आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 182, कुल 399 में से
संदर्भ में पढ़ेंस्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७१ नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥१८॥ इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्यं वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥ न पततः सञ्चक्षीत ॥ १६ ॥ पततः पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षीत न गणयेत्--इयन्त एत इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च- क्षीत-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥ उद्यन्तमस्तं यन्तं चाऽऽदित्यं दर्शने वर्जयेत् ॥ २० ॥ उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् । (२)मनुस्तु- नेक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति ॥ २० ॥ दिवाऽऽदित्यः सत्त्वानि गोपायति नक्तं चन्द्रमाः । तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमि- च्छेत् प्रायतव्यव्रह्मचर्य्यकाले चर्य्यया च ॥ २१ ॥ दिवा अहनि । आदित्यः सत्त्वानि गोपायति प्राणिनो रक्षति, आलोकदा- नेन । नक्तं रात्रौ चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका- रश्छान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्तिं रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं तावदर्थानुरूपः पाठः । अधीयमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य भावः प्रायत्यूं नित्यप्रायत्यादाधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण मैथुनत्यागेन । काले कृत्या चर्यया देवार्चनजपादिकया च ॥२१॥ कस्मात्पुनरस्यां रात्रौ चन्द्रमा न गोपायतीत्याह- सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ २२ ॥ एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रिं सूर्याचन्द्रमसौ सह वसतः । न च सूर्येण सह वसतश्चन्द्रमसः प्रकाशोऽस्ति ॥ २२ ॥ न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥ कुसृतिः कुमार्गः । तया ग्राम न प्रविशेत् ॥ २३॥ १. गौ. ध. ९. २२. \qquad\qquad २. म स्मृ ४. ३६.