आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 164, कुल 399 में से
संदर्भ में पढ़ेंअपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५३ द्वादशरात्रसाध्यो व्रतविशेषः कृच्छ्रद्वादशरात्रः ॥ ६ ॥ तस्य विधिमाह(१)- त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहम्, त्र्यहमयाचितव्रत- स्त्र्यहं नाश्नाति किञ्चनेति कृच्छ्रद्वादशरात्रस्य विधिः॥७॥ आदितस्त्रिष्वहस्सु नक्तं नाऽश्नीयात् । दिवैव भुञ्जीत । ततस्त्र्यहम- दिवाशी रात्रावेव भुञ्जीत । न दिवा । ततस्त्र्यहमयाचितमेव भुञ्जीत । याच्ञाप्रतिषेधोऽयम् । तेन स्वद्रव्यस्याऽप्रतिषेधः । तथा च गौतमः (२)'अथाऽपरं त्र्यह न कंचन याचे'दिति । ततस्त्र्यहं नाश्नाति किञ्चन फला- दिकमपीति । एवं कृच्छ्रद्वादशरात्रस्य विधिः । तत्र स्मृत्यन्तरवशाद्धविष्यमन्न, ब्रह्मचर्यं, स्त्रीशूद्रादिभिरसम्भाषणं च द्रष्टव्यम् ॥ ७ ॥ एतमेवाऽभ्यस्येत्संवत्सरं स कृच्छ्रसंवत्सरः ॥ ८ ॥ एतमेव विधिं संवत्सरं निरन्तरमभ्यस्येत् । स एष कृच्छ्रसंवत्सरो वेदि- तव्यः । यः पूर्वोक्तः ‘कृच्छ्रसंवत्सरं वा चरे’ ( २५. ९ ) दिति ॥ ८ ॥ अथाऽपरं बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नन् पा- रायणैः कृतप्रायश्चित्तो भवति ॥ ९ ॥ अथाऽपरं प्रायश्चित्तमुच्यते । अनश्नतैव निरन्तर त्रीणि पारायणानि कर्त- व्यानि । आदित आरभ्याऽऽसमाप्तेर्वेदस्याऽध्ययनं पारायणम् । बहून्यपि । अपिशब्दात्किं पुनरेकं द्वे वा ॥ ९ ॥ अनार्या शयने बिभ्रद्दद्वृद्धिं कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वाfeaturesसीत पृष्ठतप् ॥१०॥ अनार्या शूद्रा तां शयने बिभ्रत् उपगच्छन् । ददद्वृद्धिं वृद्ध्यर्थं द्रव्यं ददत् । वृद्ध्याजीव इत्यर्थः । सुराव्यतिरिक्तं मद्यं कषायः । (३) तस्य पाता कषा- यपः । यश्चाऽब्राह्मण इव सर्वान् वन्दी भूत्वा स्तौति स सर्वोऽपि तृणेषूदया- दारभ्याऽऽसीत । यावदस्याऽऽदित्यः पृष्ठं पश्चाद्भागं तपति । आदित्ये तपति तदानुगुण्याचरणान् स्वयमेव पृष्ठतबित्युच्यते । अभ्यासे अभ्यासो यावता शुद्धिं मन्यते ॥ १० ॥ १. मनौ. ११. २११ श्लोको द्रष्टव्यः । २. गौ ध. २६. ४. ३. ‘तत पिबतीति कषायपः’ इति ग, पु. आप० ध० २०