आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 181, कुल 399 में से
संदर्भ में पढ़ें१७० आपस्तम्बधर्मसूत्रे [(प.११.) क.३१. या च गौर्वत्सेन ससृज्यते तामपि न ब्रूयादनिमित्ते-इयं ते गौर्वत्से- न पीयत इति । 'अनिमित्ते' इति वचनात् (१) 'यस्य हविषे वत्सा अ- पाकृता धयेयु'रित्यादिके निमित्ते सति वक्तुर्नास्ति दोषः ॥ १०॥ नाऽधेनुमधेनुरिति ब्रूयात् । धेनुर्भव्येत्येव ब्रूयात् ॥ ११ ॥ या च गौरधेनुः पयस्विनी भवति तामप्यधेनुरिति न ब्रूयात् ॥११॥ किं तर्हि धेनुर्भव्येत्येव ब्रूयात्—भविष्यन्ती धेनुर्घेनुर्भव्या । 'धेनोर्भव्यायां (मुम् वक्तव्य) इति मुम् न भवति । व्यन्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे च सति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥ (२) न भद्रं भद्रमिति ब्रूयात् ॥ १३ ॥ यत् भद्रं तत् भद्रमिति न ब्रूयात् ॥ १३ ॥ किं तु ? पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥ पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्। छान्दसो दीर्घः ॥ १४ ॥ (३) वत्सतन्तीं च नोपरि गच्छेत् ॥ १५ ॥ वत्सानां बन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तां न लङ्घयेत् । व- त्सग्रहणं गोजातेरुपलक्षणम् ॥ १५ ॥ प्रेङ्खावन्तरेण च नाऽतीयात् ॥ ॥ १६ ॥ प्रेङ्खौ डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्—त योर्मध्ये न गच्छेत् ॥ १६ ॥ नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपत्न इति ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ॥ १७ ॥ असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदसि । किं कारणम् ? यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्तं, क्रियाशब्दोऽयम् , विद्विषाणं भ्रातृव्यं सपत्नं जनयेत् ‘व्यन् सपत्ने' इति भ्रातृशब्दे व्यन्प्रत्ययः । एवं ह्युक्ते स मन्येत—नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र- तीकारार्थं यतमानसपत्न एव जायते इति ॥ १७ ॥ १ आप. श्रौ. ९. १. २३. २. म स्मृ. ४. १३९. ३ म. स्मृ. ४ ३८.