्वजः । सकारलोपश्छान्दसः । स्वव्या- पादितस्य शिरो ध्वजदण्डस्याग्रे प्रोतं कृत्वेत्यर्थः।यस्य कस्य चिच्छवस्ये त्यन्ये । शणस्य विकारः शाणी पटी तस्या अर्धमर्धशाणी तस्याः पक्ष मर्धशाणीपक्ष आयामविस्तारयोरुभयोरप्यर्धम् । अधो नाभि उपरि जानु च यथा। भवति तथा तावन्तं प्रदेशमाच्छाद्य । सापेक्षत्वात् 'ग्रामे प्रतिष्ठेत' (२४.१४.)ति वक्ष्यमाणेन सम्बन्धः । मध्ये क्रियान्तरविधिः ॥ ११ ॥ तस्य पन्था अन्तरा वर्त्मनी ॥ १२ ॥ तस्य ग्रामं प्रविशतः वर्त्मनी अन्तरा शकटादेर्वर्त्मनोर्मध्ये पन्था वेदि- तव्यः । अपर आह-यत्र रथ्याद्यावुभयोः पार्श्वयोर्वर्त्मनी भवतः तत्र तयोर्मध्येन सूकरादिपथेन सञ्चरेदिति ॥ १२ ॥ दृष्ट्वा चाऽन्यमुत्क्रामेत् ॥ १३ ॥ अन्यमार्यं दृष्ट्वा पथ उत्क्रामेत् । तत्र कौटिल्यः(१) 'पञ्चारत्नयो रथपथ- श्चत्वारो हस्तिपथः द्वौ क्षुद्रपशुमनुष्याणा'मिति । तेन मनुष्येषु द्वौ हस्तावुत्क्रामेदिति ॥ १३ ॥ खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत ॥ १४ ॥ खर्परमात्रं खण्डम् । (२)लोहितकमनाप्रीतम् । एवम्भूतं शरावं भिक्षा- पात्रं गृहीत्वा ग्रामे प्रतिष्ठेत । ग्रामं गच्छेत् ॥ १४ ॥ कोऽभिशस्ताय भिक्षामिति(३) सप्ताऽगारं चरेत् ॥१५॥ (४)अभिशस्तो ब्रह्महा । तस्मै मह्यं को धार्मिको भिक्षां ददातीति उच्चैर्बुवाणः सप्तागाराणि चरेत् । सप्तग्रहणमधिकनिवृत्त्यर्थम् । द्वित्रेष्वेवा- गारेषु यदि पर्याप्तं लभ्यते तदा तावत्येव ॥ १५ ॥ १. कौटि. अर्थ. २ ४. २२. २. लोहितं मनाक्ताम्रम् इति. क. पु. ३. सप्तागाराणि इति क. पु. ४. अभिशस्ते को धार्मिकः, इत्येव पाठः ग. पु.