आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 159, कुल 399 में से
संदर्भ में पढ़ें१४८ आपस्तम्बधर्मसूत्रे [(प्र.१.)क.२६. वायसः काकः । प्रचलाकः कामरूपी कृकलासः । बर्हिणो मयूरः । चक्रवा- को दिवा मिथुनचर , रात्रौ विरही । हंसो मानसवासी। भासो गृध्रविशेषः । नकुलमण्डूकादय. प्रसिद्धाः । डेरिका गन्धमूषिका । एतेषां समुदितानां वधे शूद्रवत्प्रायश्चित्तम् । प्रत्येक वधे तु कल्प्यम् । केचित् प्रत्येक वध एत- त्प्रायश्चित्तमित्याहुः ॥ १४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ धेन्वनडुहोश्चाऽकारणात् ॥ १ ॥ धेनुः पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवर्दः । तयोः कारणमन्तरेण हिंसायां शूद्रवत्प्रायश्चित्तं कर्तव्यम् । कारणं कोपो मांसे- च्छा वा । ताभ्यां विना, अबुद्धिपूर्वमित्यर्थः । बुद्धिपूर्वे तु(१) 'गाञ्च वैश्यव' दित्यादि स्मृत्यन्तरे द्रष्टव्यम् ॥ १ ॥ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् ॥ २ ॥ धुरं वहतीति धुर्यो बलीवर्दः । तेन वोढु शक्या धुर्यवाहाः। तावत्सु हिंसायाः प्रवृत्तौ सत्याम् । इतरेषा प्राणिना केवल प्राणा एव येषां नाऽस्थीनि तेषां हिंसायां शूद्रवत्प्रायश्चित्तमिति। अत्र गौतमः(२) 'अस्थन्वतां सहस्रं हत्वा अनस्थिमतामनुड्डारे चे'ति ॥ २ ॥ अनाक्रोशश्चाक्रुश्याऽनृतं वोक्त्वा त्रिरात्रमक्षी- राक्षारलवणभोजनम् ॥ ३ ॥ येन यो न कथञ्चनाऽऽक्रोशमर्हति स पित्राचार्यादिरनाक्रोश्यः । तमा- क्रुश्य अनृतं वोक्त्वा पातकोपातकवर्जं, त्रिरात्र क्षीरादि भोजने वर्जयेत् । क्षी- रग्रहणेन तद्विकाराणां दध्यादीनामपि(३) ग्रहणमित्याहुः ॥ ३ ॥ शूद्रस्य सप्तरात्रमभोजनम् ॥ ४ ॥ शूद्रस्त्वनन्तरोक्तविषये सप्तरात्रमुपवसेत् ॥ ४ ॥ स्त्रीणां चैवम् ॥ ५ ॥ 'क्षत्रियं हत्वे' (२४. १.) त्यादिषु अनृतवचनान्तेषु निमित्तेषु यानि १ गौ. ध. २३. १८. २. गौ. ध. २३. २०. ३. वर्जनमाहु. इति क. पु