आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 162, कुल 399 में से
संदर्भ में पढ़ेंजमानः । आचार्ये तं प्रति कार्यनिवेदने।एवमाचार्यद्वारे । भिक्षाचर्य भिक्षाचरणम्। तत्र च ‘भवति भिक्षां देही’ति । अस्मादेव ज्ञायते-असमावृत्तविषय- मेतदिति ॥ ११ ॥ एवमन्येष्वपि दोषवत्स्वपतनियेषूत्तराणि यानि वक्ष्यामः ॥ १२ ॥ यथा मिथ्याधीतस्येदं प्रायश्चित्तमेवमुत्तराणि यानि प्रायश्चित्तानि व- क्ष्यामः तान्यन्येष्वपि । अपिशब्दान्मिथ्याधीतेऽपि । दोषवत्स्वपतनीयेषु पतनी- यव्यतिरिक्तेषु कर्मसु येष्वाहृत्य प्रायश्चित्त नोक्त तद्विषयाणि द्रष्ट- व्वानि ॥ १२ ॥ काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति१.३ स्वाहाकारान्ताभ्यां होमः । आज्यं द्रव्यम् ॥ १३ ॥ जपेद्वा ॥ १४ ॥ अस्मिन् पक्षे न स्वाहाकारः । केचित्तु ‘कामाय स्वाहा’ ‘मन्यवे स्वा- हे’ति होममिच्छन्ति । जपपक्षे तु सूत्रोपदिष्टौ मन्त्राविति । दोषाभ्यासा- नुरूपं जपहौमयोरावृत्तिः ॥ १४ ॥ पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुप- स्पृश्य सावित्रीं प्राणायामशस्सहस्रकृत्व आ- वर्तयेदप्राणायामशो वा ॥१५॥ पर्वणि पौर्णमास्याममावास्यायां वा । तिलानेव भक्षयति नान्यदो- दनादिकमिति तिलभक्ष । श्वोभूते उदकमुपस्पृश्य स्नात्वा सावित्रीं प्राणायामशः प्राणायामेन एकस्मिन्प्राणायामे यावत्कृत्व आवर्तयितुं शक्यं तावत्कृत्व आवर्तयेत् । एवमा सहस्रपूर्तेः प्राणायामावृत्तिः । अप्राणायामशो वा (१)जप- काले प्राणान्यायच्छेत् , तूष्णीं जपेद्धेति ॥ १५ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने षड्विंशी कण्डिका ॥२६॥
१. जपकाल इत्यादि नास्ति ख च. पु.