आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 194, कुल 399 में से
संदर्भ में पढ़ेंगृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८३ अपि वा लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १ ॥ अपि वा रेतसो रजसश्च ये लेपास्तानद्भिर्मृदा च प्रक्षाल्याऽऽचम्य अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१)। रुचितो व्यवस्था। याव- ता प्रयतो मन्यते ॥ १ ॥ सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥ सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णां ये स्वधर्मा वर्णप्रयुक्ता आश्रम- प्रयुक्ता उभयप्रयुक्ता वा तेषामवैगुण्यनाऽऽन्तादनुष्ठाने सति परमुत्कृष्टं अपरिमितमक्षयं सुखं स्वर्गाख्यं भवति ॥ २ ॥ न केवलमेतावत् । किं तर्हि ? ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ ३ ॥ ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जातिं ब्राह्मणादिकां विशिष्टे वा कुले जन्म। रूपं कान्तिम्। वर्णं हेमादितुल्यम्। बलं प्रतिपक्षनिग्रहक्षमम् । मेधां(२) ग्रन्थधारणशक्तिम्। प्रज्ञां अर्थधारणशक्तिम्। द्रव्याणि स्वर्णादीनि । धर्मानुष्ठानम् इतिकरणाद्यच्चाऽन्यदेवं युक्तं तत्सर्वं प्रतिपद्यते । सर्वत्र धर्मशेषो हेतुः । कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते। ऐहिकस्य शरीरग्रहणादेरपि कर्मफलत्वात्। धर्मानुष्ठानं प्रतिपद्यत इत्युक्तम्। यदा चैवं तदा सर्ववर्णानां स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत् तस्माच्चक्रवदुभयोर्लोकयोरिह चाऽमुष्मिंश्च सुख एव वर्तते न जातु चित् दुःख वर्तते । सुखानुबन्धेनैवाऽऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥ शरीरोत्पत्तिसंस्कारा(३)अप्यावश्यका इति दर्शयितुं दृष्टान्तमाह-- यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ॥ ४ ॥ चलोपोऽत्र द्रष्टव्यः । यथा चौषधीनां व्रीह्यादीनां वनस्पतीनां चा- १ इदममृतुकाले इत्यधिकं ख.च पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र । २ मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु । ३ अप्यवश्यापेक्ष्या. इति. च पु