भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 193, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 193

१८२ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. १. मन्यन्ते—ऋतावेव सन्निपतेन्नाऽन्यत्रेति । तेषामृतावनियमाद्गमनेऽपि दोषाभावाद्दोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग- प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥ अन्तरालेऽपि दार एव ॥ १८ ॥ अन्तराल मध्यम्। ऋत्वोरन्तराले मध्येऽपि सन्निपातः स्यात् दार एव सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , त- थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थमवश्यं सन्निपतेदिति । वक्ष्यति च (१) 'अप्रमत्ता रक्षथ तन्तुमेतं' (२.१३.६.) मित्यादि । अनुव्रतमित्य- नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥ ब्राह्मणवचनाच्च संवेशनम् ॥ १९ ॥ यदिदमनन्तरोक्तं संवेशनं तत्र ब्राह्मणवचनं प्रमाणं (२)'काममावि- जनितोस्सम्भवामे'ति ॥ १९ ॥ स्त्रीवाससैव सन्निपातस्स्यात् ॥ २० ॥ एवकारो भिन्नक्रमः। स्त्र्युपभोगार्थं वासः स्त्रीवासः । तेन सन्निपात एव स्यात् । न तेन सुप्रक्षालितेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥ यावत्सन्निपातं चैव सह शय्या ॥ २१ ॥ यावत्सन्निपातमेव दम्पत्योस्सह शयनम् ॥ २१ ॥ ततो नाना ॥ २२ ॥ ततः पृथक्शयीयाताम् ॥ २२ ॥ उदकोपस्पर्शनम् ॥ २३ ॥ ततो द्वयोरप्युदकोपस्पर्शनं स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां श्रीहरदत्तविरचितायां द्वितीयप्रश्ने प्रथमा कण्डिका ॥ १॥ १. बौ. ध २. २. ३६. द्रष्टव्यम् । २. तै सं. २. ५ १. यावत्प्रसूति संभोगं प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रात् प्रार्थितो वर ।