आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 178, कुल 399 में से
संदर्भ में पढ़ें[स्नानकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः। १६७
दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य ॥ १४॥ चकारः पूर्वापेक्षया समुच्चयार्थः । दिवा शिरसः प्रावरणं पटादिना न कुर्यात् । किमविशेषेण ? नेत्याह—मूत्रपुरीषयोः कर्म क्रियां परिहाप्य वर्जयित्वा ॥ १४ ॥ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किञ्चिदन्तर्धाय ॥ दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्य कुर्यात् । भूम्या किञ्चिदन्त- र्धाय तृणादिकम्, न साक्षात् भूम्यामेव । इह कामचारे प्राप्ते 'दिवा च शिरसः प्रावरणं वर्जये' दित्युक्तम् । तस्य पर्युदासः कृतः-'मूत्रपुरी- षयोः कर्म परिहाप्ये' ति । तत्र मूत्रपुरीषकाले स एव कामचारः स्थि- तः। अत आरभ्यते-शिरस्तु प्रावृत्येति । एव तर्हिदिमेवाऽस्तु । न पूर्वः पर्युदासः । सोऽप्यवश्यं कर्तव्यः । अन्यथा 'शिरस्तु प्रावृत्ये'त्यस्य रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्तु रात्रौ सदैव प्रावरणमाह(१) 'न प्रावृत्य शिरोऽहनि पर्यटेत्, प्रावृत्य रात्रौ, मूत्रोच्चारे चे'ति ॥ १५ ॥ छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥ 'न चोपजीव्यच्छायास्वि'ति स्मृत्यन्तरे दर्शनात् यस्यां पथिका- दयो विश्राम्यन्ति सा गृह्यते । तेन छत्रच्छायादेरप्रतिषेधः मेघच्छा- याया अप्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥ स्वां तु छायामवमेहेत् ॥ १७ ॥ छान्दसस्तुगभावः । द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं मूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रस वोऽयं न भवति । तेन सति सम्भवे स्वामेव छायां प्रत्यवमेढव्यम् ॥१७॥ (२) न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥ कृष्टे ॥ १९ ॥ पथि ॥२०॥ अप्सु च ॥२१॥ तथा(३)ष्ठेवनमैथुनयोः कर्मा-
१. गौ. ध. ९. ३५, ३६, ३७ २ एतदादि 'कर्म वर्जये'दित्यन्तमेकसूत्रतया परिगणितं ख. पुस्तके । सूत्रद्वादश- कतया छेदः कृतः क० पु० ३ ष्ठीवन इति. ख पु.