आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
२. प्रथम प्रश्न (पटल ६-११): शुद्धि-अशुद्धि व प्रायश्चित्त
१०० आपस्तम्बधर्मसूत्रे [(प्र.५.)क.१७ क्रव्यं मांसं तदेव केवलं येऽदन्ति ते क्रव्यादः गृध्रादयः। ते ऽप्यभक्ष्याः हंसभासचक्रवाकसुपर्णाश्च ॥ ३५ ॥ हंसः प्रसिद्धः । भासः श्येनाकृतिः पीनतुण्डः । चक्रवाकः मिथुनचरः । सुपर्णः श्येनः । एते चाऽभक्ष्याः ॥ ३५ ॥ क्रुञ्चक्रौञ्च वार्ध्रीणसलक्ष्मणवर्जम् ॥ ३६ ॥ क्रुञ्चा वृन्दचाराः । क्रौञ्चा मिथुनचराः । ते चाऽभक्ष्याः । सूत्रे क्रौ- ञ्चेति विभक्तिलोपश्चान्दसः । किमविशेषेण क्रुञ्चक्रौञ्चा अभक्ष्याः । ने- त्याह—वार्ध्रीणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः त एव विशेष्यन्ते—वार्ध्रीणसा इति । वार्ध्री चर्म तदाकारा नासिका येषां ते वार्ध्रीणसाः । एवंभूतान् लक्ष्मणाम् वर्जयित्वा क्रुञ्चक्रौञ्चा न भक्ष्या इति । अन्ये त्वाहुः—'क्रव्याद्' इति प्राप्तस्य प्रतिषेधस्य क्रुञ्चादिषु चतुर्ष्व- प्रतिषेध इति । तत्र लक्ष्मणा सारसी लक्ष्मणवर्जमिति(१) 'ङ्यापोस्सं- ज्ञाच्छन्दसो'रिति ह्रस्वः। एवं क्रुञ्चादिशब्दस्याऽप्यजादित्वात्तन्तस्य ॥३६॥ पञ्चनखानां(२) गोधाकच्छपश्वाविच्छर्यकखङ्ग- शशपूतिखषवर्जम् ॥ ३७ ॥ पञ्चनखानरवानरमार्जारादयः । तेषां मध्ये गोधादीन् सप्त वर्जयित्वा अ- न्ये अभक्ष्याः । गोधा कृकलासाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाविद् व राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यकः शल्यकः, यस्य च- र्मणा तनुत्राणं क्रियते । श्वाविच्छर्यक इति युक्तः पाठः । एके तु छकारं पठन्ति । छकारात्पूर्वमिकारम् । खङ्गो मृगविशेषः, यस्य शृङ्गं तैलभा- जनम् । शशः प्रसिद्धः । पूतिखष । शशाकृतिः हिमवति प्रसिद्धः ॥३७॥ अभक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥ मत्स्यानां मध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥ सर्पशीर्षी मृदुरः क्रव्यादो ये चाऽन्ये विकृता यथा मनुष्यशिरसः ॥३९॥ सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये च क्रव्यमेवाऽदन्ति शिशुमारादयः तेऽप्यभक्ष्याः । ये च उक्तेभ्योऽन्ये १. पा. सू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् ।
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०१ मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशिरमः जलमनु ष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः- (१)'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ (२)मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥' इति । (३)अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥ इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. म. स्मृ. ५.५१. । २. श्लोकोऽयं नास्ति क. पु. ३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थः" इति ग पु. ।
अथ षष्ठः पटलः ॥ एवं तावन्निमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि- मित्तदुष्टं 'यस्य कुले म्रियेते(पृ. ९२.)'त्यादि । जातिदुष्टं कलञ्जादि । कालदुष्टं पर्युषितादि । इदानीं प्रतिग्रहाशुचीनि कानिचिदनुज्ञाय कानिचित् प्रतिषेधति— मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यू- तिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि ॥ १ ॥ मधु पक्कमपक्वं वा । आम तण्डुलादि । मृगस्य विकारो मार्गं मांसम् । भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमित्यन्ये । मूलफलानि(१) मूलकाम्रा- दीनि । रक्षा अभयदानम् । गव्यूतिर्गोमार्गः । निवेशनं गृहम् । युगं वहती- ति युग्यो बलीवर्दः । तस्य घासो भक्ष्यं पलालादि । एतान्युग्रतोऽपि प्रति- गृह्याणि प्रतिग्राह्याणि अदुर्भीक्षेऽपि । उग्रः पापकर्मा द्विजातिः, वैश्याद्वा शूद्रायां जातः । उग्रग्रहणं तादृशानामुपलक्षणम् ॥ १ ॥ एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥ एतानि मध्वादीन्यपि अन्तेवास्याहतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत इति हारीत आचार्यो मन्यते ॥ २ ॥ आमं वा गृह्णीरन् ॥ ३ ॥ पूर्वोक्तेष्वामं स्वयमेव वा गृह्णीरन् द्विजा इति(२) हारीतस्यैव पक्षः ॥ ३ । कृतान्नस्य वा विरसस्य ॥ ४ ॥ आमस्याऽलाभे कृतान्नस्याऽपि विरसस्य लवणादिरसासंयुक्तस्य । षष्ठी निर्देशात् स्तोकम् । स्वयमन्तेवास्याहृतं वा गृह्णीरन् ॥ ४ ॥ न सुभिक्षाः स्युः ॥ ५ ॥ अनन्तरोक्तविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयु- रेव । यावता प्राणयात्रा भवति तावदेव गृह्णीरन् , न यावता सौहित्यं तावदिति ॥ ५ ॥ स्वयमप्यवृत्तौ सुवर्णं दत्वा पशुं वा भुञ्जीत ॥ ६ ॥ यदि तु दुर्भिक्षतया आत्मनोऽपि वृत्तिर्न लभ्यते प्रागेव पोष्यवर्गस्य, १. मूलकन्दादीनि इति क. पु. २ हारीताचार्यस्य, इति छ. पु.
अनापद्वृत्तिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०३ तदा स्वयमप्यवृत्तौ यत्रैव लभ्यते तत्रैव कृतान्नमपि भुञ्जीत । तत्र गुण- विधिः— सुवर्णं दत्वा सकृदेवोपक्लृप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन पशुं वा दत्वेत्यपि व्याख्यातम् । 'पशुराग्नेः, (१)अग्निः पशुरासी'दिति मन्त्रलिङ्गात्(२) गोसूक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥ ६ ॥ नाऽत्यन्तमन्ववस्येत् ॥ ७ ॥ न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥ वृत्तिं प्राप्य विरमेत् ॥ ८ ॥ यदा विहिता वृत्तिर्लभ्यते तदा निषिद्धाया विरमेत् । न पुन'स्स- कृत्प्रवृत्तायाः किमवकुण्ठनेने”ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो पनिषत्—‘(३)मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रा- यण इभ्यग्रामे प्रद्राणक उवास । स हेभ्यं कुलमाषान् खादन्तं बिभिक्षे' इत्यादि । मन्त्रवर्णश्च भवति(४) ‘अवर्त्या शुन अन्त्राणि पेचे' इति । अवर्त्या वृत्त्यभावेन । अपर आह-दुर्भिक्षे स्वयमप्यवृत्तौ आ तन्निवृ- त्तेर्यत्र कुत्रचिन्म्लेच्छेऽपि दातरि भुञ्जानो वसेत् यां च यावतीं च स्वर्ण- मात्रां य कश्चन पशु वा तस्मै दत्वा । न पुनरत्यन्तमन्ववस्येत् वृत्तिं प्राप्य विरमेदिति ॥ ८ ॥ एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि वृत्तिमाह— त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा- वृत्तेन न भोक्तव्यम् ॥ ९ ॥ समावृत्तो द्विजातिः क्षत्रियादीनां त्रयाणां वर्णाना गृहे न भुञ्जीत ॥ ९ ॥ प्रकृत्या ब्राह्मणस्य भोक्तव्यमकारणादभोज्यम् ॥ १० ॥ १ तै. स. ५. ७. २६. २. ऋ. स. ६. २८. १ ३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया उषस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः हस्त्यारोहो वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सिता गतिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य । सो- ऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य बिभिक्षे” इति शाङ्करभाष्यम्। ४. ऋ. सं ४. १८. १३.
१०४ आपस्तम्बधर्मसूत्रे [ (प.६)क. १८. ब्राह्मणस्यान्न प्रकृत्या स्वभावैनैव भोक्तव्यम्। कारणादेव स्वभोज्यम्॥१०॥ कारणमाह- यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥ (१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽप्राय- श्चित्तं कर्माऽऽसेवते तात्पर्येण करोति प्रायश्चित्तवत्यात्मनि चोदितं प्रा- यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा पत- स्मात् कारणात् ब्राह्मणस्याऽन्नमभोज्यमिति ॥ ११ ॥ चरितनिर्वेशस्य भोक्तव्यम् ॥ १२ ॥ चरितो निर्वेशः प्रायश्चित्तं येन तस्याऽन्नं भोक्तव्यम्। तद्भोजने न दोषः। निष्ठया भूतकालस्याऽभिधानाच्चर्यमाणेऽपि निर्वेशे न भोक्तव्यम्। किं तर्हि ? चरिते ॥ १२ ॥ सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं शूद्रवर्जमित्येके ॥ १३ ॥ शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम्। न ब्राह्मणस्यैवेत्येके मन्यन्ते ॥ १३ ॥ तस्याऽपि धर्मोपनतस्य ॥ १४ ॥ तस्याऽपि शूद्रस्याऽन्नं भोज्यम् , यद्यसौ धर्मार्थमुपनतः आश्रितो भ- वति । धर्मग्रहणदर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥ सुवर्णं दत्वा पशुं वा भुञ्जीत नाऽत्यन्तमन्वव- स्येद्द्वृत्तिं प्राप्य विरमेत् ॥ १५ ॥ गतम् ॥ १५ ॥ सङ्घान्न मभोज्यम् ॥ १६ ॥ सङ्घो गणः तस्य यत् स्वमन्न न त्वेकस्य । तदभोज्यं यद्यपि ते सर्वे दद्युः ॥ १६ ॥ १. यत्र यदा अग्निहोत्रवैश्वदेवाकरणे प्रायश्चित्तं मुक्त्वा तदनुरूप, नित्यमाभ्यु- दयिक वा कर्मासेवते तात्पर्येण करोति न प्रायश्चित्तवत्यात्मनि चोदिते प्रायश्चित्तं, तदैत- स्मात्कारणादभोज्यमिति इति - क पु. । २ प्राणायामपथिकृदादि इति. ख. पु
अभोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०५ परिकुष्टं च ॥ १७ ॥ 'भोक्तुकामा आगच्छत' इत्येवं परिकुश्य सर्वत आहूय यद्दीयते तत्परिकुष्टं तदभोज्यम् ॥ १७ ॥ सर्वेषां च शिल्पाजीवानाम् ॥ १८ ॥ चित्रनिर्माणादिकं शिल्प ये आजीवन्ति(१) तेषां सर्वेषामपि ब्राह्म- णादीनामन्नमभोज्यम् ॥ १८ ॥ ये च शस्त्रमाजीवन्ति ॥ १९ ॥ ये च शस्त्रेण जीवन्ति तेषामप्यन्नमभोज्यम् । क्षत्रियवर्जम्,(२)त- स्य विहितत्वात् ॥ १९ ॥ ये चाऽऽधिम् ॥ २० ॥ आजीवन्तीत्यपेक्षते । स्वगृहे परान् वासयित्वा तेभ्यो भृतिग्रहणमा- धि, यः स्तोम इति प्रसिद्धः । परभूमौ कुटि कृत्वा स्तोमं दत्त्वा वसेन्नु यः '। इति । तं चाऽऽधिं ये आजीवन्ति तेषामप्यन्नमभोज्यम् । ये तु प्रसिद्धमा- धिमाजीवन्ति तेषां वार्धुषिकत्वादेव(३) सिद्धो निषेधः ॥ २० ॥ भिषक् ॥ २१ ॥ अभोज्यान्न इति प्रकरणाल्लभ्यते । भिषक् भैषज्यवृत्तिः । धर्मार्थं तु ये सर्पदष्टादींश्चिकित्सन्ति ते भोज्यान्ना एव ॥ २१ ॥ वार्धुषिकः ॥ २२ ॥ वृद्ध्याजीवी । सोऽप्यभोज्यान्नः ॥ २२ ॥ दीक्षितोऽक्रीतराजकः ॥ २३ ॥ दीक्षितो(४) दीक्षणीयेष्ट्या संस्कृतः सोऽपि यावत् क्रीतराजको न १ आजीवन्ति इत्यनन्तरं 'आजीवन्ति तेन ये जीवन्ति' इत्यधिकं क. पु. २. तस्य विहितत्वात्, इति नास्ति क. पु. ३. अभोज्यान्नत्वं सिद्धम्, इति ख ग. पु. ४. ज्योतिष्टोमे- 'आग्नावैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाण', इत्यनेन दक्षिणीयेष्टिनम काचिदिष्टिर्विहिता । सा च यजमानसंस्कारार्था, इति निर्णीत पूर्वमीमा- सायां पञ्चमाध्याये । तया संस्कृतो यजमानो यावत् यागार्थद्रव्य सोमलता न क्रीणाति आप० ध० १४
१०६ आपस्तम्बधर्मसूत्रे [(प्र. ६.) क. १८. भवति सोमक्रयं न करोति तावदभोज्यान्न. ॥ २३ ॥ अग्नीषोमीयसंस्थायामेव ॥ २४ ॥ भोक्तव्यमिति वक्ष्यमाणमपेक्षते । अग्नीषोमीये पशौ संस्थिते समाप्त एव भोक्तव्यम् । न प्रागिति ॥ २४ ॥ पक्षान्तरमाह— हुतायां वपायां दीक्षितस्य भोक्तव्यम् ॥ २५ ॥ अग्नीषोमीयस्य वपायां हुताया वा दीक्षितस्यान्नं भोक्तव्यम् । तथा च बह्वृ- चब्राह्मणम्—'अशितव्यं वपायां हुतायाम्' इति ॥ २५ ॥ पक्षान्तरमाह— (१)यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्निति हि ब्राह्मणम् २६ इदं यज्ञार्थमिति व्यादेशे कृते शेषाद्भुञ्जीरन्निति ब्राह्मणं भवति । ब्राह्मणग्रहणं प्रीत्युपलब्धितः प्रवृत्तेरपस्मृतिता मा भूदिति प्रत्यक्षमेवाऽत्र ब्राह्मणमिति ॥ २६ ॥ क्लीबः ॥ २७ ॥ षण्डकः । सोऽप्यभोज्यान्नः ॥ २७ ॥ राज्ञां प्रेषकरः ॥ २८ ॥ राज्ञामिति बहुवचनात् ग्रामादेर्यः प्रेषकरः तस्याऽपि प्रतिषेधः ॥२८॥ अहविर्याजी ॥ २९ ॥ यश्चाऽहविषा नररुधिरादिना यजतेऽभिचारादौ यथा 'यमभिचरे- त्तस्य लोहितमवदानं कृत्वे' ति सोऽप्यभोज्यान्नः ॥ २९ ॥ चारी ॥ ३० ॥ चारो गूढचरः स्पशः । सोऽप्यभोज्यान्नः ॥ ३० ॥ तावत्पर्यन्तामित्यर्थ । प्रथमदिने 'अपराह्ने दीक्षयेत' इति अपराह्ने दीक्षा विहिता । ततः पूर्वं दीक्षणीयेष्टि । तत्समनन्तरदिने सोमक्रयण विहितम् । ततश्च प्रथमदिनेऽपराह्ना- दनन्तर द्वितीयदिनमध्याह्नात् पूर्वं दीक्षितान्नं न भोक्तव्यमिति फलितम् । इदं चैकदीक्षा- पक्षे । अनेकदीक्षापक्षे तु तदनुरोधेन दिनसंख्यावृद्धिः प्रत्येतव्या ॥ १. Cf. आप श्रौ १० १५ १६.
भोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०७ अविधिना च प्रव्रजितः ॥ ३१ ॥ यश्चाऽविधिना प्रव्रजितः शाक्यादिस्सोऽप्यभोज्यान्नः ॥ ३१ ॥ यश्चाऽग्नीनपास्यति ॥ ३२ ॥ (१)(योऽनापद्यग्निं त्यक्त्वा प्रायश्चित्तं न करोति सोऽप्यभोज्यान्नः । अपि च) अविधिनेत्येव । यश्चाऽविधिना उत्सर्गेष्ट्या विनाऽग्नीनपास्यति सोऽप्यभोज्यान्नः ॥ ३२ ॥ यश्च सर्वान् वर्जयते सर्वान्नी च श्रोत्रियो निराकृति- र्वृषलीपतिः ॥ ३३ ॥ यश्च सर्वान् वर्जयते भोजने न कंचिद्भुङ्क्ते न कञ्चिद्भोजयति स सर्ववर्गी । यश्च सर्वान्नी सर्वेषामन्नं भुङ्क्ते तावुभावप्यभोज्यान्नौ । श्रोत्रिय इत्युभयोश्शेषः । श्रोत्रियोऽपि सन्नभोज्यान्न एवेति । निराकृतिः निःस्वा- ध्यायः । निर्व्रत इत्यन्ये । सोऽप्यभोज्यान्न । वृषलीपतिः क्रमविवाहे यस्य वृषली पत्नी जीवति इतरा मृताः स वृषलीपतिः । स श्रोत्रियोऽप्य- भोज्यान्न इति ॥ ३३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावष्टादशी कण्डिका ॥ १८ ॥
मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युप- वेशयते तावन्तं कालम् ॥ १ ॥ मदकरद्रव्यसेवया (२) विकृतिं गतो मत्तः । उन्मत्तो भ्रान्तः । बद्धो निगलितः । अणिकः पुत्रात् श्रुतग्राही, पुत्राचार्य इति शास्त्रेषु निन्दितः। प्रत्युपविष्टः ऋणादिना कारणेनाऽधमर्णादिकं निरुध्य तत्पार्श्व उपविष्टः । प्रत्युपवेशयिता त्वितरः, तस्य परिहारमकुर्वंस्तेन सह कामं सुचिरमास्यतामित्यासीनः । ता एते मत्तादयस्तावन्तं कालमभो ज्यान्नाः, यावन्मदाद्यनुवृत्तिः । अपर आह—अणिकः ऋणस्य दाता प्रत्युपवेष्टुरिदं विशेषणमिति ॥ १ ॥ क आद्यान्नः ॥ २ ॥ यद्येते अभोज्यान्नाः कस्तर्हि आद्यान्नः ? कस्य तर्ह्यन्नमशनीियमिति । १. कुण्डलान्तर्गतोऽधिकः क पु २. अप्रकृतिं इति. ख. पु.
१०८ आपस्तम्बधर्मसूत्रे [(प.६.)क.१९ यद्यप्येते अभोज्यान्ना इत्युक्ते परिशिष्टा भोज्यान्ना इति गम्यते । तथा- प्यनेकमतोपन्यासार्थं प्रश्नपूर्वक आरम्भः ॥ २ ॥ य ईप्सेदिति कण्वः ॥ ३ ॥ य एव प्रार्थयते स एवाऽऽश्यान्न इति कण्व ऋषिर्मन्यते (१)प्रति- षिद्धवर्जम् ॥ ३ ॥ पुण्य इति कौत्सः ॥ ४२ ॥ सर्ववर्णानां स्वधर्मे वर्तमानाना' (१८.१३.) मित्युकत्वात् भोज्यान्ना- स्सर्वे पुण्या एव । इह पुनः पुण्यग्रहणमतिशयार्थम् । तपोहोमजप्यैः स्वधर्मेण च युक्त पुण्य । स स्वयमप्रार्थ्यमानोऽपि भोज्यान्न इति कौ- त्सस्य पक्षः ॥ ४ ॥ यः कश्चिद्दद्यादिति वार्ष्यायणिः ॥ ५ ॥ यः कश्चित्पुण्योऽपुण्यो वा सततं दानशील. । स भोज्यान्न इति वार्ष्या- यणिराह । तथा च मनुः— (२)श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।' इति ॥ ५ ॥ अत्रोपपत्तिः— यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेच्चलं दानेन निर्दोषो भवति ॥ ६ ॥ रजः पापम् । तद्यदि पुरुषे कर्तरि स्थावरं स्थिरं नोपभोगमन्तरेण क्षीयते तदा ततः प्रतिग्रहेऽपि भोक्तरि संक्रमाभावात् भोक्तव्यम् । अथ चेच्चलमुपभोगमन्तरेणाऽपि क्षीयते तदा सततदानशीले न मुहूर्त- मपि पापमवतिष्ठत इति कुतो भोक्तुर्दोष इति ॥ ६ ॥ शुद्धा भिक्षा भोक्तव्यैककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ॥ ७ ॥ धार्मिकेणोद्यता आहृता भिक्षा शुद्धा । सा भोज्येत्येकादीनां पञ्चानां पक्षः । पुष्करसादिः(३) पौष्करसादिः । आदिवृद्ध्यभावश्छान्दसः ॥ ७ ॥ १. प्रतिषिद्धवर्जम् , इति नास्ति क. पुस्तके । २. म. स्मृ ४ २२८ ३. 'आचार्यः' इत्यधिक क. पुस्तके,
भोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०९ सर्वतोपेतं वार्ष्यायणीयम् ॥ ८ ॥ सर्वत उपेतं सर्वतोपेतम् । छान्दसो गुणः । उपेतमयाचितोपप- न्नम् । तत्सर्ववर्णेष्वपि भोज्यमिति वार्ष्यायणीय मतम् ॥ ८ ॥ इदानीं स्वमतमाह— पुण्यस्येप्सतो भोक्तव्यम् ॥ ९ ॥ कण्वकुत्सयोः पक्षौ समुच्चितावाचार्यस्य पक्षः(१) ॥ ९ ॥ पुण्यस्याऽप्यनीप्सतो न भोक्तव्यम् ॥ १० ॥ यः प्रार्थितोऽपि नेत्यसकृदुक्त्वा कथंचिदापादितेप्सः(२) सोऽनी- प्सन्नित्युच्यते, तस्य पुण्यस्याप्यभोज्यमिति । अपर आह—अनीप्सत इति कर्तरि षष्ठी । पुण्यस्याप्यन्नं न भोज्यं, यदि भिक्षमाणः पूर्ववैरा- दिना स्वयमनीप्सन् भवतीति ॥ १० ॥ यतः कुतश्चाऽभ्युद्यतं भोक्तव्यम् ॥ ११ ॥ ‘सर्वतोपेत’ (१९८.) मित्युक्तमेव पुनरुच्यते विशेषविवक्षया ॥११॥ तमाह— नाऽननियोगपूर्वमिति हारीतः ॥ १२ ॥ ‘अद्य तुभ्यमिदमाहरिष्यामि तद्भवता ग्राह्य’मिति निवेदनं नियो गः। तदभावः अनियोगः । पुनर्नञ्समासः । द्वौ नञौ प्रकृतमर्थं गम- यत । अननियोगो नियोगः तत्पूर्व चेदभ्युद्यतं न भोज्यमिति ॥ १२ ॥ अथ पुराणे श्लोकावुदाहरन्ति— (३)उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ॥ न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते ॥ इति॥१३॥ १. 'आचार्यस्य पक्षेण' इति क, पु. २. सोऽल्पेप्सुस्सन्ननीप्सन्नित्युच्यते' इति क पु. ३. नाद्यतनभविष्यत्पुराणीयमिदं वचनम् । Cf मनु ४. २५१ २५२.
११० आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १९. अथ अपि च पुराणे- (१)सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥' इत्येवलक्षणे भविष्यदादौ । उद्यता हस्ताभ्यामुद्यम्य धारिताम् । आहृतां स्वयमानीताम् । पूर्वमनिवेदितां भिक्षाम् । दुष्कृतकारिणोऽपि सकाशात् भोज्या मेने प्रजापतिर्मनुः, मनुः प्रजापतिरस्मीति(२)दर्शनात् । यस्तु तामभ्य- धिमन्यते प्रत्याचष्टे तस्य पितरः कव्य नाश्नन्ति । कियन्तं कालम् ? दश वर्षाणि पञ्च च । अग्निश्च हव्यं न वहति । तावन्तमेव कालमिति प्रत्याख्यातुर्निन्दा- र्थवादः ॥ १३ ॥ (३)चिकित्सकस्य मृगयोश्शल्यकृन्तस्य पाशिनः । कुलटायाष्षण्डकस्य च तेषामन्नमनाद्यम् ॥१४॥ चिकित्सको भिषक् । मृगयुर्मृगघाती लुब्धकः । शल्यकृन्तः शस्त्रेण ग्र- न्थ्यादीनां छेत्ता अम्बष्ठः । पाशी पाशवान् पाशजालेन मृगादीनां ग्राह- कः । कुलात्कुलमटतीति कुलटा व्यभिचारिणी । षण्डकः तृतीयाप्रकृतिः । एतेषां चिकित्सकादीनामन्नमनाद्यम् । चिकित्सकषण्डकयोः पुनर्वच- नमुद्यतस्याऽपि प्रतिषेधार्थम् । (४) पूर्वत्र तर्हि ग्रहणं शक्यमकर्तुम् । एवं तर्हि सूत्रकारस्य स प्रतिषेधः । अयं तु पुराणश्लोके प्रतिषेध इत्यपौन- रुक्त्यम् ॥ १४ ॥ अथाऽप्युदाहरन्ति -- अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति । स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्करे ॥ इति ॥१५॥ षडङ्गस्य वेदस्याऽध्येता भ्रूण । तं यो हतवान् स भ्रूणहा । सोऽन्नादे मार्ष्टि लिम्पति । किम् ? प्रकरणादेन इति गम्यते । भ्रूणघ्नो योऽन्नमत्ति तस्मिंस्तदेनः संक्रामति । तस्मात्तस्योद्यतमप्यभोज्यामिति प्रकरणस- ङ्गतः पादः । इतरत् पुराणश्लोके पठ्यमाने पठितम् । अनेनसं योऽभि- शंसति मिथ्यैव ब्रूते-इदं त्वया कृतमिति । स तस्मिन्नभिशंसति तदेनो १. अमरको. १. वा ५. २. मनु प्रजापतिर्यस्मिन्निति दक्षे दर्शनात् , इति क. पु. प्रजापतिर्यस्मिन्निति मानवे दर्शनात्' इति ख. पु. ३. Cf मनु. ४. २११. २१२ ४ पूर्वत्र तर्हि ग्रहणस्य वैयर्थ्यम् ।
उज्ज्वलोपेते प्रथमः प्रश्नः । १११ मार्ष्टि । मनुस्तु— (१)पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः । वचनात्तुल्यदोषस्स्यान्मिथ्या द्विर्दोषभाग्भवेत् ॥ इति द्वैगुण्यमाह । तदभ्यासे द्रष्टव्यम् । स्तेनः प्रकीर्णकेश’ (२५ ४.) इति वक्ष्यति । स एव तृतीयस्य पादस्याऽर्थः । कर्तृभेदादपौनरुक्त्यम् । सङ्गरः प्रतिज्ञा प्रतिश्रवः । सत्यसङ्गर इति यथा । यः प्रतिश्रुत्य न ददाति सोऽनृतसङ्गर इति । ककारस्तु छान्दसः । तस्मिन् याचकः स्वयमेनो मार्ष्टि । तस्मात्प्रतिश्रुतं देयमिति ॥ १५ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तावेकोनविंशी कण्डिका ॥ १९ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने षष्ठः पटलः ॥ ६ ॥ १ म. स्मृ. श्लोकोऽयमिदानीं मुद्रितकोशेषु नोपल+यते ।
अथ सप्तमः पटलः ॥ नेमं लौकिकमर्थं पुरस्कृत्य धर्मान्श्चरेत् ॥ १ ॥ इमं लौकिकं लोके विदितं ख्यातिलाभपूजात्मकम्, अर्थं प्रयोज- नम् । पुरस्कृत्य अभिसन्धाय । धर्मान् चरेत् ॥ १ ॥ किं कारणम् ? निष्फला ह्यभ्युदये भवन्ति ॥ २ ॥ हि यस्मादेवं क्रियमाणा धर्मा अभ्युदये फलकाले निष्फला भव- न्ति । (१)लोकार्थं ह्यसौ धर्मं चरति, न कर्तव्यमिति श्रद्धया । न च श्रद्धया विना धर्मः फलं साधयति । (२) 'यो वै श्रद्धामनारभ्ये'ति श्रुतेः॥ किमेवेदानीं दृष्ट फलं त्याज्यमेव ? नेत्याह- तद्यथाऽऽम्रे फलार्थे(३)निमित्ते छाया गन्ध इत्यनूत्पद्येते, एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते ॥ ३ ॥ तदिति वाक्योपन्यासे । फलार्थे ह्याम्रवृक्षो निर्मीयते आरोप्यते । तस्मिन् फलार्थे(४)निमित्ते छाया गन्धश्चाऽनूत्पद्येते। एवं धर्मे चर्यमाणमर्थाः ख्या- त्यादयोऽनूत्पद्यन्ते अनुनिष्पद्यन्ते । तथैव स्वी कार्या.(५) । न चोद्देश्यतया । तथा चाह- 'यथेश्चुहेतोः सलिलं प्रसेचयंस्तृणानि वल्लीरपि च प्रसिञ्चति । तथा नरो धर्मपथेन वर्तयन् यशश्च कामांश्च वसूनि चाऽश्नुते ॥'इति॥३॥ नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ ४ ॥ यद्यपि दैवादर्था नाऽनूत्पद्यन्ते तथापि धर्मस्तावद्भवति । स च स्व- तन्त्रः पुरुषार्थः । किमन्यैरर्थैरिति ॥ ४ ॥ अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु॥५॥ कुहक प्रकाशे शुचिरेकान्ते यथेष्टचारी । शठः वक्रचित्तः । नास्तिक. १ लोकभक्त्या इति क. पु २. तै. स १. ६ ८. यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्दधते, इति श्रुतिः । अस्या अयमर्थः- ३. ४. निमिते इति क पु. ५. नचोद्देश्यतया इति नास्ति क.
धर्मलक्षणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११३ (१)प्रेत्यभावापवादी । बालः श्रुतरहितः । एतेषां वादेषु अनसूयुः स्यात् । असूयया द्वेषो लक्ष्यते । द्वेष्टा न स्यात् । तान् विषयीकृत्य द्वेषमपि न कुर्यात् । तथा दुष्प्रलम्भश्च स्यात् । प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम् । (२)गृधिवञ्च्योः प्रलम्भन' इति दर्शनात् । दुष्प्रलम्भो विसंवादयितुं मिथ्याफलाख्यानेन प्रवर्तयितुमशक्यः । कुहकादिवादेषु वञ्चितो न स्यात् । तद्वशो न स्यादित्यर्थः ॥ ५ ॥ वञ्चनस्य सम्भवमाह— न धर्माधर्मौ चरत 'आवां स्व' इति, न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म, इति ॥ ६ ॥ आवामिति छान्दस रूपम् । भाषायां तु(३)'प्रथमायाश्च द्विवचने भाषाया'मित्यात्व प्राप्नोति । यदि हि धर्माधर्मौ विग्रहवन्तौ गोष्याग्रव- च्चरेतामावा स्व इति ब्रुवाणौ, यदि वा देवादयः प्रकृष्टज्ञाना ब्रूयुरिमौ धर्माधर्माविति ततः कुहकादिवादेषु न स्याद्वञ्चना । तदभावात्तु वञ्च- नासम्भव इति । इदं चात्र द्रष्टव्यम्—प्रत्यक्षादेर्न गोचरौ धर्माधर्मौ । किंतु नित्यनिर्दोषवेदगम्यौ । तदभावे तन्मूलधर्मशास्त्रगम्याविति ॥ ६ ॥ यत्र तु प्रायश्चित्त्तादौ विषयव्यवस्था दुष्करा तत्र निर्णयमाह— यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मो, यं गर्हन्ते सोऽधर्मः ॥ ७ ॥ आर्याः शिष्टास्त्रैवर्णिकाः । बहुवचनाच्चत्वारस्त्रयो वा । यथाऽऽह या- ज्ञवल्क्यः— (४)‘चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मस्स्यादेको वाऽध्यात्मवित्तमः ॥’ इति ॥७॥ इदानीं श्रुतिस्मृत्योः प्रत्यक्षयोरदर्शने शिष्टाचारादप्यवगम्य धर्मः कार्य इत्याह— सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य- ग्विनीतानां वृद्धानामात्मवतामलोलुपाना- मदाम्भिकानां वृत्तसादृश्यं भजेत ॥८॥ सम्यग्विनीताः । आचार्याधीनः स्या'(२.१९)दित्यादिना विनयनसम्प १. प्रेत्याभाववादी इति. क पु. २. पा. सू. १. ३ ६९. ३. पा. सू. ७. २. ८८ ४ या. स्मृ. १ ९. आप० ध० १५
११४ आपस्तम्बधर्मसूत्रे [ (प. ७.) क. २०. ज्ञाः । वृद्धाः परिणतवयसः। यौवने विषयवश्यताऽपि स्यादितीदमुक्तम् । आत्मवन्तो जितेन्द्रियाः। अलोलुपा अकृपणाः । अदाम्भिका अधर्मध्वजा, एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्याणां सर्वजनपदेषु यदेकान्तेनाऽव्य- भिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न मातुलसुतापरिणयनवत्क- तिपयविषयम्, तद्वृत्तसादृश्यं भजेत । तदनुरूपं चेष्टेत । न तेषामनुष्ठानं निर्मूलम्। सम्भवति च वेदिकानामुत्सन्नपाठब्राह्मणानुभव इति ॥ ८ ॥ एवमुभौ लोकावभिजयति ॥ ९ ॥ एव श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति इमं चाऽमुं च ॥ ९ ॥ अविहिता ब्राह्मणस्य वणिज्या ॥ १० ॥ क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिर्न विहिता प्राप्तानुवादोऽ(१)यमपवादविधानार्थ ॥ १० ॥ आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ॥ ११ ॥ ब्राह्मणवृत्तेरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । (२)व्यवहृ- पणोः समर्थयो'रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्य- वहारः, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि व्युदस्यन् वर्जयन् । कृत्स्नाया वैश्यवृत्तेरुपलक्षणमिदम् । क्षत्रियवृत्तिश्च (३)दण्डापूपिकया सिद्धा । तथा च गौतमः—(४)'तदलाभे क्षत्रिय- वृत्तिः । स्तदलाभे वैश्यवृत्ति'रिति ॥ ११ ॥ अपण्यान्याह— मनुष्यान् रसान् रागान् गन्धानन्नं चर्म गवां वशां श्ले- ष्मोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यं मांसमायुधं सुकृताशां च ॥१२॥ मनुष्या दारदासादयः । रसा गुडलवणादयः, क्षीरादयो वा । रागाः कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः । १. नापदि विधानार्थं इति क पु २. पा सू २. ३. ५७. ३. कश्चित् दण्डे प्रोतान् अपूपान् कस्यचित् निकटे निक्षिप्य बहिर्गत्वा पुनः प्रति- निवृत्य तं पृष्टवान्-क्व मे दण्ड इति । तेनोक्तम्-मूषिकैर्भक्षित इति । तदा तेनाऽर्थापत्त्या कल्पित यदा दण्डोऽपि मूषिकैर्भक्षितः तदा किमु वक्तव्यमपूपास्तैर्भक्षिता इति । अय दण्डा- पूपिकान्यायः ॥ ४. गौ. ध. ७ ६, ७
अपण्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११५ गन्धाश्चन्दनादयः । गवां मध्ये वशा वन्ध्या गौः । श्लेष्म जतुवज्रादिः, येन विश्लिष्टं चर्मादि सन्धीयते । 'यथा(१) श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं संश्लेषये' दिति बह्वृचब्राह्मणे दर्शनात् । उदकं कुम्भजलम् । तोक्म ईषदङ्कुरितानि व्रीह्यादीनि । किण्वं सुराप्रकृतिद्रव्यम् । सुकृतं पुण्यं तस्य फलं सुकृताशा । शिष्टानि प्रसिद्धानि । (२)एतान्यपण्यानि वर्जयित्वा अन्येषां पण्यानां व्यवहरेत् । मनुष्यादीन्वर्जायित्वेत्येव सिद्धे 'अपण्यानी'ति वचनमन्येषामप्यपण्यानां व्युदासार्थम् । तत्र मनु- (३)सर्वान् रसानपोहेत कृतान्नं च तिलैस्सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च। अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च । मद्यं नीलीं च लाक्षां च सर्वांश्चैकशफान् पशून् ॥' इति ॥ १२ ॥ तिलतण्डुलांस्त्वेव धान्यस्य विशेषेण न विक्रीणीयात् ॥ १३ ॥ धान्यानां मध्ये तिलतण्डुलानेव विशेषतोऽतिशयेन न विक्रीणीयान् न वि- क्रीणीत । अन्येषां विकल्पः । स्वयमुत्पादितेषु नाऽयं प्रतिषेधः । मानवे हि श्रुतम् (४)— 'काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः । विक्रीणीत तिलाञ्छुद्धान् धर्मार्थमचिरस्थितान् ॥' इति ॥१३॥ अविहितश्चैतेषां मिथो विनिमयः ॥ १४ ॥ विनिमयः परिवर्तनम् । येषां विक्रयः प्रतिषिद्धः तेषां परस्परेण विनि- मयोऽप्यविहितः प्रतिषिद्धः, न कर्तव्य इत्यर्थः ॥ १४ ॥ तेष्वेव केषां चिद्विनिमयोऽनुज्ञायते— अन्नेन चाऽन्नस्य मनुष्याणां च मनुष्यै रसानां च १. ऐ. ब्रा. ५ प. ३२. ख २. आपणीयानि इति क. पु ३. म. स्मृ. १०. ८६, ८९. ४. म. स्मृ. १०-९०.
११६ आपस्तम्बधर्मसूत्रे [(प.७.)क.२१. रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् ॥१५॥ अन्नादीनां विद्यान्तानां विनिमयो भवत्येवेत्यर्थः । तथा च वसिष्ठः(१)—रसा रसैस्समतो हीनतो वा ॰॰॰॰ । तिलतण्डुलपक्वान्नं विद्यामनुष्याश्च विहिताः परिवर्तनेन' इति । मानवे तु विशेषः— (२)'रसा रसैर्निमातव्या न त्वेव लवणं रसैः । कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥' इति । गौतमीये तु—(३)'विनिमयस्तु । रसानां रसैः । पशूनां च । न लवण- कृतान्नयोः । तिलानां च । समेनाऽऽमेन तु पक्वस्य सम्प्रत्यर्थ' इति । तस्मा- दत्र प्रतिषेधानुवृत्तिर्न शङ्कनीया । पूर्वत्र चोक्त 'ब्रह्मणि मिथो विनियोगे न गतिर्विद्यत' (१३.१७) इति । (४)विनिमयाभ्यनुज्ञानादेव विद्यादीनां विक्रयोऽपि प्रतिषिद्धो वेदितव्यः ॥ १५ ॥ अक्रीतपण्यैर्व्यवहरेत् ॥ १६ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ विंशतितमी कण्डिका ॥ २० ॥ मुञ्जबल्बजैर्मूलफलैः ॥ १ ॥ अक्रीतानि स्वयमुत्पादितानि अरण्यादाहृतानि वा यानि पण्यानि तैर्व्य- वहरेत मुञ्जादिभिः ॥ १६ ॥ मुञ्जबल्बजास्तृणविशेषाः ॥ १ ॥ तृणकाष्ठैराविकृतैः ॥ २ ॥ तृणानां विकारो रज्ज्वादिभावः । काष्ठानां विकारः स्थूणादिभावः । तृणत्वादेव सिद्धे मुञ्जबल्बजग्रहणं विकारार्थम् ॥ २ ॥ नाऽत्यन्तमन्ववस्येत् ॥ ३ ॥ प्रतिषिद्धानामपि विक्रयविनिमयाभ्यां जीवेत् । न पुनरत्यन्तमन्व- वस्येत् अवसीदेत् । तथा च गौतमः(५) 'सर्वथा तु वृत्तिरशक्तावशौद्रेण । तदप्येके प्राणसंशय' इति । मनुरपि-- (६)'जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । आकाशमिव पङ्केन न स दोषेण लिप्यते' ॥ इति ॥ ३ ॥ १ व. ध. २-३२—३९ २. म. स्मृ १०. ९४. ३. गौ ध ७ १६—२१ ४. नियमाभ्य. इति क. पु. ५. गौ. ध. ७ २२, २३ ६. म. स्मृ १०-१०४
पतनीयानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११७ वृत्तिं प्राप्य विरमेत् ॥ ४ ॥ गतम् ॥ ४ ॥ न पतितैस्संव्यवहारो विद्यते ॥ ५ ॥ पतिताः स्तेनादयो वक्ष्यमाणास्तैः सह न कश्चिदपि व्यवहार कर्तव्यः । तत्र मनुः(१)— संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति । यानादिभिस्संवत्सरेण पतति । याजनादिभिस्तु सद्य एव ॥ ५ ॥ तथाऽपपात्रैः ॥ ६ ॥ अपपात्राश्चण्डालादय । तैश्च संव्यवहारो न कर्तव्य ॥ ६ ॥ अथ पतनीयानि ॥ ७ ॥ द्विजातिकर्मभ्यो हानिः पतनं, तस्य निमित्तानि कर्माणि वक्ष्यन्ते ॥७॥ स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मा- तुः पितुरिति योनिसम्बन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ॥ ८ ॥ स्तेयं सुवर्णचौर्यम् । आभिशस्त्यं ब्रह्महत्या । 'ब्राह्मणमात्रं च हत्वा- भिशस्त' (२४ ७.) इति वक्ष्यमाणत्वात् । पुरुषवधो मनुष्यजातिवधः । तेन स्त्रीवधोऽपि गृह्यते । ब्रह्मोज्झं उज्झ उत्सर्गे । भावे घञ् । छान्दसो लिङ्ग- व्यत्ययः । ब्रह्म वेदः तस्याऽधीतस्य नाशनं ब्रह्मोज्झम् । औषधादिप्रयोगेण गर्भस्य वधो गर्भशातनम् । मातुर्योनिसम्बन्धे मातृष्वस्रादौ । पितुर्योनिस- म्बन्धे पितृष्वस्रादौ सहापत्ये अपत्येन सहिते स्त्रीगमन मातृष्वसृगमनं त- त्सुतागमनं मातुलसुतागमनं चेत्यर्थः । (२)‘गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति मानवे निषिद्धायाः सुरायाः, पानं सुरापानम् । असंयोगाः, संयो- गानर्हाः प्रतिलोमादयः । तैः संयोग एकगृहवासादिः असंयोगसंयोगः । एतानि पतनीयानि ॥ ८ ॥ गुर्वीसखिं गुरुसखिं च गत्वाऽन्यांश्च परतल्पान् ॥ ९ ॥ १. म स्मृ ११. १८० २. म. स्मृ ११ ९४.
[Page Header: ११८ | आपस्तम्बधर्मसूत्रे | [ (१.७.) क. २१. ]
सखीशब्दस्य छान्दसो ह्रस्वः। गुर्वीसखी मात्रादीनां सखी। गुरुसखी पित्रादिनां सखी तां गत्वा। किम् २ पततीत्युत्तरत्र श्रुतमपेक्ष्यते। अन्याश्च परतल्पान् गत्वा पतति। तल्पशब्देन शयनवाचिना दारा लक्ष्यन्ते ॥ ९ ॥ नाऽगुरुतल्पे पततीत्येके ॥ १० ॥ गुरुदारव्यतिरेकेण परतल्पगमने पातित्यं नास्तीत्येके मन्यन्ते । यद्यपि सामान्येन पतनीयानीत्युक्तम् , प्रायश्चित्ते तु गुरुलघुभावो द्रष्टव्यः ॥ १० ॥ अधर्माणां तु सततमाचारः ॥ ११ ॥ तुश्चार्थे । उक्तव्यतिरिक्तानामप्यधर्माणां सततमाचारः पतनहेतु ॥११॥ अथाऽशुचिकराणि ॥ १२ ॥ अशुचिं पुरुष कुर्वन्तीत्यशुचिकराणि, तानि वक्ष्यन्ते ॥ १२ ॥ शूद्रगमनमार्यस्त्रीणाम् ॥ १३ ॥ त्रैवर्णिकस्त्रीणां शूद्रगमनमशुचिकरम् ॥ १३ ॥ प्रतिषिद्धानां मांसभक्षणम् ॥ १४ ॥ येषां मांसं प्रतिषिद्धं तेषां मांसस्य भक्षणमशुचिकरम् ॥ १४ ॥ तत्रोदाहरणम्— शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादासाम् ॥ १५ ॥ ग्राम्याणा'मिति वचनादारण्यानामप्रतिषेधः। अदनमदः, भावेऽ- सुन्प्रत्ययः। क्रव्यविषयमदनं येषां ते क्रव्यादासः केवलं मांसवृत्तयो गृध्रादयः ॥ १५ ॥ मनुष्याणां मूत्रपुरीषप्राशनम् ॥ १६ ॥ मूत्रपुरीषग्रहणं तादृशस्य रेतसोऽप्युपलक्षणम् ॥ १६ ॥ शूद्रोच्छिष्टमपपात्रगमनं चाऽऽर्याणाम् ॥ १७ ॥ शूद्रोच्छिष्टं भुक्तमार्याणां त्रैवर्णिकानामशुचिकरम्। अपपात्राः प्रतिलो- मस्त्रियः तासां च गमनम् ॥ १७ ॥ एतान्यपि पतनीयानीत्येके ॥ १८ ॥ यान्येतान्यशुचिकरत्वेनाऽनुक्रान्तानि एतान्यपि पतनीयान्येवेत्येके मन्यन्ते।
अशुचिकराणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११९ अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ॥१९॥ उक्तव्यतिरिक्तानि दोषवन्ति कर्माणि दुष्प्रतिग्रहहिंसादीनि तान्य- शुचिकराणि भवन्ति ॥ १९ ॥ दोषं बुध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्वर्जयेच्चैनं धर्मेषु ॥ २० ॥ पतितस्य दोषं परैरविदितं बुध्वा परस्य समाख्याने पूर्वो न स्यात् । परैरविदितं स्वयं विद्वानपि न परेभ्यः पूर्वमाचक्षीत । किं तु स्वयं धर्मकृत्येष्वेनं वर्जयेत् , यथा परे न जानन्ति । अन्यथा दोषवान् स्यात् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तावेकविंशी कण्डिका ॥ २१ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने सप्तमः पटलः ॥७॥