आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 160, कुल 399 में से
संदर्भ में पढ़ेंअपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४९ प्रायश्चित्तान्युक्तानि तानि स्त्रीणामप्येवमेव कर्तव्यानि । एतत् 'चत्वारो वर्णा' इति जात्याभिधानादेव (१) प्राप्तं सन्निषेधार्थमुच्यते—अत ऊर्ध्वं पुरुषस्यैव न स्त्रीणामिति । अपर आह—जात्याभिधानादेव सिद्धे अ- तिदेशार्थं वचनम् । अतिदेशेषु चार्धं प्राप्यते इति स्मार्तो न्यायः । तेन स्त्रीणामर्धप्राप्त्यर्थं वचनमिति । तथा च भार्गवः— अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥' इति ॥ ५ ॥ येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाऽप्राणिहिंसायाम् ॥६॥ येषु हतेषु 'सवनगत वाऽभिशस्त, (२४.९) इत्यादिना अभिशस्तत्वमुक्तं तेषामेकाङ्गं छित्वा शूद्रवत्प्रायश्चित्तं कुर्यात् । अप्राणिहिंसाया यदि छेदनेन तस्याङ्गस्य शक्ति(२)र्न हन्यते ॥ ६ ॥ (३)अनार्यवपैशुनप्रतिषिद्धाचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रायां च रेतस्सिक्त्वाऽयोनौ च दोषवच्च कर्मा- भिसन्धिपूर्वं कृत्वाऽनाभिसन्धिपूर्वं वाऽब्लिङ्गा- भिरप उपस्पृशेद्वारुणीभिर्वाऽन्यैर्वा पवि- त्रमन्त्रैर्यथा कर्माभ्यासः ॥ ७ ॥ आर्याणां भाव आर्यम् । तद्यस्मिन्नाचारेऽस्ति तदार्यवम् । मतुबर्थीयो वप्रत्ययः । ततोऽन्यदनार्यवम् । असत्यभाषणादि । पैशुनं परदोषकथनं राजगानि प्रतिषिद्धाचारः 'ष्ठीवनमैथुनयोः कर्माऽप्सु वर्जये' (३०.१९) दित्या- देरनुष्ठानम् । अभक्ष्यं वृथाकृसरादि । अभोज्यं केशकीटद्युपहतम् । अपेयम् अनिर्दशायाः गोः क्षीरादि । एतेषां प्राशने । शूद्राया च वेश्याप्रभृतौ रेतः सिक्त्वा । अयोनौ च जलादौ रेतः सिक्त्वा । दोषवच्च कर्म श्रौतमाभिचा- रिकम् । अभिसन्धिपूर्वं बुद्धिपूर्वं कृत्वा । अनभिसन्धिपूर्वं वा परपीडादिकरं कर्म कृत्वा । अब्लिङ्गाभिः(४) “आपो हिष्ठा मयोभुव' इति तिसृभि(५) हिरण्य १. प्रायश्चित्तं प्राप्तम् . तन्नियम' इति क. पु. २. न भज्यते इति घ. पु. । ३. गौतमीये २६. १५. सूत्रं द्रष्टव्यम् । ४. तै. ५ ६. १०. यो वश्शिवतमो रस०, तस्मा अरं गमाम व , इत्याग्रिमे ऋचौ । ५. तै. सं. ६ ६ १ यासा राजा वरुणः, यासा देवा दिवि, शिवेन मा चक्षुषा, इत्याग्रिमं ऋक्त्रयम् ।