भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 157, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 157

१४६ आपस्तम्बधर्मसूत्रे [(प्र. १.) क. २५. स्तेनो ब्राह्मणस्वर्णहारी । अंसे स्वे स्कन्धे । मुसलमाधाय आयसं खा- दिरं वा धारयन् । राजानं गत्वा कर्माऽऽचक्षीत-एवंकर्माऽस्मि, शाधि मामि- ति। स तेन मुसलेन एन स्तेनं हन्यात् , यथा मृतो भवति ।(१)वधेन स्ते यान् मोक्षो भवति ॥ ४ ॥ अनुज्ञातेऽनुज्ञातारमेनः स्पृशति ॥ ५ ॥ यदि राजा दयादिना तमनुजानीयात् गच्छेति, तदा तमनुज्ञातारं रा जानमेव तदेनः स्पृशति ॥ ५ ॥ उत्तरमृजु ॥ ६ ॥ अग्निं वा प्रविशेत् ॥ ६ ॥ तीक्ष्णं वा तप आयच्छेत् ॥ ७ ॥ तीक्ष्ण तप. महापराकादि । तद्वा आयच्छेत आवर्तयेत् ॥ ७ ॥ भक्तापचयेन वाऽऽत्मानं समाप्नुयात् ॥ ८ ॥ भक्तमन्नम् । तस्याऽपचयो ह्रासः । प्रथमे दिने यावन्तो ग्रासाः ते एकेन न्यूना द्वितीये । एवं तृतीयादिष्वपि आ एकस्माद्ग्रासात् । त- त्रापि यदि न समाप्तिः ततस्तत्रैव ग्रासपरिमाणापचयः कर्त्तव्यः । एवं भक्तापचयेनाऽऽत्मानं समाप्नुयात् समापयेत् ॥ कृच्छ्रसंवत्सरं वा चरेत् ॥ ९ ॥ अथ वा संवत्सरमेकं नैरन्तर्येण कृच्छ्रांश्चरेत् । एषामेनस्सु गुरुषु गुरू- णि, लघुषु लघूनीति व्यवस्था ॥ ९ ॥ अथाऽप्युदाहरन्ति ॥ १० ॥ अस्मिन्नेव विषये पुराणश्लोकमप्युदाहरन्तीत्यर्थः ॥ १० ॥ स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्मह- त्यामकृत्वा । चतुर्थकाला मितभोजिनः स्यु(२)रपोऽभ्य- वेयुः सवनानु कल्पम् । स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैरप पापं नुदन्ते ॥ ११ ॥ ब्रह्महत्याव्यतिरिक्तानि स्तेयादीनि कृत्वा चतुर्थकालाश्चतुर्थो भोजन- १. वधे सति स्तेनस्य मोक्षो मुक्तिर्भवत्येनसो नान्यथा इति. क च. पु. २ अपोऽभ्युपेयुः इति. क छ पु.