आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 169, कुल 399 में से
संदर्भ में पढ़ें१९८ आपस्तम्बधर्मसूत्रे [(प.१०)क.२८. विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्यर्थं वचनम् ॥ १५ ॥ मिथ्यैतदिति हारीतः ॥ १६ ॥ हारीतस्त्वृषिर्मन्यते-एतदनन्तरोक्तं मरणांतिकप्रायश्चित्तं मिथ्या न कर्तव्यमिति ॥ १६ ॥ कुत इत्यत आह- यो ह्यात्मानं परं वाऽभिमन्यतेऽभिशस्त एव स भवति ॥ १७ ॥ हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभि- शस्त एव भवति ब्रह्महैव भवति । (१)न च पतनीयापनोदनं चिकीर्षु- रन्यत् पतनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाच्चाऽन्ये- षामपि मरणांतिकानां ब्राह्मणविषये निवृत्तिः ॥ १७ ॥ किं तर्हि तस्य प्रायश्चित्तमिति ? आह-- एतेनैव विधिनोत्तमादुच्छासाच्चरेन्नास्याऽस्मिँल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ॥ १८ ॥ 'अघोनाभ्युपरि जान्वि' (२८.११.) त्यादि यदनन्तरोक्तमेतेनैव विधिना । शिष्टं गतम् ॥ १८ ॥ दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय 'दारव्यति- क्रमिणे भिक्षा'मिति सप्ताऽगाराणि चरेत्। सा वृत्तिः षण्मासान् ॥ १९ ॥ (२) यस्तु अन्तरेणैव निमित्तं कौमारान् दारान् परित्यजति स दा- रव्यतिक्रमी । खरस्य, गर्दभस्याऽजिनं बहिर्लोम परिधाय वासित्वा दारव्यति- क्रमिणे भिक्षां दत्तेति सप्तागाराणि भिक्षां चरेत् । (३)कौमारदारपरित्यागिने भिक्षां दत्ते'ति वासिष्ठे । (४)सा वृत्ति. षण्मासान् । ततः सिद्धिः ॥ ९ ॥ १ न च महापातकस्य ब्रह्महत्या प्रायश्चित्त भवितुमर्हतीति. क. पुस्तके. २. धर्मप्रजादिकमन्तरेण कौमारान् दारान्' इति क ख. पु. ३ व घ. कौमारदारव्यतिक्रमिणे. इति. ख. पु. कौमारदारपरित्यागिने इति, क. पु. ४ षण्मासाद्धूर्ध्वं शुद्ध. इति. ग. पु. 'सा वृत्ति'रित्यादि पृथक्सूत्रं च ॥