आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
१७० आपस्तम्बधर्मसूत्रे [(प.११.) क.३१. या च गौर्वत्सेन ससृज्यते तामपि न ब्रूयादनिमित्ते-इयं ते गौर्वत्से- न पीयत इति । 'अनिमित्ते' इति वचनात् (१) 'यस्य हविषे वत्सा अ- पाकृता धयेयु'रित्यादिके निमित्ते सति वक्तुर्नास्ति दोषः ॥ १०॥ नाऽधेनुमधेनुरिति ब्रूयात् । धेनुर्भव्येत्येव ब्रूयात् ॥ ११ ॥ या च गौरधेनुः पयस्विनी भवति तामप्यधेनुरिति न ब्रूयात् ॥११॥ किं तर्हि धेनुर्भव्येत्येव ब्रूयात्—भविष्यन्ती धेनुर्घेनुर्भव्या । 'धेनोर्भव्यायां (मुम् वक्तव्य) इति मुम् न भवति । व्यन्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे च सति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥ (२) न भद्रं भद्रमिति ब्रूयात् ॥ १३ ॥ यत् भद्रं तत् भद्रमिति न ब्रूयात् ॥ १३ ॥ किं तु ? पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥ पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्। छान्दसो दीर्घः ॥ १४ ॥ (३) वत्सतन्तीं च नोपरि गच्छेत् ॥ १५ ॥ वत्सानां बन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तां न लङ्घयेत् । व- त्सग्रहणं गोजातेरुपलक्षणम् ॥ १५ ॥ प्रेङ्खावन्तरेण च नाऽतीयात् ॥ ॥ १६ ॥ प्रेङ्खौ डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्—त योर्मध्ये न गच्छेत् ॥ १६ ॥ नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपत्न इति ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ॥ १७ ॥ असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदसि । किं कारणम् ? यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्तं, क्रियाशब्दोऽयम् , विद्विषाणं भ्रातृव्यं सपत्नं जनयेत् ‘व्यन् सपत्ने' इति भ्रातृशब्दे व्यन्प्रत्ययः । एवं ह्युक्ते स मन्येत—नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र- तीकारार्थं यतमानसपत्न एव जायते इति ॥ १७ ॥ १ आप. श्रौ. ९. १. २३. २. म स्मृ. ४. १३९. ३ म. स्मृ. ४ ३८.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७१ नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥१८॥ इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्यं वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥ न पततः सञ्चक्षीत ॥ १६ ॥ पततः पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षीत न गणयेत्--इयन्त एत इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च- क्षीत-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥ उद्यन्तमस्तं यन्तं चाऽऽदित्यं दर्शने वर्जयेत् ॥ २० ॥ उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् । (२)मनुस्तु- नेक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति ॥ २० ॥ दिवाऽऽदित्यः सत्त्वानि गोपायति नक्तं चन्द्रमाः । तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमि- च्छेत् प्रायतव्यव्रह्मचर्य्यकाले चर्य्यया च ॥ २१ ॥ दिवा अहनि । आदित्यः सत्त्वानि गोपायति प्राणिनो रक्षति, आलोकदा- नेन । नक्तं रात्रौ चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका- रश्छान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्तिं रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं तावदर्थानुरूपः पाठः । अधीयमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य भावः प्रायत्यूं नित्यप्रायत्यादाधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण मैथुनत्यागेन । काले कृत्या चर्यया देवार्चनजपादिकया च ॥२१॥ कस्मात्पुनरस्यां रात्रौ चन्द्रमा न गोपायतीत्याह- सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ २२ ॥ एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रिं सूर्याचन्द्रमसौ सह वसतः । न च सूर्येण सह वसतश्चन्द्रमसः प्रकाशोऽस्ति ॥ २२ ॥ न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥ कुसृतिः कुमार्गः । तया ग्राम न प्रविशेत् ॥ २३॥ १. गौ. ध. ९. २२. \qquad\qquad २. म स्मृ ४. ३६.
१७२ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३१. यदि प्रविशे 'न्नमो रुद्राय वास्तोष्पतय' इत्येतामृचं जपेदन्यां वा रौद्रीम् ॥ २३ ॥ यदि गत्यन्तराभावात् प्रविशेत्(१) 'नमो रुद्राये' त्यादिकामृचं जपेत् । अ- न्यां वा रौद्रीम्(२) 'इमां रुद्राय तवस'इत्यादिकाम्। अत्र वाजसनेयगृहो- (३)'वनं प्रवेक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय वनसदे स्वस्ति मा सम्पारये' ति । पन्थानमारोक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय पथिषदे स्वस्ति मा स- म्पारये'ति । अपः प्रवेक्ष्यन्ननुमन्त्रयते—'नमो रुद्रायोऽप्सुषदे स्वस्ति मा सम्पारये'ति । तस्माद्यत्किञ्चन कर्म कुर्वन् स्यात् सर्वं 'नमो रुद्राये' त्येव कुर्यात् 'सर्वो ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृहोऽप्यस्मि- न्विषये कियानेव भेदः ॥ २४ ॥ नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥ अब्राह्मणः शूद्रः । (४)'न शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्या'दिति वा- सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥ यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत्॥२६॥ इदमाश्रितविषयम् । दन्तान्नखेन स्कुप्त्वा विल्लिख्य तन्मलं तस्मिन्नु- च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे'ति स्कुभ्नातेः क्त्वाप्रत्यये छान्दसं भ- कारस्य चर्त्वम् । स्कुनोतेर्वा पकार उपजनः ॥ २६ ॥ क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥ क्रोधादयो भूतदाहीया अध्यात्मपटले(२२.५) व्याख्याताः । तद्वचनं योगि- विषयमित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्त्यर्थमिदं वचनम् । इदमेव तर्ह्युभयार्थमस्तु—योग्यर्थमयोग्यथं च । एवं सिद्धे तद्वचनं क्रो- धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगसि- द्धिर्न भवति । न पुनः स्नातकव्रतलोपप्रायश्चित्तमिति ॥ २७ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकत्रिंशी कण्डिका ॥ ३१ ॥ १. ब्रा ३. ७ ९ नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उत्थायने यत्प- रायणे । आवर्तने निवर्तने । यो गोपायति त० हुवे ॥ इति समग्रा ऋक् ॥ २. 'इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय' इतिषष्ठाध्यायगता (तै०सं०४ ५.१०) ३ पार. गृ. ३. १५. ११. ४. व. ध. १८ १४.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७३ प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १ ॥ प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेत् ऋतावपि॥१॥ मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत ॥ २ ॥ मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रि सर्वां न शयीत ॥ २ ॥ शयानश्चाऽध्यापनं वर्जयेत् ॥ ३ ॥ दिवा नक्तं च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधी- यानस्य न दोषः ॥ ३ ॥ न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥ ४ ॥ यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शय्यायामासीनोऽपि नाऽध्यापयेत् ॥ ४ ॥ अनाविःस्रगनुलेपणस्स्यात् ॥ ५ ॥ आविर्भूते प्रकाशिते स्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्ववत्॥ सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥ 'दारं प्रती'ति वचनादुपगमनार्थमलङ्करणम् । तेन भार्याया अश- क्त्यादिना उपगमनायोग्यत्वे नाऽयं नियमः ॥ ६ ॥ सशिरा वमज्जनमप्सु वर्जयेत् ॥ ७ ॥ वमज्जनमवमज्जनम् । 'वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो' रि- त्यकारलोपः । तत्सशिरा वर्जयेत् । सह शिरसा स्नानं न कुर्यात् । अवगा- हनविधयः सर्वे स्नातकव्यतिरिक्ते चरितार्थाः, नैमित्तिकाश्च । स्नात- कस्य तु नित्यस्नानमवगाहनरूपं न भवतीत्याचार्यस्य पक्ष ॥ ७ ॥ अस्तमिते च स्नानम् ॥ ८ ॥ अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥ ८ ॥ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥९॥ पालाशमासनादि वर्जयेत् । दन्तप्रक्षालन दन्तकाष्ठम् । इतिशब्दः प्रकारे । तेनाऽन्यदपि गृहोपकरणं पालाशं वर्जयेत् ॥ ९ ॥ स्तुतिं च गुरोस्समक्षं यथा सुस्नातमिति ॥ १० ॥
१७४ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३२. 'सुस्नात' मित्यादिकां च स्तुतिं गुरोस्सन्निधौ वर्जयेत् ॥ १० ॥ आ निशाया जागरणम् ॥ ११ ॥ निशा रात्रेर्मध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः॥१२॥ निशायामनध्यायः अध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मो- पदेशोऽनुज्ञायते ॥ १२ ॥ मनसा वा स्वयम् ॥ १३ ॥ निशायामनध्यायस्य प्रतिप्रसवः-मनसा वा स्वयं चिन्तयेदिति ।१३। ऊर्ध्वमर्धरात्रादध्यापनम् ॥ १४ ॥ अयमपि प्रतिप्रसवः । निशायामपि षोडश्या नाडिकाया आरभ्या- ध्यापनं भवतीति ॥ १४ ॥ नाऽपररात्रमुत्थायाऽनध्याय इति संविशेत् ॥ १५ ॥ रात्रेस्तृतीयो भागोऽपररात्र. । ऊर्ध्वमर्धरात्रादुत्थायाऽध्यापयन्नपररात्रे न संविशेत् न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति । किं पुनः स्वाध्याये । तथा च मनुः— (१)'न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।' इति ॥१५॥ (२)काममपश्शयीत ॥ १६ ॥ अनेन स्तम्भाद्युपाश्रयेणाऽऽसीनस्य स्वापोऽनुज्ञायते । श्रिञ्सेवा- याम् । तत्र रेफलोपश्चान्दसः । तथा शकारस्य द्विर्वचनम् ॥ १६ ॥ मनसा वाऽधीयीत ॥ १७ ॥ अयमप्यूर्ध्वमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते । म- नसा प्राप्तं प्रदेशमधीयीत स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥ क्षुद्रान् क्षुद्राचरितांश्च देशान्न सेवेत ॥ १८ ॥ क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रैर्निषादादिभिरधिष्ठितांश्च देशान्न सेवेत ॥ १८ ॥ सभास्समाजांश्च ॥ १९ ॥ १. म स्मृ ४. ९९ २ काममुपशयीत इति ग. पु.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७५ सभाससमाजाश्च व्याख्याताः । तान्न सेवेत ॥ १९ ॥ समाजं चेद्गच्छेत्प्रदक्षिणीकृत्याऽपेयात् ॥ २० ॥ यद्यर्थात् समाजं गच्छेत् तं प्रदक्षिणीकृत्याऽपेयादपगच्छेत् ॥ २० ॥ नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥ बहुवचननिर्देशात् बहुकृत्वो नगरं न प्रवेष्टव्यम् । यदाकदाचिदा- दृष्टिलुके प्रवेशे न प्रायश्चित्तम् ॥ २१ ॥ प्रश्नं च न विब्रूयात् ॥ २२ ॥ विविच्य वचनं विवचनं निर्णयः । पृष्टमर्थं न विविच्य ब्रूयादिद- मित्थमिति । दुर्निरूपार्थविषयमिदम् ॥ २२ ॥ अथाऽप्युदाहरन्ति ॥ २३ ॥ अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥ मूलं तूलं वृहति दुर्विंवक्तुः प्रजां पशूनायतनं हिनस्ति । धर्मप्रह्लाद न कुमालनाय रुदन् ह मृत्युर्व्युवाच प्रश्नम् । इति ॥ २४ ॥ दुर्निरूपमर्थं सहसा निर्णीय यो दुर्विंवक्ति अन्यथा वर्णयति स दु- र्विवक्ता । तस्य दुर्विंवक्तुस्तदेव दुर्वचनमेव मूलं तूलं च वृहति । मूलं पितृध- नम् । तूलमागामिनी सम्पत् । तदुभयमपि वृहति उत्पाटयति । दन्तोष्ठ्यो वकारः। किमेतावदेव ? न, प्रजां पुत्रादिकाम् । पशून् गवादिकान् । आयतनं गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न विब्रूयादिति। अत्रेतिहासः-कस्यचिदृषेर्धर्मप्रह्लादः कुमालनश्चेति द्वौ शिष्यावास्ताम् । तौ कदाचिदरण्यान्महान्तौ समिद्धारावाहृत्य श्रमा(१)द्ददृष्टिपूत एवाचा- र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः । ततः शिष्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति । तावुभावपि न मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश- क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क- टे पतितो मृत्यूरुदन्नेव प्रश्नं व्युवाच विविच्य कथितवान्। कथम् ? हे धर्मप्रह्लाद न कुमालनाय । षष्ठ्यर्थे चतुर्थी । कुमालनस्य नेदं पतनीयमिति । १. दृष्टिपथ एव इति ख. पु.
१७८ आपस्तम्बधर्मसूत्रे [ (१११.) क. ३२. धर्मप्रह्राद त्वयेदं कृतमिति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथा पीतरस्यास्तीत्यर्थाद्गम्यते । इति रुदन् ह व्युवाचेति । हशब्द ऐतिह्य त्वद्योतनार्थः । प्रह्रादशब्दे हकारात्परो रेफश्छान्दसः ॥ २४ ॥ गार्दभं यानमारोहणे विषमारोहणाव- रोहणानि च वर्जयेत् ॥ २५ ॥ गर्दभयुक्तं यानं गर्दभं शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा विषमेषु निम्नोन्नतेष्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं नि- म्नेष्ववरोहणम् ॥ २५ ॥ बाहुभ्यां च नदीतरणम् ॥ २६ ॥ तरण तरः । बाहुभ्यां च नद्यास्तरणं वर्जयेत् । 'बाहुभ्यां' मिति व- चनात् प्लवादिना न दोषः ॥ २६ ॥ नावं च सांशायिकीम् ॥ २७ ॥ भिद्यते न वेति संशयमापन्ना सांशायिकी नौः । जीर्णां नावं वर्जयेत् । 'नावा' मिति षष्ठ्यन्तपाठे नावां मध्ये सांशायिकीं नावं वर्जयेत् ॥ २७ ॥ तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८ ॥ तृणच्छेदनादि नाऽकारणाद्वर्जयेत् न कुर्यात् । तृणच्छेदनस्याऽग्नि ज्वलनादि कारणम् । ष्ठेवनस्य कारण प्रतिश्यायादि । इतरच्च मृग्यम् ॥ यच्चाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥ यच्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षक्रीडादि वर्ज- येत् । द्विरुक्तिः प्रश्नपरिसमाप्तिकृता ॥ २९ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी काण्डका ॥ ३२ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायामेकादशः पटलः ॥ ॥ समाप्तः प्रथमः प्रश्नः ॥
॥ श्रीः ॥ आपस्तम्बधर्मसूत्रे उज्ज्वलोपेते अथ द्वितीयः प्रश्नः ॥ पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ॥ १ ॥ पूर्वस्मिन् प्रश्ने आद्ययोः पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः । इतरेष्वष्टसु सर्वाश्रमाणां । एकादशे समावृत्तस्य । इदानीं पाणिग्रहणा- दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणिर्यस्मि(१)न्ग्रहनि गृह्यते तत्पा- णिग्रहणम्(२) । अधिशब्द ऊर्ध्वार्थे वर्तते । तस्मादूर्ध्वं गृहमेधिनोर्गृहस्था- श्रमवतोः यद्व्रतं नियतं कर्तव्यम्, जातावेकवचनम्, तदुच्यते । 'पाणि- ग्रहणादधी'ति वचने(३)'भार्यादिरग्निर्दायादिर्वे'ति शास्त्रान्तरोको वि- कल्पो मा भूदिति । 'गृहमेधिनो'रिति द्विवचनमन्यतरमरणे मा भूदि- ति(४) । वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥ कालयोर्भोजनम् ॥ २ ॥ कालयोरुभयोरपि भोजनं कर्तव्यम्—सायं प्रातश्च, नाऽन्तरेति परिसं- ख्येयम्, भोजनस्य रागप्राप्तत्वात् । मानवे च स्पष्टमुक्तम्— (५)'सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति । अन्ये तु नियमं मन्यन्ते(६) शक्तौ सत्यां गृहमेधिनोरुभयोरपि कालयोरवश्यं भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति ।
१. यस्मिन् कर्माणि इति. क ड. पु. २. चतुर्थीकर्मान्तो विवाहः इत्यधिकं ड पु ३. गौ. ध ५ ७ ४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा- नत्वाच्छाखान्तरत्वाच्च । इत्यधिकं क पु. ५. वचनमिदं मुद्रितमनुस्मृतिकोशेषु नाऽस्ति । परं तु बहुषु निबन्धेषु परं मान- वत्वेनोपन्यस्तम् । ६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्यं भोजनं कर्तव्यमिति ढ पुस्तके पाठः । आप० ध० २३
१७८ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क. १. तथा च बौधायनः- (१)'गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥' इति । (२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २ ॥ अतृप्तिश्चाऽन्नस्य ॥ ३ ॥ सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे'ति ज्ञा- पनात् । अन्नेन तृप्तिं न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥ पर्वसु चोभयोरुपवासः ॥ ४ ॥ पक्षसन्धिः पर्व । इह तु तद्युक्तमहर्गृह्यते । तेषु पर्वसूभयोर्दम्पत्यो- रुपवासः कर्तव्यः । उपवासो भोजनलोपः ॥ ४ ॥ अविशेषादुभयोरपि कालयो. प्राप्तावाह- औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥ यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ(४)पवस्तमेव उपवास एव । (५)'औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ; श्रौते तथा दर्शनात् (६)'न तस्य सायमश्नीया'दिति । तदिह (७)'एव मत ऊर्ध्व'मित्यादि गृह्ये यदुक्तं तत्रत्य उपवासो व्याख्यातः ॥ ५ ॥ तृप्तिश्चाऽन्नस्य ॥ ६ ॥ पर्वसु सकृद्भुञ्जानौ यावत्तृप्ति भुञ्जीयाताम् ॥ ६ ॥ यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ॥ ७॥ 'एतस्मिन्नहनी'ति न वक्तव्यम् । प्रकृतत्वात् । यथा 'तृप्तिश्चान्नस्ये' ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्वि'ति बहुव चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी'त्येकवचनान्तेन प्रत्यवमर्शो नाऽतीव समञ्जसः । तस्माद्व्यवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थ- १. बौ ध २. ७ २४ २. अय भागो घ. पुस्तके नास्ति । ३. पा. सू. २. २. ११ ४. 'वसु, स्तम्भ' इत्यस्मादैवादिकाद्भावे के स्वार्थेऽणि च सति औपवस्तमिति रूपं, धातुनामनेकार्थत्वादभोजने वृत्तिरिति च वेदितव्यम् । ५. नामलि. का. २. ब्र व. ३८ ६. आप श्रौ. ३. ७. आप. गृ. ७. १७.
गृहस्थधर्मा: ] उज्ज्वलोपेते द्वितीय: प्रश्न: । १७९
मेव च गृहे (१) 'एतदहर्विजानीयाद्यदहर्भार्यामावहत' इत्युक्तम् । एतस्मिन् पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रियं तत् भुञ्जीयाताम् । न तु 'नाऽऽत्मार्थ- मभिरूपमन्नं पाचये' (२-७-४) दिति निषेधस्याऽयं विषय इति । प्रतिसंव- त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविवाहस्याऽपरस्मिन्नपि संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति । प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात् प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२) यथा राज्ञामभिषेकनक्षत्र मेवं हि गृहमेधिनोर्विवाहनक्षत्रमिति ॥ ७ ॥ अधश्च शयीयाताम् ॥ ८ ॥ एतस्मिन्नहनि स्थण्डिलशायिनौ स्याताम् ॥ ८ ॥ मैथुनवर्जनं च ॥ ९ ॥ (३) मैथुनवर्जनं चैतस्मिन्नहनि कर्तव्यम् ॥ ९ ॥ श्वो भूते स्थालीपाक: ॥ १० ॥ स्थालीपाकश्च कर्तव्योऽपरेद्युः ॥ १० ॥ तस्योपचारः पार्वणेन व्याख्यातः ॥ ११ ॥ तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचित्तु सर्वमेवैतत्पर्वविषयं मन्यन्ते । तेषामुक्त्तो दोषः । 'पार्वणेन व्या ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । 'श्वो भूते स्थालीपाक' इति च व्यर्थम् । (४) 'उपोषिताभ्यां पर्वसु कार्य' इति पूर्वमेवोक्तत्वात् । 'एतदहर्विजानीया' दिति चास्य प्रयोजनं तत्पक्षे चिन्त्यम् (५) ॥ ११ ॥ नित्यं लोक उपदिशन्ति ॥ १२ ॥ लोके शिष्टाचासिद्धमेतत्कर्म नित्यं प्रतिसंवत्सरं कर्तव्यमिति शिष्टा उपदिशन्ति । अपर आह—वक्ष्यमाणं कर्म शिष्टाचारासिद्धं नित्यं सार्वत्रिक इति
१. आप गृ ८. ७ २. यथा इत्यादिग्रन्थः घ. ङ पुस्तकयोर्नास्ति । ३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप. गृ. ७. १७. ५. सूत्रस्वारस्यं तु पर्वविषयत्व एव पश्यामः ।
३. द्वितीय प्रश्न (पटल १-५): गृहस्थ-धर्म व पंचमहायज्ञ
१८० आपस्तम्बधर्मसूत्रे [ (प.१.) क.१. शिष्टा उपदिशन्ति ॥ १२ ॥ यत्र क चाऽग्निमुपसमाधास्यन् स्यात्तत्र प्राचीरुदी- चीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽद्भिरवोक्ष्या- ऽग्निमुपसमिन्ध्यात् ॥ १३ ॥ होमप्रसङ्गादिदमुच्यते—यत्र क्व च गार्ह्ये सामयाचारिके वा कर्म णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्वं प्राचीः प्रा गग्रास्तिस्रो रेखा विलिखेत् । तत उदीचीः उदगग्रास्तिस्रः । एव तिस्रो लेखा लि- खित्वाऽद्भिरवोक्षेत् । अवोक्ष्याऽग्निं श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु- पसमिन्धीत काष्ठैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमः, तथाप- वर्ग' इति परिभाषितम् । उपदेशक्रमाच्च प्राच्यः पूर्वं लेखा लेखनीयाः ततश्चोदीच्यः(२) । (३)प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् । अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥ (४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥ उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वाऽन्यदुपदध्यात् ॥१४॥ एतदवोक्षणशेषोदकमग्नेरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽन्य दुदकं पात्रस्थमुपदध्यात्तत्रैव ॥ १४ ॥ नित्यमुदधानान्धद्भिररिक्तानि स्युर्गृहमेधिनोव्रतम् ॥१५॥ गृहे यावन्त्युदधानान्युदपात्राणि घटकरादीनि तानि सदाऽद्भिररिक्तानि स्युः । एतदपि गृहमेधिनोव्रतम् । पुनः 'गृहमेधिनो'रिति वचनमस्मिन् कर्मणि स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति । अन्य आह—पुन 'गृहमेधिनो'रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि षयेऽपि 'सावित्र्या समित्सहस्रमादध्या' (१.२६.१.) दित्यादौ भवति । पाके तु स्त्रिया न भवति । 'उपसमाधास्य'न्निति लिङ्गस्य विवक्षित- त्वात् । आर्याः प्रथता' (२.३.१.) इत्यादौ भवतीति ॥ १५ ॥ १. आप. गृ. १. ५, ६. २. ‘एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च’ इत्याधिकं घ.ड पु. ३. प्राचीः पूर्वं दक्षिणान्तमुद्गारभ्यमालिखेत् । इति ख. च. पु. ४. अन्ये तु प्राचीर्दक्षिणारम्भमालिखन्ति इति च. पु. ।
गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८१ अहन्यसंवेशनम् ॥ १६ ॥ संवेशनं मैथुनं तदहनि न कर्तव्यम् ॥ १६ ॥ ऋतौ च सन्निपातो दारेणाऽनुव्रतम् ॥ १७ ॥ रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः । तत्र च सन्निपातः संयागो दारेण सह कर्तव्यः । छान्दसमेकवचनम् । (१) नित्यं बहुवचनान्तो हि दारशब्दः । अनुव्रतं शास्त्रतो नियमो व्रतं, तदनुरोधेन । तत्र मनुः— (२)'ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । चतुर्भिरितरैस्सार्धमहोभिस्सद्विगर्हितैः ॥ तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः' ॥ (३)'अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ॥ ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ।' इति । याज्ञवल्क्यस्तु— (४)एव गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । इति । आचार्यस्तु चतुर्थीप्रभृति गमनमाह—(५)'चतुर्थीप्रभृत्याषोड- शीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसमृतुगमनमित्युपदिशन्ति' इति । तदिह षोडशसु रात्रिष्वादितस्तिस्रस्सर्वथा वर्ज्याः । चतुर्थ्ये- कादशी त्रयोदशी चाऽऽचार्येणानुज्ञाताः मनुना निषिद्धाः । इतरासु दशसु युग्मासु पुत्रा जायन्ते, स्त्रियोऽयुग्मासु । तत्र चो- 'त्तरामुत्तरा' मिति वचनात् षोडश्यां रात्रौ मघादियोगाभावे गच्छत- स्सर्वत उत्कृष्टः पुत्रो भवति । चतुर्थ्यामवमः। मध्ये कल्प्यम्। एवं पञ्चद- श्यामुत्कृष्टा दुहिता । पञ्चम्यामवमा । मध्ये कल्प्यम् । षोडशस्वेव ग मनं गर्भहेतुः । तत्रापि प्रथमम् । एवं स्थिते नियमविधिरयं-योग्यत्वे स त्यृताववश्यं सन्निपतेत् , असन्निपतन् पुत्रोत्पत्तिं निरुन्धानः प्रत्यवेया- दिति । तथा च दोषस्मृतिः— (६)'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति । पुत्रगुणार्थितया पूर्वों पूर्वी वर्जयतो न दोषः । अन्ये तु परिसङ्ख्यां १. नित्यं बहुवचनान्तो हि दारशब्दः इति नास्ति क. पु. २. म. स्मृ ३ ४६, ४७. ३ म स्मृ. ४. १२८. ४. या स्मृ. १ ८०. ५. आ प गृ ९. १ ६. बा. व ४. १०. २०.
१८२ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. १. मन्यन्ते—ऋतावेव सन्निपतेन्नाऽन्यत्रेति । तेषामृतावनियमाद्गमनेऽपि दोषाभावाद्दोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग- प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥ अन्तरालेऽपि दार एव ॥ १८ ॥ अन्तराल मध्यम्। ऋत्वोरन्तराले मध्येऽपि सन्निपातः स्यात् दार एव सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , त- थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थमवश्यं सन्निपतेदिति । वक्ष्यति च (१) 'अप्रमत्ता रक्षथ तन्तुमेतं' (२.१३.६.) मित्यादि । अनुव्रतमित्य- नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥ ब्राह्मणवचनाच्च संवेशनम् ॥ १९ ॥ यदिदमनन्तरोक्तं संवेशनं तत्र ब्राह्मणवचनं प्रमाणं (२)'काममावि- जनितोस्सम्भवामे'ति ॥ १९ ॥ स्त्रीवाससैव सन्निपातस्स्यात् ॥ २० ॥ एवकारो भिन्नक्रमः। स्त्र्युपभोगार्थं वासः स्त्रीवासः । तेन सन्निपात एव स्यात् । न तेन सुप्रक्षालितेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥ यावत्सन्निपातं चैव सह शय्या ॥ २१ ॥ यावत्सन्निपातमेव दम्पत्योस्सह शयनम् ॥ २१ ॥ ततो नाना ॥ २२ ॥ ततः पृथक्शयीयाताम् ॥ २२ ॥ उदकोपस्पर्शनम् ॥ २३ ॥ ततो द्वयोरप्युदकोपस्पर्शनं स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां श्रीहरदत्तविरचितायां द्वितीयप्रश्ने प्रथमा कण्डिका ॥ १॥ १. बौ. ध २. २. ३६. द्रष्टव्यम् । २. तै सं. २. ५ १. यावत्प्रसूति संभोगं प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रात् प्रार्थितो वर ।
गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८३ अपि वा लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १ ॥ अपि वा रेतसो रजसश्च ये लेपास्तानद्भिर्मृदा च प्रक्षाल्याऽऽचम्य अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१)। रुचितो व्यवस्था। याव- ता प्रयतो मन्यते ॥ १ ॥ सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥ सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णां ये स्वधर्मा वर्णप्रयुक्ता आश्रम- प्रयुक्ता उभयप्रयुक्ता वा तेषामवैगुण्यनाऽऽन्तादनुष्ठाने सति परमुत्कृष्टं अपरिमितमक्षयं सुखं स्वर्गाख्यं भवति ॥ २ ॥ न केवलमेतावत् । किं तर्हि ? ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ ३ ॥ ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जातिं ब्राह्मणादिकां विशिष्टे वा कुले जन्म। रूपं कान्तिम्। वर्णं हेमादितुल्यम्। बलं प्रतिपक्षनिग्रहक्षमम् । मेधां(२) ग्रन्थधारणशक्तिम्। प्रज्ञां अर्थधारणशक्तिम्। द्रव्याणि स्वर्णादीनि । धर्मानुष्ठानम् इतिकरणाद्यच्चाऽन्यदेवं युक्तं तत्सर्वं प्रतिपद्यते । सर्वत्र धर्मशेषो हेतुः । कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते। ऐहिकस्य शरीरग्रहणादेरपि कर्मफलत्वात्। धर्मानुष्ठानं प्रतिपद्यत इत्युक्तम्। यदा चैवं तदा सर्ववर्णानां स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत् तस्माच्चक्रवदुभयोर्लोकयोरिह चाऽमुष्मिंश्च सुख एव वर्तते न जातु चित् दुःख वर्तते । सुखानुबन्धेनैवाऽऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥ शरीरोत्पत्तिसंस्कारा(३)अप्यावश्यका इति दर्शयितुं दृष्टान्तमाह-- यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ॥ ४ ॥ चलोपोऽत्र द्रष्टव्यः । यथा चौषधीनां व्रीह्यादीनां वनस्पतीनां चा- १ इदममृतुकाले इत्यधिकं ख.च पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र । २ मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु । ३ अप्यवश्यापेक्ष्या. इति. च पु
१८४ आपस्तम्बधर्मसूत्रे [ (प.१)क.२. व्रीह्यादीनां बीजस्य क्षेत्रविशेषे कर्मविशेषे संस्कारविशेषे च क्षेत्रस्य वा कृष्या- दौ कर्मविशेषे फलपरिवृद्धिर्भवति । त एव व्रीह्यादय ऊषरे उप्ता न प्र रोहन्ति । कृष्यादिपरिकर्मिते तु क्षेत्रे उप्ताः स्तम्बकरयो भवन्ति । एवं पुरुषेऽपि गर्भाधानादिसंस्कारसम्पन्ने द्रष्टव्यम् ॥ ४ ॥ एतेन दोषफलपरिवृद्धिरुक्ता ॥ ५ ॥ एतेनैव न्यायेन दुष्टकर्मफलपरिवृद्धिरप्युक्ता वेदितव्या । (१)तत्रोहेन पठ- नीयम्-सर्ववर्णानां स्वधर्माननुष्ठाने परमपरिमितं दुःखम् । ततः परिवृत्तौ कर्मफलशेषेण दुष्टां जात्यादिकामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिप- द्यते । तच्चक्रवदुभयोर्दुःख एव वर्तते । यथौषधिवनस्पतीनां बीज- स्य क्षेत्रकर्मविशेषाभावे फलहानिरेवमिति ॥ ५ ॥ दोषफलपरिवृद्धावुदाहरणमाह-- स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मि ँल्लोकेऽपरिमिते निरये वृत्ते जायते चण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ॥ ६ ॥ स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽभिशस्तो वा ब्राह्मणादिर- मुष्मिंल्लोकेऽपारिमने निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीणे ब्राह्म- णश्चण्डालो जायते। शूद्रात् ब्राह्मण्यां जातश्चण्डालः, राजन्यः, पौल्कसः । शूद्रा- त्क्षत्रियायां जातः पुल्कसः । स एव पौल्कसः । प्रज्ञादित्वादण् । वैश्यो, वैणो जायते(२) वेणुना नर्तको वैणः ॥ ६ ॥ एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥ वर्णपरिध्वंसा वर्णेभ्यः प्रच्यवनं तस्यां वर्णपरिध्वंसायाम् । यथा ब्राह्म- णादयश्चण्डालाद्या जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु सूकरादिषु, योनिषु जायन्ते । परिध्वंसाः स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽवगन्तव्या इति ॥ ७ ॥ यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ॥ ८ ॥ १. तत्रोक्त व्यत्ययेन पठनीयम् । इति. घ. पु. २. वेणुर्नर्तकः स एव वैणः । इति. घ पु.
गृहस्थधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १८५ चण्डालोपस्पर्शने दोषो भवति । तथा सम्भाषाया दर्शने च । उपसम- स्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते ॥८॥ अवगाहनमपामुपस्पर्शने ॥९॥ सम्भाषायां ब्राह्मणस- म्भाषा ॥ १० ॥ दर्शने ज्योतिषां दर्शनम् ॥ ११ ॥ उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम् । ऋजुनी उत्तरे द्वे सूत्रे । अस्मिन् कर्मप्रशंसाप्रकरणे प्रायश्चित्ताभिधानं स्वकर्मच्युतानां निन्दार्थम् । एवं- नाम निन्दितश्चण्डालः यस्य दर्शनेऽपि प्रायश्चित्तं स एव जायते स्व- कर्मच्युतो ब्राह्मण इति ॥ ९–११ ॥ इत्यास्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां द्वितीयप्रश्ने द्वितीया कण्डिका ॥ २ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने प्रथमः पटलः ॥ १ ॥ आप० ध० २४
अथ द्वितीयः पटलः ॥ आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः ॥ १ ॥ आर्यास्त्रैवर्णिकाः । 'आर्याधिष्ठिता वा शूद्रा' (२.३,४) इत्युत्तरत्र दर्श- ातू । प्रयताः स्नानादिना शुद्धाः । वैश्वदेवे गृहमेधिनोभोजनार्थे पाके । 'गृहमेधिनो यदशनीयस्ये' (३-१२) ति दर्शनात् । अन्नसंस्कर्तार स्युः । अन्नं भक्ष्यभोज्यपेयादिकं तत् संस्कुर्युः । न स्वयं, नाऽपि स्त्रियः ॥ १ ॥ भाषां कासं क्षवधुमित्यभिमुखोऽन्नं वर्जयेत् ॥ २ ॥ भाषा शब्दोच्चारणम् । कासः कण्ठे घुरुघुराशब्दः । क्षवथुः क्षुतम् । एतत्त्रितयमन्नाभिमुखो न कुर्यात् । 'संस्कर्तारः स्यु'रिति बहुवचने प्र- कृते 'वर्जये'दित्येकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥ केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥ ३ ॥ केशादीनात्मीयानन्यदीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेदं स्नानम् । किं तर्हि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि तम् । इद तु तत्रोक्तं वैकल्पिकं शकृदाद्युपस्पर्शनं मा भूदिति ॥ ३ ॥ आर्याधिष्ठिता वा शूद्रास्संस्कर्तारः स्युः ॥ ४ ॥ त्रैवर्णिकैरधिष्ठिता वा शूद्रास्संस्कर्तार स्युः । प्रकरणादन्नस्येति गम्यते ॥४॥ तेषां स एवाऽऽचमनकल्पः ॥ ५ ॥ तेषां शूद्राणामन्नसंस्कारे ऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः, यस्याऽन्नं पचन्ति । यदि ब्राह्मणम्य, हृदयङ्गमाभिरद्भिः । यदि क्षत्रि- यस्य, कण्ठगाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियोपस्पर्शनं च भवति ॥ ५ ॥ अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥ ६ ॥ शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इदमेषामधिकमार्येभ्यः ॥६॥ उदकोपस्पर्शनं च सह वाससा ॥ ७ ॥ सहैव वाससा स्नानं कुर्युः । आर्याणां तु परिहितं वासो निधाय कौ पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । त-
वैश्वदेवम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८७ था च मनुः- (१)'न वासोभिस्सहाऽज्जं नाऽविज्ञाते जलाशये ।' इति ॥ ७ ॥ अपि वाऽष्टमीष्वेव पर्वसु वा वपेरन् ॥ ८ ॥ यदि वाऽष्टमीष्वेव वपेरन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । 'वपेर'न्निति अन्तर्भावितण्यर्थः । वापयेरन्नित्यर्थः । तथा च 'लोमनखवापन'मिति पूर्वत्र णिच्प्रयुक्तः ॥ ८ ॥ परोक्षमन्नं संस्कृतमग्नावधिश्रित्याऽद्भिः प्रोक्षेत्त- द्वेवपवित्रमित्याचक्षते ॥ ९ ॥ यदि शूद्राः परोक्षमन्नं संस्कुर्युः आर्यैरनधिष्ठिताः । तदा तत्परोक्षमन्न संस्कृत स्वयमग्नावधिश्रयेत् । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्नं देवपवित्र- मित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति ॥ ९ ॥ सिद्धेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात् ॥ १० ॥ सिद्धे पक्वेऽन्ने तिष्ठन् पाचकोऽधिष्ठाता वा भूतमिति प्रब्रूयात् । कस्मै ? य- स्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥ १० ॥ तत्सुभूतं विराडन्नं तन्मा क्षायीति प्रतिवचनः ॥ ११ ॥ तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः । तदन्नं सुभूतं सुनिष्पन्नम् । विराट् विराजः साधनम् । अन्नमशनम् । तन्न मा क्षायि क्षीणं मा भू- दित्यर्थः ॥ ११ ॥ गृहमेधिनो यदशनीयं तस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः ॥ १२ ॥ गृहमेधिनो यदशनीय पकमन्नं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२ ॥ तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ॥ १३ ॥ तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे । उपयोगो नियम- पूर्वकं विद्याग्रहणम्(२) । तत्र द्वादशाहमधश्शय्या स्थण्डिलशायित्वम् । ब्रह्म १. म. स्मृ. ४. १२९ २. तथा च बौधायनः-'तेषां ग्रहणे द्वादशरात्र' मित्यादि इत्याधिकं ख. पुस्तके ।
१८८ आपस्तम्बधर्मसूत्रे [ (प.२.) क.३. चर्ये मैथुनवर्जनम् । (१)क्षारलवणवर्जनं च भवति । उपयोक्तुरेव व्रतम्, अध्ययनाङ्गत्वात् । अन्ये तु पत्न्या अपीच्छन्ति । उपयोगः प्रथमयोगः तत्र च पत्न्या अपि सहाऽधिकार इति वदन्तः ॥ १३ ॥ उत्तमस्यैकारात्रमुपवासः ॥ १४ ॥ उत्तमस्य 'उत्तमेन वैहायस(२.४.८.) मिति वक्ष्यमाणस्य(२) 'ये भूताः प्रचरन्ती'त्यस्य एकरात्रमुपवासः कर्तव्यः ॥ १४ ॥ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्याऽऽवो- क्ष्य न्युप्य पश्चात्परिषेचनम् ॥ १५ ॥ बलीना मध्ये तस्यतस्य बलेर्देशे सस्कारः कर्तव्यः । कः पुनरसौ ? हस्तेन परिमार्जनमवोक्षणं च । तं कृत्वा बलिं निवपति । न्युप्य पश्चात् परिषेचनं कर्तव्यम् । उपदेशक्रमादेव सिद्धे पश्चाद्ग्रहणं मध्ये गन्धमाल्यादिदाना- र्थमित्याहुः । 'तस्यतस्ये'ति वचनं सत्यपि सम्भवे सकृदेव परिमार्ज- नमवोक्षणं च मा भूत् । एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति ॥ १५ ॥ औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् ॥ १६ ॥ यत्र पच्यते स पचनोऽग्निः । औपासनवतामौपासने, विधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु-तुल्यविकल्पं मन्यन्ते । षड्भिराद्यैः (३)‘अग्नये स्वाहा, सोमाय स्वाहा, विश्वेभ्यो देवेभ्यस्स्वाहा, ध्रुवाय भौमाय स्वाहा, ध्रुवक्षितये स्वाहा, अच्युतक्षितये स्वाहेत्येतैः । एते हि मन्त्रपाठे पठिताः प्राग्विवाहमन्रेभ्यः विशिष्टनियमसापेक्षग्रहणत्वात्तै- स्सह न गृह्यन्ते । केचित् सौविष्टकृतमपि सप्तमं जुह्वति 'अग्नये स्विष्ट कृते स्वाहे'ति ओषधहविष्केषु तस्य सर्वत्र प्रवृत्तिरिति वदन्तः । अन्ये तु सोमाय स्वाहेति न पठन्ति । सौविष्टकृतं षष्ठं पठन्ति । हस्तग्रहणं दर्व्यादिनिवृत्त्यर्थम् ॥ १६ ॥ १. क्षारपदार्थः आप. ध २. १५. १४ सूत्रे द्रष्टव्यः । २. ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु ॥ इति मन्त्रः । ( तै. आ १०. ६७. ) ३. आप मन्त्रप्रश्ने. १. १.
वैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८९ उभयतः परिषेचनं यथा पुरस्तात् ॥ १७ ॥ उभयतः पुरस्तादुपरिष्टाच्च परिषेचनं कर्तव्यम् । कथम् ? यथा पुरस्तात् उक्तं गृह्ये(१) 'आदितेऽनुमन्यस्वे'त्यादि, 'अन्वमँस्थाः प्रासावीदिति मन्त्र- सन्नाम' इति च । सामयाचारिकेषु पार्वणातिदेशो न प्रवर्तत इति ज्ञापितत्वादप्राप्तविधिरयम् । अन्ये तु परिसङ्ख्यां मन्यन्ते-परिषेचन- मेव वैश्वदेवे, नान्यत्तन्त्रमिति ॥ १८ ॥ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् ॥ १८ ॥ यथा षण्णामाहुतीनां परिषेचनं तन्त्रम् , विभवात् । एवं बलयो- ऽपि ये एकस्मिन् देशे समवेता 'उत्तरैर्ब्रह्मसदन' (४.२.४) इत्यादयस्तेषां यदन्ते परिषेचनं प्राप्तं 'पश्चात्परिषेचन' मित्यनेन विहितं तत्सर्वान्ते सकृत्कर्तव्यम्, न प्रत्येकं पृथगिति । असत्यस्मिन् सूत्रे पूर्वत्र 'तस्य तस्ये' ति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येक पृथक्पृथग्भवति तथा परिषेचनमपि स्यात् । अत्र चोपदेशादेव य एकदेशस्था बलयस्तेषामेव सकृदन्ते परिषेचनं, न यादृच्छिकसमवेतानाम् । तेन यद्यप्यगारस्योत्त- रपूर्वदेशश्शय्यादेशः, तथापि कामलिङ्गस्य पृथक्परिषेचनं भवति ॥१८॥ सति सूपसंसृष्टेन कार्याः ॥ १९ ॥ सति सूपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्यैरपि व्यञ्जनैस्संसर्ग- मिच्छन्ति । तथा च बोधायन.-(२) 'काममितरेष्वायतने'ष्विति । एष एव व्यञ्जनानां संस्कार. । ३) सूत्रस्यापि—व्यञ्जनैस्सुष्ठुरसंसृष्टेनाऽन्नेन बलयः कार्यास्सति सम्भव इत्यर्थः इति ॥ १९ ॥ अपरेणाऽग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ॥ २० ॥ अपरेणाऽग्निमग्नेः पश्चात् । सप्तमाष्टमाभ्या 'धर्माय स्वाहा, अधर्माय स्वाहे' त्येताभ्यां बलिहरणं कर्तव्यम् । उदगपवर्गम् । न प्रागपवर्गम् ॥ २० ॥ उदधानसन्निधौ नवमेन ॥ २१ ॥ उदकं यत्र धीयते तदुदधानं(४) मणिकाख्यम् । तस्य सन्निधौ नवमेन १. आप गृ. २. ३. २. बौ. गृ. १. ८. १. ३. सूपस्यापि । व्यञ्जनैरपूपेन च संसृष्टेन बलय इति. क. छ. पु. ४. अस्य विधिर्गृह्ये वास्तुनिर्माणविधौ ( आप गृ १७. ९ ) द्रष्टव्यः ।