भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

१४८ आपस्तम्बधर्मसूत्रे [(प्र.१.)क.२६. वायसः काकः । प्रचलाकः कामरूपी कृकलासः । बर्हिणो मयूरः । चक्रवा- को दिवा मिथुनचर , रात्रौ विरही । हंसो मानसवासी। भासो गृध्रविशेषः । नकुलमण्डूकादय. प्रसिद्धाः । डेरिका गन्धमूषिका । एतेषां समुदितानां वधे शूद्रवत्प्रायश्चित्तम् । प्रत्येक वधे तु कल्प्यम् । केचित् प्रत्येक वध एत- त्प्रायश्चित्तमित्याहुः ॥ १४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ धेन्वनडुहोश्चाऽकारणात् ॥ १ ॥ धेनुः पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवर्दः । तयोः कारणमन्तरेण हिंसायां शूद्रवत्प्रायश्चित्तं कर्तव्यम् । कारणं कोपो मांसे- च्छा वा । ताभ्यां विना, अबुद्धिपूर्वमित्यर्थः । बुद्धिपूर्वे तु(१) 'गाञ्च वैश्यव' दित्यादि स्मृत्यन्तरे द्रष्टव्यम् ॥ १ ॥ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् ॥ २ ॥ धुरं वहतीति धुर्यो बलीवर्दः । तेन वोढु शक्या धुर्यवाहाः। तावत्सु हिंसायाः प्रवृत्तौ सत्याम् । इतरेषा प्राणिना केवल प्राणा एव येषां नाऽस्थीनि तेषां हिंसायां शूद्रवत्प्रायश्चित्तमिति। अत्र गौतमः(२) 'अस्थन्वतां सहस्रं हत्वा अनस्थिमतामनुड्डारे चे'ति ॥ २ ॥ अनाक्रोशश्चाक्रुश्याऽनृतं वोक्त्वा त्रिरात्रमक्षी- राक्षारलवणभोजनम् ॥ ३ ॥ येन यो न कथञ्चनाऽऽक्रोशमर्हति स पित्राचार्यादिरनाक्रोश्यः । तमा- क्रुश्य अनृतं वोक्त्वा पातकोपातकवर्जं, त्रिरात्र क्षीरादि भोजने वर्जयेत् । क्षी- रग्रहणेन तद्विकाराणां दध्यादीनामपि(३) ग्रहणमित्याहुः ॥ ३ ॥ शूद्रस्य सप्तरात्रमभोजनम् ॥ ४ ॥ शूद्रस्त्वनन्तरोक्तविषये सप्तरात्रमुपवसेत् ॥ ४ ॥ स्त्रीणां चैवम् ॥ ५ ॥ 'क्षत्रियं हत्वे' (२४. १.) त्यादिषु अनृतवचनान्तेषु निमित्तेषु यानि १ गौ. ध. २३. १८. २. गौ. ध. २३. २०. ३. वर्जनमाहु. इति क. पु

अपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४९ प्रायश्चित्तान्युक्तानि तानि स्त्रीणामप्येवमेव कर्तव्यानि । एतत् 'चत्वारो वर्णा' इति जात्याभिधानादेव (१) प्राप्तं सन्निषेधार्थमुच्यते—अत ऊर्ध्वं पुरुषस्यैव न स्त्रीणामिति । अपर आह—जात्याभिधानादेव सिद्धे अ- तिदेशार्थं वचनम् । अतिदेशेषु चार्धं प्राप्यते इति स्मार्तो न्यायः । तेन स्त्रीणामर्धप्राप्त्यर्थं वचनमिति । तथा च भार्गवः— अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥' इति ॥ ५ ॥ येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाऽप्राणिहिंसायाम् ॥६॥ येषु हतेषु 'सवनगत वाऽभिशस्त, (२४.९) इत्यादिना अभिशस्तत्वमुक्तं तेषामेकाङ्गं छित्वा शूद्रवत्प्रायश्चित्तं कुर्यात् । अप्राणिहिंसाया यदि छेदनेन तस्याङ्गस्य शक्ति(२)र्न हन्यते ॥ ६ ॥ (३)अनार्यवपैशुनप्रतिषिद्धाचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रायां च रेतस्सिक्त्वाऽयोनौ च दोषवच्च कर्मा- भिसन्धिपूर्वं कृत्वाऽनाभिसन्धिपूर्वं वाऽब्लिङ्गा- भिरप उपस्पृशेद्वारुणीभिर्वाऽन्यैर्वा पवि- त्रमन्त्रैर्यथा कर्माभ्यासः ॥ ७ ॥ आर्याणां भाव आर्यम् । तद्यस्मिन्नाचारेऽस्ति तदार्यवम् । मतुबर्थीयो वप्रत्ययः । ततोऽन्यदनार्यवम् । असत्यभाषणादि । पैशुनं परदोषकथनं राजगानि प्रतिषिद्धाचारः 'ष्ठीवनमैथुनयोः कर्माऽप्सु वर्जये' (३०.१९) दित्या- देरनुष्ठानम् । अभक्ष्यं वृथाकृसरादि । अभोज्यं केशकीटद्युपहतम् । अपेयम् अनिर्दशायाः गोः क्षीरादि । एतेषां प्राशने । शूद्राया च वेश्याप्रभृतौ रेतः सिक्त्वा । अयोनौ च जलादौ रेतः सिक्त्वा । दोषवच्च कर्म श्रौतमाभिचा- रिकम् । अभिसन्धिपूर्वं बुद्धिपूर्वं कृत्वा । अनभिसन्धिपूर्वं वा परपीडादिकरं कर्म कृत्वा । अब्लिङ्गाभिः(४) “आपो हिष्ठा मयोभुव' इति तिसृभि(५) हिरण्य १. प्रायश्चित्तं प्राप्तम् . तन्नियम' इति क. पु. २. न भज्यते इति घ. पु. । ३. गौतमीये २६. १५. सूत्रं द्रष्टव्यम् । ४. तै. ५ ६. १०. यो वश्शिवतमो रस०, तस्मा अरं गमाम व , इत्याग्रिमे ऋचौ । ५. तै. सं. ६ ६ १ यासा राजा वरुणः, यासा देवा दिवि, शिवेन मा चक्षुषा, इत्याग्रिमं ऋक्त्रयम् ।

१६० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २६. वर्णाश्शुचयः पावका' इति चतसृभिरप उपस्पृशेत् । तूष्णीं प्रथमं स्नात्वा पश्चादेतैर्मन्त्रैर्मार्जनं कुर्यात् । वारुणीभिर्वा (१) 'इमं मे वरुण, 'तत्त्वा यामि; 'त्वन्नो अग्ने' इत्येताभिर्न्यैर्वा पवित्रैः (२) पवमानस्सुवर्जन' इत्येतेना- नुवाकेन (३) शुद्धवतीभिः (४) तरत्समन्दीयेन च । यथा कर्माभ्यास कृतः (५) तावत्कृत्वोऽप उपस्पृशेत् । रहस्यप्रायश्चित्तमेतदित्याहुः ॥७॥ गर्दभेनाऽवकीर्णी निर्ऋतिं पाकयज्ञेन यजेत ॥ ८ ॥ यो ब्रह्मचारी स्त्रियमुपेयात् सोऽवकीर्णी गर्दभेन निर्ऋतिं यजेत पाकयज्ञेन स्थालीपाकविधानेन । अत्र मनुः-- (६) 'अविकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन, यजेत निर्ऋतिं निशि ॥' इति । हारीतस्तु-- "स्त्रीष्ववकीर्णी निर्ऋत्यै चतुष्पथे गर्दभं पशुमालभेत पाकयज्ञधर्मे- ण । भूमौ पशुपुरोडाशश्रपणमप्स्र्ववदानैः प्रचार्य्याऽऽज्य जुहोति 'कामाव कीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोस्म्यभिद्रु ग्धोऽस्मि कामकामाय स्वाहा' इति ॥ ८ ॥ तस्य शूद्रः प्राश्नीयात् ॥ ९ ॥ तस्य गर्दभस्य सर्पिष्मद्बहिराविच्छिष्टं शूद्रः प्राश्नीयात् (७)'तेन स र्पिष्मता ब्राह्मण' मित्यस्याऽपवादः ॥ ९ ॥ मिथ्याधीतप्रायश्चित्तम् ॥ १० ॥ नियमातिक्रमेणाऽधीतं मिथ्याधीतम् । तद्दोषनिर्हरणाय प्रायश्चित्तं वक्ष्यते ॥ १ ॥ सम्वत्सरमाचार्यहिते वर्तमानो वाचं यच्छे- त्स्वाध्याय एवोत्सृजमानो वाचमाचार्ये आचार्यदारे वा भिक्षाचर्ये च ॥११॥ आचार्यहिते वर्तमानो वाचंयमः स्यात् । (८)स्वाध्यायादिष्वेषु वाचमुत्सृ- १ तै सं० ४. २. ११. २. तै. ब्रा. १. ४. ८ ३ ऋ. सं. ८. ९५. ६. ४. ऋ सं. ८.९५,७ ५. कृत. तथोपस्पृशेत्. इति. क. पु ६. म. स्मृ. ११. ११८. ७ आप. गृ. ७. १५. ८. वागुत्सर्गस्स्वाध्याय एव इति. ख. पु.

जमानः । आचार्ये तं प्रति कार्यनिवेदने।एवमाचार्यद्वारे । भिक्षाचर्य भिक्षाचरणम्। तत्र च ‘भवति भिक्षां देही’ति । अस्मादेव ज्ञायते-असमावृत्तविषय- मेतदिति ॥ ११ ॥ एवमन्येष्वपि दोषवत्स्वपतनियेषूत्तराणि यानि वक्ष्यामः ॥ १२ ॥ यथा मिथ्याधीतस्येदं प्रायश्चित्तमेवमुत्तराणि यानि प्रायश्चित्तानि व- क्ष्यामः तान्यन्येष्वपि । अपिशब्दान्मिथ्याधीतेऽपि । दोषवत्स्वपतनीयेषु पतनी- यव्यतिरिक्तेषु कर्मसु येष्वाहृत्य प्रायश्चित्त नोक्त तद्विषयाणि द्रष्ट- व्वानि ॥ १२ ॥ काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति१.३ स्वाहाकारान्ताभ्यां होमः । आज्यं द्रव्यम् ॥ १३ ॥ जपेद्वा ॥ १४ ॥ अस्मिन् पक्षे न स्वाहाकारः । केचित्तु ‘कामाय स्वाहा’ ‘मन्यवे स्वा- हे’ति होममिच्छन्ति । जपपक्षे तु सूत्रोपदिष्टौ मन्त्राविति । दोषाभ्यासा- नुरूपं जपहौमयोरावृत्तिः ॥ १४ ॥ पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुप- स्पृश्य सावित्रीं प्राणायामशस्सहस्रकृत्व आ- वर्तयेदप्राणायामशो वा ॥१५॥ पर्वणि पौर्णमास्याममावास्यायां वा । तिलानेव भक्षयति नान्यदो- दनादिकमिति तिलभक्ष । श्वोभूते उदकमुपस्पृश्य स्नात्वा सावित्रीं प्राणायामशः प्राणायामेन एकस्मिन्प्राणायामे यावत्कृत्व आवर्तयितुं शक्यं तावत्कृत्व आवर्तयेत् । एवमा सहस्रपूर्तेः प्राणायामावृत्तिः । अप्राणायामशो वा (१)जप- काले प्राणान्यायच्छेत् , तूष्णीं जपेद्धेति ॥ १५ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने षड्विंशी कण्डिका ॥२६॥


१. जपकाल इत्यादि नास्ति ख च. पु.

१८२ आपस्तम्बधर्मसूत्रे [(प्र.९.)क. २७. श्रावण्यां वा पौर्णमास्यां तिलभक्ष उपोष्य वा श्वो भूते (१)माहानदमुदकमुपस्पृश्य सावित्र्या समित्सह- स्रमादध्याज्जपेद्वा ॥ १ ॥ गिरिप्रभवा समुद्रगामिनी नदी महानदी तत्र भवं माहानदम् । समि- त्सहस्रं याज्ञिकस्य वृक्षस्य । 'आदध्या'दिति वचनान्न होमधर्मः स्वाहा कारः(२) 'जुहोतिचोदना स्वाहाकारप्रदान,' इत्युक्तत्वात् । जपेद्वा ॥१॥ इष्टियज्ञक्रतून्वा पवित्रार्थानाहरेत् ॥ २ ॥ पवित्रार्थाः शुद्ध्यर्थाः (३)मृगाराद्या इष्टयः । (४)यज्ञक्रतवः सोमयागा अग्निष्टोमादयः । तान्येतानि षट् प्रायश्चित्तानि एनस्सु गुरुषु गुरूणि, लघुषु लघूनि ॥ २ ॥ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ॥ ३ ॥ अभोज्यस्य मार्जारादिमांसस्य भक्षणे निष्पुरीषभावः कर्तव्यः । यावदुदरं निष्पुरीषं भवति तावदुपवस्तव्यम् ॥ ३ ॥ तत्कियता कालेनाऽवाप्यते ? तदाह— तत्सप्तरात्रेणाऽवाप्यते ॥ ४ ॥ तत् नैष्पुरीष्यम् । सप्तरात्रेणाऽवाप्यते सप्तरात्रमुपवस्तव्यमित्य र्थः । सप्तरात्रमुपवसेदित्येव सिद्धे नैष्पुरीष्यवचनाद्येषां त्रिरात्रेणैव त- दवाप्यते तेषां तावतैव शुद्धिः । तथा च गौतमः—(५)'अभोज्यभोजने निष्पुरीषभावः त्रिरात्रावरमभोजनं सप्तरात्रं वे'ति ॥ ४ ॥ हेमन्तशिशिरयोर्वोभयोस्सन्ध्योर्वोदकमुपस्पृशेत् ॥५॥ उभयोः सन्ध्योः सायं प्रातश्च । उदकमुपस्पृशेत् भूमिगतास्वप्सु स्ना यात् । उद्धृताभिर्वा शीताभिः ॥ ५ ॥ कृच्छ्रद्वादशरात्रं वा चरेत् ॥ ६ ॥ १. महानद इति छ पु २. (आप. प. ३.४.) "जुहोतिचोदना स्वाहाकारप्रदान इत्युक्तत्वात् । जपेद्वा" इति नास्ति. क. छ. पु. ३. अग्नयेऽहोमुचेऽष्टाकपालः (तै.स. ७. ५. २२.) इति विहितेष्टिर्मृगोरष्टिदर्श हविष्का । ४. यज्ञाः क्रतवः । इति. क. छ. पु. ५. गौ. ध. २६. ४.

अपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५३ द्वादशरात्रसाध्यो व्रतविशेषः कृच्छ्रद्वादशरात्रः ॥ ६ ॥ तस्य विधिमाह(१)- त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहम्, त्र्यहमयाचितव्रत- स्त्र्यहं नाश्नाति किञ्चनेति कृच्छ्रद्वादशरात्रस्य विधिः॥७॥ आदितस्त्रिष्वहस्सु नक्तं नाऽश्नीयात् । दिवैव भुञ्जीत । ततस्त्र्यहम- दिवाशी रात्रावेव भुञ्जीत । न दिवा । ततस्त्र्यहमयाचितमेव भुञ्जीत । याच्ञाप्रतिषेधोऽयम् । तेन स्वद्रव्यस्याऽप्रतिषेधः । तथा च गौतमः (२)'अथाऽपरं त्र्यह न कंचन याचे'दिति । ततस्त्र्यहं नाश्नाति किञ्चन फला- दिकमपीति । एवं कृच्छ्रद्वादशरात्रस्य विधिः । तत्र स्मृत्यन्तरवशाद्धविष्यमन्न, ब्रह्मचर्यं, स्त्रीशूद्रादिभिरसम्भाषणं च द्रष्टव्यम् ॥ ७ ॥ एतमेवाऽभ्यस्येत्संवत्सरं स कृच्छ्रसंवत्सरः ॥ ८ ॥ एतमेव विधिं संवत्सरं निरन्तरमभ्यस्येत् । स एष कृच्छ्रसंवत्सरो वेदि- तव्यः । यः पूर्वोक्तः ‘कृच्छ्रसंवत्सरं वा चरे’ ( २५. ९ ) दिति ॥ ८ ॥ अथाऽपरं बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नन् पा- रायणैः कृतप्रायश्चित्तो भवति ॥ ९ ॥ अथाऽपरं प्रायश्चित्तमुच्यते । अनश्नतैव निरन्तर त्रीणि पारायणानि कर्त- व्यानि । आदित आरभ्याऽऽसमाप्तेर्वेदस्याऽध्ययनं पारायणम् । बहून्यपि । अपिशब्दात्किं पुनरेकं द्वे वा ॥ ९ ॥ अनार्या शयने बिभ्रद्दद्वृद्धिं कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वाfeaturesसीत पृष्ठतप् ॥१०॥ अनार्या शूद्रा तां शयने बिभ्रत् उपगच्छन् । ददद्वृद्धिं वृद्ध्यर्थं द्रव्यं ददत् । वृद्ध्याजीव इत्यर्थः । सुराव्यतिरिक्तं मद्यं कषायः । (३) तस्य पाता कषा- यपः । यश्चाऽब्राह्मण इव सर्वान् वन्दी भूत्वा स्तौति स सर्वोऽपि तृणेषूदया- दारभ्याऽऽसीत । यावदस्याऽऽदित्यः पृष्ठं पश्चाद्भागं तपति । आदित्ये तपति तदानुगुण्याचरणान् स्वयमेव पृष्ठतबित्युच्यते । अभ्यासे अभ्यासो यावता शुद्धिं मन्यते ॥ १० ॥ १. मनौ. ११. २११ श्लोको द्रष्टव्यः । २. गौ ध. २६. ४. ३. ‘तत पिबतीति कषायपः’ इति ग, पु. आप० ध० २०

१६४ आपस्तम्बधर्मसूत्रे [(प.९)क.२७. यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणस्सेवमानः चतुर्थकाल (१)उदकाभ्यवायी त्रिभिर्वर्षैस्तदप- हन्ति पापम् ॥ ११ ॥ कृष्णो वर्ण शूद्रः। तमाज्ञाकरो भूत्वा वृत्त्यर्थं सेवमानः । शिष्टं स्पष्टं गतं च । अपर आह—शूद्रां मैथुने सेवमान इति । अस्मिन्पक्षे ऋतावुपगमने अपत्योत्पत्ताविदं द्रष्टव्यम् । मनुः-- (२)वृषलीफेनपीतस्य निश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥' इति ॥ ११ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने सप्तविंशी कण्डिका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलायां प्रथमप्रश्ने नवमः पटलः ॥ ९ ॥ १. उदकाभ्युपायी इति. छ. पु. २. म. स्मृ. ३. १९.

दशमः पटलः॥ यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भवती- ति कौत्सहारीतौ तथा काण्वपुष्करसादी ॥ १ ॥ (१)यथा कथा च आपद्यनापदि वा भूयांसमल्पं वा, परपरिग्रहं परस्व- मभिमन्यते-ममेदमस्त्विति बुद्धौ कुरुते(२) सर्वथा स्तेन एव भवतीति कौत्सादयो मन्यन्ते ॥ १ ॥ संत्यपवादाः परपरिग्रहेष्विति वार्ष्यायणिः ॥ २ ॥ वार्ष्यायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्याऽपवादास्सन्तीति॥ तानेवोदाहरति- शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ॥ ३ ॥ शमी बीजकोशी तस्यामुष्यन्ते दह्यन्ते कालवशेन पच्यन्ते इति शम्योषाः कोशीधान्यानि मुद्गमाषचणकादीनि । युगं वहतीति युग्यः श- कटवाही बलीवर्दः, तस्य घासो भक्षस्तृणादिः युग्यघासः । एते आदीया- मानाः स्वामिनो न प्रतिषेधयन्ति स्वामिभिः प्रतिषेधं न कारयन्ति । एते- ष्वादीयमानेषु स्वामिनो न प्रतिषेद्धुमर्हन्तीत्यर्थः । स्वयंग्रहणेऽपि न स्तेयदोष इति यावत् । अत्र स्मृत्यन्तरे विशेषः- ‘चणकव्रीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धैर्ग्रहीतव्यो मुष्टिरेकाऽध्वनि स्थितैः ॥’ मनुस्तु- (३)‘द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३ ॥ अतिव्यवहारो व्यृद्धो भवति ॥ ४ ॥ शम्योषादिष्वपि अतिव्यवहारो व्यृद्धो दुष्टो भवति, अतिमात्रापहारे स्ते- यदोषो भवतीत्यर्थः ॥ ४ ॥ १. ‘कथा’ इति छान्दस रूप कथमित्यर्थ. । दृष्टं च “तमब्रुवन् कथा हास्था.” (तै.सं. २.६.३.) “कथा मा निरभागिति” (तै.स.३.१.९) इत्यादौ । २. बुद्धौ कृत्वाऽऽदत्त इत्यर्थ , इत्याधिक क. छ. पु. ३. म. स्मृ. ८. ३४१.

१६६ आपस्तम्बधर्मसूत्रे [(प्र. १०) क. २८. सर्वत्राऽऽनुमतिपूर्वमिति हारीतः ॥ ५ ॥ सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाम्यनुमतिपूर्वमेव ग्रहणमिति हारीत आचार्यो मन्यते ॥ ५ ॥ न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ॥ ६ ॥ 'न पतितैः संव्यवहारो विद्यत' (२१.५.) इत्युक्तेऽपि पुनरुच्यते-आ- चार्यादिषु विशेषं वक्ष्यामीति ॥ ६ ॥ न चाऽस्माद्भोगानुपयुञ्जीत ॥ ७ ॥ अस्मात्पतितादाचार्यात् ज्ञातेर्वा पित्रादेः भोगान् भोगसाधनानि दा- यप्राप्तान्यपि नोपयुञ्जीत न गृह्णीयात् ॥ ७ ॥ यदृच्छासन्निपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ॥ ८ ॥ यदि पतितैराचार्यादिभिर्यदृच्छया सन्निपातः सङ्गतिः स्यात् तदाऽवि- घ्रिनोपसंगृह्य तूष्णीं तैस्सह किञ्चिदप्यसम्भाष्य व्यतिव्रजेत् गच्छेत् । न क्ष- णमपि सह तिष्ठेत् ॥ ८ ॥ माता पुत्रत्वस्य भूयांसि कर्माण्यरभते तस्यां शुश्रूषा नित्या पतितायामपि ॥ ९ ॥ पुत्रत्वस्य, स्वार्थिकस्त्वः । यथा 'देहत्वमेवान्य'दिति । पुत्रस्य कृते माता भूयांसि दृष्टार्थानि गर्भधारणाशुचिनिर्हरणस्तन्यदानप्रदक्षिणन- मस्कारोपवासादीनि कर्माणि करोति तस्मात्तस्यां पतितायामपि शुश्रूषा अभ्यङ्गस्नापनादिका । नित्या नित्यमेव कर्तव्या ॥ ९ ॥ न तु धर्मसन्निवापः स्यात् ॥ १० ॥ एकस्मिन् धर्मे सहाऽन्वयो धर्मसन्निवापः । स पतिवया मात्रा सह न कर्तव्यः । नामसुब्रह्मण्यायां मातुर्नामग्रहणम् । वरुणप्रघासेषु (१)या- वन्तो यजमानस्याऽमात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानी'त्येवमा- दिकमुदाहरणम् । किं पुनरेवमादिषु मातुरन्वयः शुश्रूषा ? ओमित्याह । अन्विता हि सा सम्मता मन्यते । निरस्ता तु विमता । वैश्वदेवार्थे च पाके सा न भोजयितव्या । मृतायास्तु तस्याः संस्कारादिकाः क्रियाः कर्तव्याः नेति विप्रतिपन्नाः ॥ १० ॥


१. आप. श्रौ ८. ५. ४१. करम्भपात्रनिर्माणे संख्याविधिरयम् ।

पतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५७ अधर्माहृतान् भोगाननुज्ञाय न वयं चाऽधर्मश्चेत्यभि व्याहृत्याऽधो नाभ्युपरिजान्वाच्छाद्य त्रिषव- णमुदकमुपस्पृशन्नक्षीराम्ललवणं भुञ्जा- नो द्वादश वर्षाणि नाऽगारं प्रविशेत् ॥ ११ ॥ ब्राह्मणस्वहरणम् , (१)चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ इत्येवमादिकमुदाहरणम् । ये अधर्माहृता भोगास्ताननुज्ञाय परि- त्यज्य 'न वयं चाऽधर्मश्चे'ति प्रैषं ब्रूयात् । तस्यार्थः-वयं चाऽधर्मश्च सह न वर्तामह इति । अधो नाभित्यादि (२४.११.)गतम्। नात्राऽर्धशाणीपक्षो भिक्षाचर्यं वा ॥ ११ ॥ ततस्सिद्धिः ॥ १२ ॥ एतस्य द्वादशवार्षिकस्याऽन्ते सिद्धिः शुद्धिर्भवति ॥ १२ ॥ अथ सम्प्रयोगस्स्यादार्यैः ॥ १३ ॥ प्रायश्चित्तोपदेशात् सिद्ध्युपदेशाच्च सिद्धे पुनर्वचनं 'ज्ञा- नात्साम्यं तु गच्छती'त्यस्याऽपवादार्थम् ॥ १३ ॥ एतदेवाऽन्येषामपि पतनीयानाम् ॥ १४ ॥ उक्तव्यतिरिक्तानि यानि पतनीयानि पूर्वमुक्तानि तेषु यत्राऽऽदृत्य प्रायश्चित्तं (२)नोक्तं तेषामप्येतदनन्तरोक्तमेव प्रायश्चित्तं वेदितव्यम् । उक्तविषये विकल्प इत्यन्ये । तत्र ज्ञानाज्ञानकृतो विकल्पः ॥ १४॥ गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याऽभिदहेदात्मानम् ॥१५॥ यस्तु गुरुतल्पगामी सोऽन्तःप्रवेशयोग्यां सुषिरां सूर्मिं कृत्वा प्रविशेत् प्रविश्योभयतःपार्श्वयो(३)र्वह्निमादीपयेत् । आदीप्त्याऽऽत्मानमभिदहेत् । "ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुया (२५. २. )" दित्यत्रैव कियानपि १. म. स्मृ. ११ १७६. २. अनुक्त. इति. क. ख. पु. ३. वह्निमिति नास्ति क. छ. पु.

१९८ आपस्तम्बधर्मसूत्रे [(प.१०)क.२८. विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्यर्थं वचनम् ॥ १५ ॥ मिथ्यैतदिति हारीतः ॥ १६ ॥ हारीतस्त्वृषिर्मन्यते-एतदनन्तरोक्तं मरणांतिकप्रायश्चित्तं मिथ्या न कर्तव्यमिति ॥ १६ ॥ कुत इत्यत आह- यो ह्यात्मानं परं वाऽभिमन्यतेऽभिशस्त एव स भवति ॥ १७ ॥ हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभि- शस्त एव भवति ब्रह्महैव भवति । (१)न च पतनीयापनोदनं चिकीर्षु- रन्यत् पतनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाच्चाऽन्ये- षामपि मरणांतिकानां ब्राह्मणविषये निवृत्तिः ॥ १७ ॥ किं तर्हि तस्य प्रायश्चित्तमिति ? आह-- एतेनैव विधिनोत्तमादुच्छासाच्चरेन्नास्याऽस्मिँल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ॥ १८ ॥ 'अघोनाभ्युपरि जान्वि' (२८.११.) त्यादि यदनन्तरोक्तमेतेनैव विधिना । शिष्टं गतम् ॥ १८ ॥ दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय 'दारव्यति- क्रमिणे भिक्षा'मिति सप्ताऽगाराणि चरेत्। सा वृत्तिः षण्मासान् ॥ १९ ॥ (२) यस्तु अन्तरेणैव निमित्तं कौमारान् दारान् परित्यजति स दा- रव्यतिक्रमी । खरस्य, गर्दभस्याऽजिनं बहिर्लोम परिधाय वासित्वा दारव्यति- क्रमिणे भिक्षां दत्तेति सप्तागाराणि भिक्षां चरेत् । (३)कौमारदारपरित्यागिने भिक्षां दत्ते'ति वासिष्ठे । (४)सा वृत्ति. षण्मासान् । ततः सिद्धिः ॥ ९ ॥ १ न च महापातकस्य ब्रह्महत्या प्रायश्चित्त भवितुमर्हतीति. क. पुस्तके. २. धर्मप्रजादिकमन्तरेण कौमारान् दारान्' इति क ख. पु. ३ व घ. कौमारदारव्यतिक्रमिणे. इति. ख. पु. कौमारदारपरित्यागिने इति, क. पु. ४ षण्मासाद्धूर्ध्वं शुद्ध. इति. ग. पु. 'सा वृत्ति'रित्यादि पृथक्सूत्रं च ॥

भ्रूणहत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९ स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्रा- भ्यासस्तावन्तं कालम् ॥ २० ॥ भर्तृव्यतिक्रम इति छान्दसो रेफलोपः । व्यतिक्रमः परित्याग । या तु स्त्री भर्तारं परित्यजत्यन्तरेण निमित्तं, तस्यास्तावन्त कालं षण्मासान् कृच्छ्रद्वादशरात्राभ्यासः प्रायश्चित्तम् ॥ २० ॥ अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परि- धाय पुरुषशिरः प्रतीपानार्थमादाय ॥२१॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्नेऽष्टाविंशी कण्डिका ॥२८॥ खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्या- गारं वृक्षमूलं वाऽभ्युपाश्रये'न्न हिम आर्यैः सह सम्प्रयो- गो विद्यते ' । एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नाऽस्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्ह- ण्यते ॥ १ ॥ षडङ्गस्य वेदस्याध्येता, तदर्थवित्, प्रयोगशास्त्रस्य सव्याख्यस्या र्थवित् कर्मणामनुष्ठाताऽनुष्ठापयिता च ब्राह्मणो भ्रूणः । तथा च बौ- धायनः—(१)'वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रो- त्रियः । अङ्गाध्याय्यनूचानः । कल्पाध्याय्यृषिकल्पः । सूत्रप्रवचनाध्यायी भ्रूणः' इति। तं यो हतवान् स भ्रूणहा । स शुनः खरस्य वाऽजिनं बहिर्लोम परिधाय पुरुषस्य यस्यकस्यचिन्मृतस्य शिरः, प्रतीपानार्थम् । प्रतिधार्त्वर्थानुवादः (२)'उपस- र्गस्य घञ्यमनुष्ये बहुल'मिति बाहुलको दीर्घः । पानमेव प्रतीपानम् । पानग्रहणमुपलक्षणम् । भोजनमपि तत्रैव । खटाङ्ग दण्डार्थे, खट्वाया अङ्गं खट्वाङ्गमीषादि तद्दण्डकृत्ये आदाय । 'भ्रूणहाऽस्मीत्येवं कर्मनिब न्धनमात्मनो नामधेयं प्रब्रुवाणश्चङ्क्रम्येत इतस्ततश्चरेत् । कापालिकतन्त्रप्रसिद्ध- स्य खटाङ्गस्य वा ग्रहणम् । भिक्षाचरणकाले च को भ्रूणघ्ने भिक्षां द- १ बौधा. गृ. १. ११. २. पा. सू. ६. ३ १२२.

१६० आपस्तम्बधर्मसूत्रे [ (प्र. १०) क. २९ दातीति चरेत् । चरित्वा प्राप्ते प्राणवृत्तिं प्राणयात्रामात्रं प्रतिलभ्य शून्यागारं वृक्षमूलं वा निवासार्थमभ्युपाश्रयेत्—‘न हि म आर्यैः सह सम्प्रयोगो विद्यत’ इत्येवं मन्यमानः । कियन्तं कालमेवं चरितव्यमित्यत आह—एतेनैवेत्यादि । गतम् । ‘श्रोत्रियं वा कर्मसमाप्त(२४.२४.)’ मित्यत्र यः श्रोत्रियः (१)ग्र- न्थधारी अर्थज्ञश्च न भवति अनुष्ठापयिता च न भवति तस्य ग्रहणम्॥१॥ यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ २ ॥ क्षत्रियं हत्वे'त्येवमादिकेऽनुक्रान्तेऽपि विषये यः प्रमत्तो हन्ति प्रमादे- नाऽबुद्धिपूर्वं हन्ति तस्याऽपि दोषफल प्राप्तमेव । न तु प्रमादकृतमिति दोषाभावः ॥ २ ॥ सह सङ्कल्पेन भूयः ॥ ३ ॥ सङ्कल्पेन सह वधे कृते भूयः प्रभूततरं भवति । तेन प्रमादकृते लघुप्रा- यश्चित्तम् , बुद्धिपूर्वे तु गुर्विति । यत्पुनः पूर्वमुक्तं ‘दोषवच्च कर्माभि- सन्धिपूर्वं कृत्वाऽनभिसन्धिपूर्वं वे(२६.७)’ ति तत्र तेषु प्रायश्चित्तेषु विशेषाभावादिदमुक्तम् ॥ ३ ॥ एवमन्येष्वपि दोषवत्सु कर्मसु ॥ ४ ॥ अन्येष्वपि हननव्यतिरिक्तेषु दोषवत्सु कर्मसु एवमेव द्रष्टव्यम्—अबुद्धि- पूर्वे कृतेऽल्पो दोष , बुद्धिपूर्वे महानिति ॥ ४ ॥ तथा पुण्यक्रियासु ॥ ५ ॥ पुण्यक्रियास्वप्येष एव न्यायः-अबुद्धिपूर्वेऽल्पं फलम्, बुद्धिपूर्वे महदिति। तद्यथा--ब्राह्मणस्वान्यपहृत्य चोरेषु धावत्सु यदृच्छया कश्चिच्छूर आगतस्तान् हन्यात्, स्वयमेव वा शूरं दृष्ट्वा चोरा अपहृतानि द्रव्याण्युत्सृज्य पलायेरन् तदा शूरस्याऽल्पं पुण्यफलम् । यदा तु बुद्धिपूर्वे स्वयमेव चोरेभ्यः प्रत्याहृत्य स्वानि स्वामिभ्यो ददाति तदा महदिति । एवं स्वभार्याबुद्ध्या परदारगमनेऽल्पम्, अन्यत्र महदिति ॥५॥ परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽददीत ॥ ६ ॥ गुणदोषज्ञानं परीक्षा । तया अर्थः प्रयोजनं यस्य सः । एवभूतोऽपि ब्राह्मण आयुधं न गृह्णीयात् किं पुनर्हिंसार्थ इत्यपिशब्दार्थः ॥ ७ ॥ १. श्रुतिधारी इति. क. पु.

पतितधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६१ अस्य प्रतिप्रसवः— यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन् दोष इति पुराणे ॥ ७ ॥ यस्तु हिंसाथं मारणार्थमभिक्रान्तमभिपतितं हन्ति न तस्मिन् दोषो विद्यत इति पुराणे श्रुतम् । दोषाभावे हेतुः—यस्मान्मन्युरेव मन्युं स्पृशति न पुनः पुरुषः पुरुषम् । अत्र वसिष्ठबौधायनौ— (१)स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥ इति । मनुस्तु- (२)शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते । आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ॥ स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥' इति ॥ गौतमः-(३) प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीते'ति ॥ वसिष्ठः— (४) अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥' इति ॥ ७ ॥ पतितैरकृतप्रायश्चित्तैरुत्पादितानां पुत्राणामपि पातित्यमस्तीति प्रतिपादयितुं पूर्वपक्षमाह— अथाऽभिशस्ताः समवसाय चरेयुर्धर्म्यमिति सांशिते- तरेतरयाजका इतरेतराध्यापका मिथो विवाहमानाः ॥८॥ अथशब्दोऽर्थान्तरप्रस्तावं सूचयति । अभिशस्ता. पतिताः । समवसाय चरेयुः । अवसानं गृहम् । समित्येकीभावे । ग्रामाद्वहिरेकस्मिन् प्रदेशे गृहाणि कृत्वा चरेयुः । धर्म्यं धर्म्यं वक्ष्यमाणं वृत्तमिति । संशित्य सं शितां तीक्ष्णां बुद्धिं कृत्वा । निश्चित्येत्यर्थः । इतरेतरं याजयन्तः । इत रेतरमध्यापयन्तः परस्परं विवाहसम्बन्धं च कुर्वन्तश्चरेयुः वर्तेरन्निति ॥ १. व. ध. ३. १८, बौ १. १० १२ २ म स्मृ ८ ३४८, ३४९. ३. गौ. ध ७ २५ ४. व. ध. ३. १६, १७, आप० ध० २१

१६२ आपस्तम्बधर्मसूत्रे [ (प.१०)क.२९. पुत्रान् सन्निष्याय ब्रूयुर्विप्रजताऽस्मदेवं ह्यस्म- त्स्वायास्सम्प्रत्यपत्स्यतेति ॥ ९ ॥ अथ ते पुत्रान् सन्निष्याय ब्रूयुः हे पुत्राः अस्मत् अस्मत्तः । विप्रव्रजत विविधं प्रकर्षेण च स्नेहमुत्सृज्याऽऽर्यसमीपं गच्छत । एव ह्यस्मत्सु अस्मा स्वायाः शिष्टाः सम्प्रत्यपत्स्यत । (१) 'आशंसायां भूतवच्चेति' भविष्यति लुङ् । सकारात्परो यकारोऽपपाठश्छान्दसो वा । सम्प्रतिपत्तिं करिष्य न्ति । आर्याणामप्येतदभिप्रेतं भविष्यति । यस्मादस्माभिरेव पतनीयं कर्माऽनुष्ठितं न भवद्भिः । न च पतितेनोत्पादितस्य पातित्यम्, अन्य- त्वात् ॥ ९ ॥ एतदेवोपपादयति - अथाऽपि न सेन्द्रियः पतति ॥ १० ॥ न हि पतितो भवन् सहेन्द्रियेण पतति, पुरुष एव पतति, नेन्द्रियं शुक्रमिति । अथापिशब्दावपि चेत्यस्यार्थे ॥ १० ॥ कथं न सेन्द्रियः पततीत्याह -- तदेतेन वेदितव्यमङ्गहीनो ऽपि साङ्गं जनयति ॥ ११ ॥ तदनन्तरोक्तमर्थरूपमेतेन वक्ष्यमाणेन निदर्शनेन वेदितव्यम् । चक्षुरा द्यङ्गहीनोऽपि साङ्गं चक्षुरादिमन्तं जनयति, एवमधिकारविकलः साधिकारं जनयिष्यति । स्त्रिया अपि कारणत्वात् तस्याश्च दोषाभावात् ॥ ११ ॥ दूषयति- मिथ्यैतदिति हारीतः ॥ १२ ॥ एतदनन्तरोक्तमर्थरूपं मिथ्या न युक्तमिति हारीतो मन्यते ॥ १२ ॥ कुत इत्याह - दधिधानीसधर्मा स्त्री भवति ॥ १३ ॥ दधि धीयते यस्यां सा दधिधानी स्थाली। तया सधर्मा सदृशी स्त्री भवति ॥ ततः किम् ? यो हि दधिधान्यामप्रयतं पय आतञ्च्य मन्थति न तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निर्वर्तते न तेन सह सम्प्रयोगो विद्यते ॥ १४ ॥ यो हि पुरुषः दधिधान्यां स्थाल्याम्, अप्रयतं श्वादुपहतम् , पय आतञ्च्य १. पा. सू. ३ ३ १३२.

पतितधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६३ तक्राद्यातश्चनेन संस्कृत्य मन्थति न तेन तदुत्पन्नेन घृतादिना धर्मकृत्यं या- गादिकं क्रियते । एवं पतितसम्बन्धेनाऽशुचि शुक्लं स्त्रियां निषिक्तं शोणि- तेनाक्तं यन्निर्वर्तते येन रूपेण निष्पद्यते न तेन सह सम्प्रयोगो विद्यते शिष्टानाम् । अत्र च 'शुचि शुक्ल' मित्येत 'दथापि न सेन्द्रियं पतती' त्यस्य दूषणम् । न हि वाचनिकेऽर्थे युक्तय क्रमन्ते । तथा च समाना यामप्युत्पत्तौ पुत्र एव पतति न दुहिता । तथाऽऽह वसिष्ठः- (१)'पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः । सा हि परगामिनी तामरिक्थामुपेयात्' । इति ॥ १४ ॥ अभीचारा(२)नुष्याहारावशुचिकरावपतनीयौ ॥ १५ ॥ अभिचार एवाभीचारः । (३)'उपसर्गस्य घञी'ति दीर्घः । अभीचारः श्येनादिः । अनुव्याहारः शापः । तौ ब्राह्मणविषयेऽपि क्रियमाणावशुचि- करावेव, न तु पतनीयौ ॥ १५ ॥ पतनीयाविति हारीतः ॥ १६ ॥ हारीतस्तु तावपि पतनीयाविति मन्यते ॥ १६ ॥ पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वाद- शाऽर्धमासान् द्वादश द्वादशाहान् द्वादश सप्ताहान् द्वादश त्र्यहान् द्वादश द्वयहान् द्वादशाहं सप्ताहं त्र्यहं द्वयहमेकाहम् ॥ १७ ॥ अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि प- तनीयेषु कर्मसु या वृत्तिः प्रायश्चित्तं सैव प्रायश्चित्तिः । कियन्तं काल- म् ? द्वादश मासाद्येकाहान्तम् ॥ १७ ॥ किमविशेषेण सर्वेष्वेवाऽशुचिकरेष्वयं कालविकल्पः ? नेत्याह-- इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १८ ॥ इत्येषोऽशुचिकरनिर्वेषो यथा कर्माभ्यासस्तथा वेदितव्यः । बुद्धिपूर्वे सानुबन्धेऽभ्यासे च भूयांसं कालम्, विपरीते विपर्यय इति ॥ १८ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तौ प्रथमप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलाया प्रथमप्रश्ने दशमः पटलः ॥ १० ॥ १. व. ध. ३. २. अनुव्यवहार इति. क ३. पा. सू ६. ३ १२२.

अथैकादशः पटलः ॥ 'न समावृत्ता वपेरन्' ( ८. ७. ) स्नातस्तु काल' ( १०.७. ) इत्यादिषु प्रसक्तस्य स्नानस्य कालमाह-- विद्यया स्नातीत्येके ॥ १ ॥ वेदविद्या विद्या । तया सम्पन्नः स्नानं कुर्यादित्येके मन्यन्ते । मनुर- त्याह-- (१)वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्' ॥ इति ॥ १ ॥ तथा व्रतेनाऽष्टाचत्वारिंशत्परीमाणेण ॥ २ ॥ परिमाणमेव परीमाणम् । छान्दसो दीर्घः । अष्टाचत्वारिंशद्ग्रहणं (२)'पादूनम्, अर्धेने' (२.१३,१४ ) त्यादिपूर्वोक्तस्याप्युपलक्षणम् । अष्टाच त्त्वारिंशदादिपरिमाणेन व्रतेन (३)वा सम्पन्नः स्नायात् असम्पन्नोऽपि विद्यया ॥ २ ॥ विद्या व्रतेन चेत्येके ॥ ३ ॥ विद्येति तृतीयैकवचनस्याकारस्य(४) 'सुपां सुलुक्' इत्यादिना लुक् । विद्यया व्रतेन चोभाभ्यां सम्पन्नः स्नायादित्येके मन्यते । एवं च (५)वेदमधीत्य स्नास्य' न्नित्यत्र वेदमधीत्येत्युपलक्षणम् । अत्र याज्ञ- वल्क्यः-- (६)वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा । अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥' इति । १. म. स्मृ. ३ २. २. पादूनम्, अर्धेन, त्रिभिर्वा' इत्येतेषा पूर्वोक्तानामुपलक्षणम् । इति. क. पु. ३ अथ ब्रह्मचर्यविधि 'इत्यारभ्य प्रपञ्चितेन समिदाधानभिक्षाचरणगन्धादिवर्जनादि- रूपेण । अस्ति च तेषु व्रतशब्द. 'यथा व्रतेषु समर्थः स्यात्तथानि वक्ष्यामः” इति । इह तु समुदायाभिप्रायमेकवचनम् । तेन वा व्रतेन सम्पन्नस्स्नायात् । असम्पन्नोऽपि विद्यया । 'चत्वारि वेदव्रतानी' त्येषां तु ग्रहणमत्र नाऽऽशङ्कनीयम् । यथोक्तं विश्वरूपे । इत्यधिकः पाठो ग. पु. ४. पा सू. ७ १. २९ ५. आप गृ १२. १. ६ याज्ञ स्मृ. १. ५२.

स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६५

  • अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते । तेषु हि कालपरिमाणस्य श्रुतत्वात् पारं नीत्वेति युज्यते । दृश्यते च तेषु व्रतशब्दः । 'यथा व्रतेषु समर्थस्स्याद्यानि वक्ष्याम इति । न तु सावित्र्यादीनि वेदव्रतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया त- दभावेऽभावाद्शेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशे- षावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थः * ॥ ३ ॥ तेषु सर्वेषु स्नातकवद्वृत्तिः ॥ ४ ॥ विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः तेषु सर्वेषु स्नातकवत् 'तदर्हती'ति वतिः । स्नातकार्हा वृत्तिः पूजा(१) य- त्राऽस्मा अपचिति' मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्ना- तकेऽधिकेति ॥ ४ ॥ यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह-- समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ॥५॥ कर्तव्येषु कर्मस्ववधानं समाधि । श्रुति श्रुतम् ॥ ५ ॥ अथ स्नातकव्रतानि ॥ ६ ॥ इत उत्तरं स्नातकव्रतान्यधिकृतानि वेदितव्यानि । यद्यपि वक्ष्यमाणे- षु कानिचित् साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकव्रतान्य- धिक्रियन्ते ॥ ६ ॥ पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ॥७॥ यदा ग्रामान्निष्क्रामति ग्रामं वा प्रविशति तदा पूर्वेण द्वारेणोत्तरेण वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण निष्क्रमणप्रवेशनयोरपि न प्रायश्चित्तम् ॥ ७ ॥ सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ॥ ८ ॥ अहोरात्रयोः सन्धानं सन्धिः । तौ च द्वौ-सायं प्रातश्च । (२)सज्यो- तिष्याज्योतिषोऽदर्शनात्' इति गौतमः । तयोस्सन्ध्ययोर्ग्रामाद्बहिरासीत ।
  • एतच्चिन्हान्तर्गतो भोगोऽधिकपाठतया परिगणित ख पुस्तके । ग. पुस्तके नास्ति पाठः । अन्यत्र तु यथायथमस्ति । १. आप. गृ. १३. २. २. गौ. २. ११, 'सज्योतिषि' इत्यादि 'गौतम' इत्यन्तं नास्ति छ. पु.

१६६ आपस्तम्बधर्मसूत्रे [(प.१०)क.३०. वाग्यतश्च भवेत् । मनुः पुनराह— (१)पूर्वां सन्ध्यां जपस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् । पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥' इति (२)'तिष्ठेत् पूर्वामासीतोत्तराम्, इति गौतमः । एते ब्रह्मचारिविषये । स्नातके आसनस्य वाङ्नियमस्य चाऽत्र विधानात् । अन्ये तु-आसनग्रहण स्थानस्याऽप्युपलणम्, वाग्यमश्च लौकिक्या वाचो निवृत्तिः, न सावित्रीजपस्येति वर्णयन्ति ॥ ८ ॥ आहिताग्निविषयेऽस्याऽपवादः— विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९ ॥ विरोधो विप्रतिषेध अग्निहोत्रिणो बहिरासनमग्निहोत्रहोमश्च विरु ध्येते । तथा च श्रूयते-‘समुद्रो वा एष यदहो रात्रः, तस्यैते गाधे तीर्थे यत्सन्धी तस्मात् सन्धौ होतव्यम्” इति । तत्र श्रुतिलक्षणमग्निहोत्रमेव कर्तव्यम्, न स्मार्त्तं बहिरासनम् । तस्य कल्प्यमूलत्वादितरस्य च क्लृप्तमूलत्वादिति । (३)जैमिनिरप्याह--(४)विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति ॥९॥ सर्वान्रागान्वाससि वर्जयेत् ॥ १० ॥ कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनचिद्रक्तं वासो बिभृयादिति ॥ १० ॥ कृष्णं च स्वाभाविकम् ॥ ११ ॥ यच्च स्वभावतः कृष्णं कम्बलादि तदपि न वसीत ॥ ११ ॥ अनूद्भासि वासो वसीत ॥ १२ ॥ उद्भासनशीलमुद्भासि उद्बणम् । ततोऽन्यदनूद्भासि । छान्दसो दीर्घः । एवम्भूतं वासो वसीत आच्छादयेत् ॥ १२ ॥ अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥ प्रतिकृष्ट निकृष्टं जीर्णे मलवत् स्थूलं च । तद्विपरीतमप्रतिकृष्टम् । तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥ १. म. स्मृ. २ १०१ २. गौ. ध २. ११. ३. इत्यादि नास्ति. छ. पु. ४. जै सू १. ३. ३.

[स्नानकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः। १६७

दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य ॥ १४॥ चकारः पूर्वापेक्षया समुच्चयार्थः । दिवा शिरसः प्रावरणं पटादिना न कुर्यात् । किमविशेषेण ? नेत्याह—मूत्रपुरीषयोः कर्म क्रियां परिहाप्य वर्जयित्वा ॥ १४ ॥ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किञ्चिदन्तर्धाय ॥ दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्य कुर्यात् । भूम्या किञ्चिदन्त- र्धाय तृणादिकम्, न साक्षात् भूम्यामेव । इह कामचारे प्राप्ते 'दिवा च शिरसः प्रावरणं वर्जये' दित्युक्तम् । तस्य पर्युदासः कृतः-'मूत्रपुरी- षयोः कर्म परिहाप्ये' ति । तत्र मूत्रपुरीषकाले स एव कामचारः स्थि- तः। अत आरभ्यते-शिरस्तु प्रावृत्येति । एव तर्हिदिमेवाऽस्तु । न पूर्वः पर्युदासः । सोऽप्यवश्यं कर्तव्यः । अन्यथा 'शिरस्तु प्रावृत्ये'त्यस्य रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्तु रात्रौ सदैव प्रावरणमाह(१) 'न प्रावृत्य शिरोऽहनि पर्यटेत्, प्रावृत्य रात्रौ, मूत्रोच्चारे चे'ति ॥ १५ ॥ छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥ 'न चोपजीव्यच्छायास्वि'ति स्मृत्यन्तरे दर्शनात् यस्यां पथिका- दयो विश्राम्यन्ति सा गृह्यते । तेन छत्रच्छायादेरप्रतिषेधः मेघच्छा- याया अप्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥ स्वां तु छायामवमेहेत् ॥ १७ ॥ छान्दसस्तुगभावः । द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं मूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रस वोऽयं न भवति । तेन सति सम्भवे स्वामेव छायां प्रत्यवमेढव्यम् ॥१७॥ (२) न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥ कृष्टे ॥ १९ ॥ पथि ॥२०॥ अप्सु च ॥२१॥ तथा(३)ष्ठेवनमैथुनयोः कर्मा-


१. गौ. ध. ९. ३५, ३६, ३७ २ एतदादि 'कर्म वर्जये'दित्यन्तमेकसूत्रतया परिगणितं ख. पुस्तके । सूत्रद्वादश- कतया छेदः कृतः क० पु० ३ ष्ठीवन इति. ख पु.