भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 16, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 16

वर्णधर्मः] उज्ज्वलोपेते प्रथमः प्रश्नः । ५

कारो भवत्येव । 'फलवन्ति च कर्माणि'त्यभिधानात्, क्रियते इति कर्मेति निर्वचनात् । (१)'प्रागुपनयनात् कामचारवादभक्ष' इति गौतमस्मरणं ब्रह्महत्यादिमहापातकव्यतिरिक्तविषयमित्यनुपेतस्यापि दुष्टकर्मत्वसम्भ- वात् अदुष्टकर्मणा(२)मित्युक्तम् । शूद्रप्रतिषेधस्तु प्राप्तानुवादः ॥ ६ ॥ यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य कर्माऽऽह- शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ॥ ७ ॥ इतरेषा ब्राह्मणादीनां वर्णाना या शुश्रूषा सा शूद्रस्य परमो धर्मः ॥ ७ ॥ (३)तत्र विशेषमाह- पूर्वस्मिन्पूर्वस्मिन्वर्णै निःश्रेयसं भूयः ॥ ८ ॥ सर्वप्रकारं कृताया अपि वैश्यशुश्रूषाया मात्रयापि कृता क्षत्रियशु- श्रूषा बहुतर फलं साधयति । एव क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा ॥८॥ उपायनं वेदाध्ययनमित्यादि यदुक्तं अस्मिन्क्रमे उपनयने विशेषमाह- उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः ॥ ९ ॥ विद्या अर्थः प्रयोजनं यस्य स विद्यार्थः । तस्यायं श्रुतिविहितस्संस्कारः उपनयन नाम । 'विद्यार्थस्ये'ति वचनात् मूकादेर्न भवति । तथा च शङ्खलि- खितौ (४)'नोन्मत्तमूकान् संस्कुर्यात्' इति । (५)लिङ्गस्य विवक्षितत्वात् स्त्रिया अपि न भवति यद्यपि तस्याः (६)'अग्ने गृहपते' इत्यादिकया विद्यया अर्थः । 'श्रुतित' इति वचनं तदतिक्रमे श्रौतातिक्रमप्रायश्चित्त- प्राप्त्यर्थम् ॥ ९ ॥ अनेकवेदाध्यायिनां वेदव्रतवदुपनयनमपि प्रतिवेदं भेदेन कर्तव्य- मिति प्राप्ते उच्यते - सर्वेभ्यो वै वेदेभ्यस्सावित्र्यनूच्यत इति हि ब्राह्मणम् ॥१०॥ (७)'त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यृचोऽस्यास्सावित्र्याः परमेष्ठी प्रजापतिः ॥' इति (८)मनुः । ततश्चोपनयने यत्सावित्र्या अनुवचन तन्मुखेन सर्वे वेदा अनुक्ता १ गौ०ध ० २. १. २. उपनयनमुक्तं इति क० पु० ३. तत्र विशेष, इति क.पु. ४ इदानीमुपलभ्यमानमुद्रितशङ्खलिखितस्मृतिपुस्तकेषु श्लोकोऽयं नोपलभ्यते । ५ विद्यार्थस्येत्यत्र पुंलिङ्गस्य विवक्षितत्वात् इत्यर्थः । ६. तै स. १ ५ ६ ७ मनु स्मृ २ ७७. ८. मनुवचनम् इति. ख. पु