आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 163, कुल 399 में से
संदर्भ में पढ़ें१८२ आपस्तम्बधर्मसूत्रे [(प्र.९.)क. २७. श्रावण्यां वा पौर्णमास्यां तिलभक्ष उपोष्य वा श्वो भूते (१)माहानदमुदकमुपस्पृश्य सावित्र्या समित्सह- स्रमादध्याज्जपेद्वा ॥ १ ॥ गिरिप्रभवा समुद्रगामिनी नदी महानदी तत्र भवं माहानदम् । समि- त्सहस्रं याज्ञिकस्य वृक्षस्य । 'आदध्या'दिति वचनान्न होमधर्मः स्वाहा कारः(२) 'जुहोतिचोदना स्वाहाकारप्रदान,' इत्युक्तत्वात् । जपेद्वा ॥१॥ इष्टियज्ञक्रतून्वा पवित्रार्थानाहरेत् ॥ २ ॥ पवित्रार्थाः शुद्ध्यर्थाः (३)मृगाराद्या इष्टयः । (४)यज्ञक्रतवः सोमयागा अग्निष्टोमादयः । तान्येतानि षट् प्रायश्चित्तानि एनस्सु गुरुषु गुरूणि, लघुषु लघूनि ॥ २ ॥ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ॥ ३ ॥ अभोज्यस्य मार्जारादिमांसस्य भक्षणे निष्पुरीषभावः कर्तव्यः । यावदुदरं निष्पुरीषं भवति तावदुपवस्तव्यम् ॥ ३ ॥ तत्कियता कालेनाऽवाप्यते ? तदाह— तत्सप्तरात्रेणाऽवाप्यते ॥ ४ ॥ तत् नैष्पुरीष्यम् । सप्तरात्रेणाऽवाप्यते सप्तरात्रमुपवस्तव्यमित्य र्थः । सप्तरात्रमुपवसेदित्येव सिद्धे नैष्पुरीष्यवचनाद्येषां त्रिरात्रेणैव त- दवाप्यते तेषां तावतैव शुद्धिः । तथा च गौतमः—(५)'अभोज्यभोजने निष्पुरीषभावः त्रिरात्रावरमभोजनं सप्तरात्रं वे'ति ॥ ४ ॥ हेमन्तशिशिरयोर्वोभयोस्सन्ध्योर्वोदकमुपस्पृशेत् ॥५॥ उभयोः सन्ध्योः सायं प्रातश्च । उदकमुपस्पृशेत् भूमिगतास्वप्सु स्ना यात् । उद्धृताभिर्वा शीताभिः ॥ ५ ॥ कृच्छ्रद्वादशरात्रं वा चरेत् ॥ ६ ॥ १. महानद इति छ पु २. (आप. प. ३.४.) "जुहोतिचोदना स्वाहाकारप्रदान इत्युक्तत्वात् । जपेद्वा" इति नास्ति. क. छ. पु. ३. अग्नयेऽहोमुचेऽष्टाकपालः (तै.स. ७. ५. २२.) इति विहितेष्टिर्मृगोरष्टिदर्श हविष्का । ४. यज्ञाः क्रतवः । इति. क. छ. पु. ५. गौ. ध. २६. ४.