आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 154, कुल 399 में से
संदर्भ में पढ़ेंब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४३ सा वृत्तिः ॥ १६ ॥ सप्तस्वगारेषु या च यावती लभ्यते सैव वृत्तिः अपर्याप्ताऽपि ॥१६॥ अलब्धवोपवासः ॥ १७ ॥ यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एव तस्मिन्नहनि ॥ गाश्च रक्षेत् ॥ १८ ॥ एवं प्रायश्चित्तं कुर्वन्नहरहर्गाश्च रक्षेत् ॥ १८ ॥ तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः ॥ १९ ॥ तासां गवां निष्क्रमणसमये प्रवेशनासमये च द्वितीयो ग्रामेऽर्थः प्रयो- जनम् । भिक्षार्थं प्रथममुक्तम् । नाऽन्यथा ग्रामं प्रविशेदित्युक्तं भवति ॥ द्वादश वर्षाणि(१) चरित्वा सिद्धः सद्भिस्सम्प्रयोगः ॥ २०॥ एवं द्वादश वर्षाणि व्रतमेतच्चरित्वा सद्भिः सम्प्रयोगः कर्तव्यः । सद्भिः सह सम्प्रयुज्यते येन विधिना स कर्तव्यः । स शिष्टाचारे शाखान्तरे च सिद्धः स उच्यते—कृतप्रायश्चित्तः स्वहस्ते यवसं गृहीत्वा गामाह्वयेत् । सा यद्यागत्य श्रद्दधाना भक्षयति तदा सम्यगनेन व्रतं चरितमिति जानी- यात् , अन्यथा नेति ॥ २० ॥ आजिपथे वा कुटिँ कृत्वा ब्राह्मणगव्योऽपजिगीषमाणो वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः ॥ २१ ॥ सङ्ग्रामेण जेतव्या दस्यवो येन पथा ग्रामं प्रविश्य गवादिकमपहृ- त्याऽपसरन्ति स आजिपथः । तस्मिन्वा कुर्टि कृत्वा वसेत् । किं चिकी- र्षन् ? ब्राह्मणगव्यं•(२) 'वा छन्दसी'ति पूर्वसवर्णभावे यणादेशः । ब्राह्मण- गवीरपजिगीषमाणः दस्यूनपजित्य प्रत्याहर्तुमिच्छन् । एव वसन् दस्युभिर्ह्रियमाणं गवादिकमुद्दिश्य तैर्युद्धं कुर्वन् त्रिः प्रतिराद्धः तैरपजितः अपजित्य वा तान् गवादिक प्रत्याहृत्य ब्राह्मणेभ्यो दत्त्वा मुक्तो भवति त- स्मादेनसः । द्वादशवार्षिके प्रवृत्तस्येदम् । एवमुत्तरमपि ॥ २१ ॥ आश्वमेधिकं वाऽवभृथमवेत्य मुच्यते ॥ २२ ॥ अथ वाऽश्वमेधावभृथे स्नात्वा मुच्यते ॥ २२ ॥ १ 'व्रतमेतदिति अधिकं पुस्तके २. पा. सू ६. १. १०६.