आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 179, कुल 399 में से
संदर्भ में पढ़ें१६८ आपस्तम्बधर्मसूत्रे [(प.११)क.३१. ऽप्सु वर्जयेत् ॥२२॥ अग्निमादित्यमपो ब्राह्मणं गा देव- ताश्चाऽभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥ स्पष्टानि चत्वारि । ष्ठेवनमास्यश्लेष्मादीनामुत्सर्गः । देवताः देवता प्रतिमाः ॥ १८-२३ ॥ अश्मानं लोष्टमार्द्रानोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥ फलपाकावसाना ओषधयः । ये पुष्पैर्विना फलन्ति ते वनस्पतय । 'आर्द्रा' निति वचनात् शुष्केषु न दोषः । 'ऊर्ध्वा'निति वचनाद्वातादि- निमित्तेन भग्नेषु न दोषः । 'एतैरश्मादिभिर्मूत्रपुरीषयोश्शोधनं न कुर्यात् ॥ अग्निमादित्यमपो ब्राह्मणं गा देवताद्वारं प्रति पादं च शक्तिविषये नाऽभिप्रसारयीत ॥ २५ ॥ शक्तौ सत्यां अग्न्यादीन्प्रति पादौ न प्रसारयेत् ॥ २५ ॥ अथाऽप्युदाहरन्ति ॥ २६ ॥ ॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने त्रिंशी कण्डिका ॥ ३० ॥ प्राङ्मुखोऽन्नानि भुञ्जीतोच्चरेद्दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति ॥ १ ॥ उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चत स्रो नियम्यन्ते । मनुस्तु— (१)'आयुष्यं प्राङ्मुखो भुंक्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुञ्क(२) ऋतं भुङ्क्ते उदङ्मुखः'॥ इति। याज्ञवल्क्यश्च— (३)'दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥' इति ॥ १ ॥ आराच्चाऽऽवसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं दक्षिणापरां वा ॥ २ ॥ १. म. स्मृ. २. ५२. २. ऋत सत्यं, तत्फलमिच्छन् । ३. या स्मृ. १. १६.