आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 183, कुल 399 में से
संदर्भ में पढ़ें१७२ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३१. यदि प्रविशे 'न्नमो रुद्राय वास्तोष्पतय' इत्येतामृचं जपेदन्यां वा रौद्रीम् ॥ २३ ॥ यदि गत्यन्तराभावात् प्रविशेत्(१) 'नमो रुद्राये' त्यादिकामृचं जपेत् । अ- न्यां वा रौद्रीम्(२) 'इमां रुद्राय तवस'इत्यादिकाम्। अत्र वाजसनेयगृहो- (३)'वनं प्रवेक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय वनसदे स्वस्ति मा सम्पारये' ति । पन्थानमारोक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय पथिषदे स्वस्ति मा स- म्पारये'ति । अपः प्रवेक्ष्यन्ननुमन्त्रयते—'नमो रुद्रायोऽप्सुषदे स्वस्ति मा सम्पारये'ति । तस्माद्यत्किञ्चन कर्म कुर्वन् स्यात् सर्वं 'नमो रुद्राये' त्येव कुर्यात् 'सर्वो ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृहोऽप्यस्मि- न्विषये कियानेव भेदः ॥ २४ ॥ नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥ अब्राह्मणः शूद्रः । (४)'न शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्या'दिति वा- सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥ यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत्॥२६॥ इदमाश्रितविषयम् । दन्तान्नखेन स्कुप्त्वा विल्लिख्य तन्मलं तस्मिन्नु- च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे'ति स्कुभ्नातेः क्त्वाप्रत्यये छान्दसं भ- कारस्य चर्त्वम् । स्कुनोतेर्वा पकार उपजनः ॥ २६ ॥ क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥ क्रोधादयो भूतदाहीया अध्यात्मपटले(२२.५) व्याख्याताः । तद्वचनं योगि- विषयमित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्त्यर्थमिदं वचनम् । इदमेव तर्ह्युभयार्थमस्तु—योग्यर्थमयोग्यथं च । एवं सिद्धे तद्वचनं क्रो- धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगसि- द्धिर्न भवति । न पुनः स्नातकव्रतलोपप्रायश्चित्तमिति ॥ २७ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकत्रिंशी कण्डिका ॥ ३१ ॥ १. ब्रा ३. ७ ९ नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उत्थायने यत्प- रायणे । आवर्तने निवर्तने । यो गोपायति त० हुवे ॥ इति समग्रा ऋक् ॥ २. 'इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय' इतिषष्ठाध्यायगता (तै०सं०४ ५.१०) ३ पार. गृ. ३. १५. ११. ४. व. ध. १८ १४.