आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 156, कुल 399 में से
संदर्भ में पढ़ेंगुरुदारगमनप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४५ गुरुतल्पगामी सवृषणं शिश्नं परिवास्याऽञ्जलावा- धाय दक्षिणां दिशमनावृत्तिं व्रजेत् ॥ १ ॥ गुरुरत्र पिता, नाऽऽचार्यादिः । तल्पशब्देन शयनवाचिना भार्या ल- क्ष्यते । सा च साक्षाज्जननी(१) । न तत्सपत्नी । तां गत्वा सवृषणं साण्डं शिश्नं परिवास्य क्षुरादिना छित्त्वाऽञ्जलावाधाय दक्षिणां दिशं व्रजेत् । अनावृत्तिम् आवृत्तिर्न क्रियते यस्यां तां दिशमनावर्तमानो गच्छेत् । अथ ये(२) दक्षि- णस्योदधेस्तीरे वसन्ति तेऽपि यावद्देशं गत्वा उदधिमेव प्रवेक्ष्यन्ति । मरणं ह्यत्र विवक्षितम् । अत्र संवर्तः- (३)पितृदारान् समारुह्य मातृवर्जं नराधमः । भगिनीं मातृरासां वा स्वसारं वाऽन्यमातृजाम् ॥ एता गत्वा स्त्रियो मोहात्(४) तप्तकृच्छ्रं समाचरेत् ॥ इति । नारदस्त्व- 'माता मातृष्वसा श्वश्रूर्मार्तुलानी पितृष्वसा । (५)पितृव्यपत्नी शिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कृन्तनं तत्र नाऽन्यो दण्डो विधीयते ॥ इति ॥ १ ॥ ज्वलितां वा सूर्मीं परिष्वज्य समाप्नुयात् ॥ २ ॥ आयसी ताम्रमयी वा अन्तस्सुषिरा स्त्रीप्रकृतिरत्र सूर्मीः । तां ज्व- लितामग्नौ तप्ताम् । परिष्वज्य समाप्नुयात् समाप्तिं गच्छेत् म्रियेत ॥ २ ॥ सुरापोऽग्निस्पर्शां सुरां पिबेत् ॥ ३ ॥ 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।' तस्याः पाता सुरापः । सः अग्निस्पर्शां (६)अग्निकथितां सुरां पिबेत् । तया दग्धकायः शुद्ध्यति ॥ ३ ॥ स्तेनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं गत्वा कर्माऽऽचक्षीत । तेनैनं हन्याद्वधे मोक्षः ॥ ४ ॥ १. तत्सपत्नी वा इति ग. पु. २. अथेति नास्ति ग. पु. ३. संव. स्मृ. १५८. १५९. ४ तप्तकृच्छ्रान् षडाचरेत् , इति. छ. पु. ५. पितृव्यसखिशिष्यस्त्री इति. क. पु. ६. अतिशंपिता, इति. ख. ग. पु. आप० ध० १९