आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 192, कुल 399 में से
संदर्भ में पढ़ेंगृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८१ अहन्यसंवेशनम् ॥ १६ ॥ संवेशनं मैथुनं तदहनि न कर्तव्यम् ॥ १६ ॥ ऋतौ च सन्निपातो दारेणाऽनुव्रतम् ॥ १७ ॥ रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः । तत्र च सन्निपातः संयागो दारेण सह कर्तव्यः । छान्दसमेकवचनम् । (१) नित्यं बहुवचनान्तो हि दारशब्दः । अनुव्रतं शास्त्रतो नियमो व्रतं, तदनुरोधेन । तत्र मनुः— (२)'ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । चतुर्भिरितरैस्सार्धमहोभिस्सद्विगर्हितैः ॥ तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः' ॥ (३)'अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ॥ ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ।' इति । याज्ञवल्क्यस्तु— (४)एव गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । इति । आचार्यस्तु चतुर्थीप्रभृति गमनमाह—(५)'चतुर्थीप्रभृत्याषोड- शीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसमृतुगमनमित्युपदिशन्ति' इति । तदिह षोडशसु रात्रिष्वादितस्तिस्रस्सर्वथा वर्ज्याः । चतुर्थ्ये- कादशी त्रयोदशी चाऽऽचार्येणानुज्ञाताः मनुना निषिद्धाः । इतरासु दशसु युग्मासु पुत्रा जायन्ते, स्त्रियोऽयुग्मासु । तत्र चो- 'त्तरामुत्तरा' मिति वचनात् षोडश्यां रात्रौ मघादियोगाभावे गच्छत- स्सर्वत उत्कृष्टः पुत्रो भवति । चतुर्थ्यामवमः। मध्ये कल्प्यम्। एवं पञ्चद- श्यामुत्कृष्टा दुहिता । पञ्चम्यामवमा । मध्ये कल्प्यम् । षोडशस्वेव ग मनं गर्भहेतुः । तत्रापि प्रथमम् । एवं स्थिते नियमविधिरयं-योग्यत्वे स त्यृताववश्यं सन्निपतेत् , असन्निपतन् पुत्रोत्पत्तिं निरुन्धानः प्रत्यवेया- दिति । तथा च दोषस्मृतिः— (६)'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति । पुत्रगुणार्थितया पूर्वों पूर्वी वर्जयतो न दोषः । अन्ये तु परिसङ्ख्यां १. नित्यं बहुवचनान्तो हि दारशब्दः इति नास्ति क. पु. २. म. स्मृ ३ ४६, ४७. ३ म स्मृ. ४. १२८. ४. या स्मृ. १ ८०. ५. आ प गृ ९. १ ६. बा. व ४. १०. २०.