भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 170, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 170

भ्रूणहत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९ स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्रा- भ्यासस्तावन्तं कालम् ॥ २० ॥ भर्तृव्यतिक्रम इति छान्दसो रेफलोपः । व्यतिक्रमः परित्याग । या तु स्त्री भर्तारं परित्यजत्यन्तरेण निमित्तं, तस्यास्तावन्त कालं षण्मासान् कृच्छ्रद्वादशरात्राभ्यासः प्रायश्चित्तम् ॥ २० ॥ अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परि- धाय पुरुषशिरः प्रतीपानार्थमादाय ॥२१॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्नेऽष्टाविंशी कण्डिका ॥२८॥ खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्या- गारं वृक्षमूलं वाऽभ्युपाश्रये'न्न हिम आर्यैः सह सम्प्रयो- गो विद्यते ' । एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नाऽस्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्ह- ण्यते ॥ १ ॥ षडङ्गस्य वेदस्याध्येता, तदर्थवित्, प्रयोगशास्त्रस्य सव्याख्यस्या र्थवित् कर्मणामनुष्ठाताऽनुष्ठापयिता च ब्राह्मणो भ्रूणः । तथा च बौ- धायनः—(१)'वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रो- त्रियः । अङ्गाध्याय्यनूचानः । कल्पाध्याय्यृषिकल्पः । सूत्रप्रवचनाध्यायी भ्रूणः' इति। तं यो हतवान् स भ्रूणहा । स शुनः खरस्य वाऽजिनं बहिर्लोम परिधाय पुरुषस्य यस्यकस्यचिन्मृतस्य शिरः, प्रतीपानार्थम् । प्रतिधार्त्वर्थानुवादः (२)'उपस- र्गस्य घञ्यमनुष्ये बहुल'मिति बाहुलको दीर्घः । पानमेव प्रतीपानम् । पानग्रहणमुपलक्षणम् । भोजनमपि तत्रैव । खटाङ्ग दण्डार्थे, खट्वाया अङ्गं खट्वाङ्गमीषादि तद्दण्डकृत्ये आदाय । 'भ्रूणहाऽस्मीत्येवं कर्मनिब न्धनमात्मनो नामधेयं प्रब्रुवाणश्चङ्क्रम्येत इतस्ततश्चरेत् । कापालिकतन्त्रप्रसिद्ध- स्य खटाङ्गस्य वा ग्रहणम् । भिक्षाचरणकाले च को भ्रूणघ्ने भिक्षां द- १ बौधा. गृ. १. ११. २. पा. सू. ६. ३ १२२.