भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

१८२ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. १. मन्यन्ते—ऋतावेव सन्निपतेन्नाऽन्यत्रेति । तेषामृतावनियमाद्गमनेऽपि दोषाभावाद्दोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग- प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥ अन्तरालेऽपि दार एव ॥ १८ ॥ अन्तराल मध्यम्। ऋत्वोरन्तराले मध्येऽपि सन्निपातः स्यात् दार एव सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , त- थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थमवश्यं सन्निपतेदिति । वक्ष्यति च (१) 'अप्रमत्ता रक्षथ तन्तुमेतं' (२.१३.६.) मित्यादि । अनुव्रतमित्य- नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥ ब्राह्मणवचनाच्च संवेशनम् ॥ १९ ॥ यदिदमनन्तरोक्तं संवेशनं तत्र ब्राह्मणवचनं प्रमाणं (२)'काममावि- जनितोस्सम्भवामे'ति ॥ १९ ॥ स्त्रीवाससैव सन्निपातस्स्यात् ॥ २० ॥ एवकारो भिन्नक्रमः। स्त्र्युपभोगार्थं वासः स्त्रीवासः । तेन सन्निपात एव स्यात् । न तेन सुप्रक्षालितेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥ यावत्सन्निपातं चैव सह शय्या ॥ २१ ॥ यावत्सन्निपातमेव दम्पत्योस्सह शयनम् ॥ २१ ॥ ततो नाना ॥ २२ ॥ ततः पृथक्शयीयाताम् ॥ २२ ॥ उदकोपस्पर्शनम् ॥ २३ ॥ ततो द्वयोरप्युदकोपस्पर्शनं स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां श्रीहरदत्तविरचितायां द्वितीयप्रश्ने प्रथमा कण्डिका ॥ १॥ १. बौ. ध २. २. ३६. द्रष्टव्यम् । २. तै सं. २. ५ १. यावत्प्रसूति संभोगं प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रात् प्रार्थितो वर ।

गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८३ अपि वा लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १ ॥ अपि वा रेतसो रजसश्च ये लेपास्तानद्भिर्मृदा च प्रक्षाल्याऽऽचम्य अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१)। रुचितो व्यवस्था। याव- ता प्रयतो मन्यते ॥ १ ॥ सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥ सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णां ये स्वधर्मा वर्णप्रयुक्ता आश्रम- प्रयुक्ता उभयप्रयुक्ता वा तेषामवैगुण्यनाऽऽन्तादनुष्ठाने सति परमुत्कृष्टं अपरिमितमक्षयं सुखं स्वर्गाख्यं भवति ॥ २ ॥ न केवलमेतावत् । किं तर्हि ? ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ ३ ॥ ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जातिं ब्राह्मणादिकां विशिष्टे वा कुले जन्म। रूपं कान्तिम्। वर्णं हेमादितुल्यम्। बलं प्रतिपक्षनिग्रहक्षमम् । मेधां(२) ग्रन्थधारणशक्तिम्। प्रज्ञां अर्थधारणशक्तिम्। द्रव्याणि स्वर्णादीनि । धर्मानुष्ठानम् इतिकरणाद्यच्चाऽन्यदेवं युक्तं तत्सर्वं प्रतिपद्यते । सर्वत्र धर्मशेषो हेतुः । कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते। ऐहिकस्य शरीरग्रहणादेरपि कर्मफलत्वात्। धर्मानुष्ठानं प्रतिपद्यत इत्युक्तम्। यदा चैवं तदा सर्ववर्णानां स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत् तस्माच्चक्रवदुभयोर्लोकयोरिह चाऽमुष्मिंश्च सुख एव वर्तते न जातु चित् दुःख वर्तते । सुखानुबन्धेनैवाऽऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥ शरीरोत्पत्तिसंस्कारा(३)अप्यावश्यका इति दर्शयितुं दृष्टान्तमाह-- यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ॥ ४ ॥ चलोपोऽत्र द्रष्टव्यः । यथा चौषधीनां व्रीह्यादीनां वनस्पतीनां चा- १ इदममृतुकाले इत्यधिकं ख.च पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र । २ मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु । ३ अप्यवश्यापेक्ष्या. इति. च पु

१८४ आपस्तम्बधर्मसूत्रे [ (प.१)क.२. व्रीह्यादीनां बीजस्य क्षेत्रविशेषे कर्मविशेषे संस्कारविशेषे च क्षेत्रस्य वा कृष्या- दौ कर्मविशेषे फलपरिवृद्धिर्भवति । त एव व्रीह्यादय ऊषरे उप्ता न प्र रोहन्ति । कृष्यादिपरिकर्मिते तु क्षेत्रे उप्ताः स्तम्बकरयो भवन्ति । एवं पुरुषेऽपि गर्भाधानादिसंस्कारसम्पन्ने द्रष्टव्यम् ॥ ४ ॥ एतेन दोषफलपरिवृद्धिरुक्ता ॥ ५ ॥ एतेनैव न्यायेन दुष्टकर्मफलपरिवृद्धिरप्युक्ता वेदितव्या । (१)तत्रोहेन पठ- नीयम्-सर्ववर्णानां स्वधर्माननुष्ठाने परमपरिमितं दुःखम् । ततः परिवृत्तौ कर्मफलशेषेण दुष्टां जात्यादिकामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिप- द्यते । तच्चक्रवदुभयोर्दुःख एव वर्तते । यथौषधिवनस्पतीनां बीज- स्य क्षेत्रकर्मविशेषाभावे फलहानिरेवमिति ॥ ५ ॥ दोषफलपरिवृद्धावुदाहरणमाह-- स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मि ँल्लोकेऽपरिमिते निरये वृत्ते जायते चण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ॥ ६ ॥ स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽभिशस्तो वा ब्राह्मणादिर- मुष्मिंल्लोकेऽपारिमने निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीणे ब्राह्म- णश्चण्डालो जायते। शूद्रात् ब्राह्मण्यां जातश्चण्डालः, राजन्यः, पौल्कसः । शूद्रा- त्क्षत्रियायां जातः पुल्कसः । स एव पौल्कसः । प्रज्ञादित्वादण् । वैश्यो, वैणो जायते(२) वेणुना नर्तको वैणः ॥ ६ ॥ एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥ वर्णपरिध्वंसा वर्णेभ्यः प्रच्यवनं तस्यां वर्णपरिध्वंसायाम् । यथा ब्राह्म- णादयश्चण्डालाद्या जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु सूकरादिषु, योनिषु जायन्ते । परिध्वंसाः स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽवगन्तव्या इति ॥ ७ ॥ यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ॥ ८ ॥ १. तत्रोक्त व्यत्ययेन पठनीयम् । इति. घ. पु. २. वेणुर्नर्तकः स एव वैणः । इति. घ पु.

गृहस्थधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १८५ चण्डालोपस्पर्शने दोषो भवति । तथा सम्भाषाया दर्शने च । उपसम- स्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते ॥८॥ अवगाहनमपामुपस्पर्शने ॥९॥ सम्भाषायां ब्राह्मणस- म्भाषा ॥ १० ॥ दर्शने ज्योतिषां दर्शनम् ॥ ११ ॥ उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम् । ऋजुनी उत्तरे द्वे सूत्रे । अस्मिन् कर्मप्रशंसाप्रकरणे प्रायश्चित्ताभिधानं स्वकर्मच्युतानां निन्दार्थम् । एवं- नाम निन्दितश्चण्डालः यस्य दर्शनेऽपि प्रायश्चित्तं स एव जायते स्व- कर्मच्युतो ब्राह्मण इति ॥ ९–११ ॥ इत्यास्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां द्वितीयप्रश्ने द्वितीया कण्डिका ॥ २ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने प्रथमः पटलः ॥ १ ॥ आप० ध० २४

अथ द्वितीयः पटलः ॥ आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः ॥ १ ॥ आर्यास्त्रैवर्णिकाः । 'आर्याधिष्ठिता वा शूद्रा' (२.३,४) इत्युत्तरत्र दर्श- ातू । प्रयताः स्नानादिना शुद्धाः । वैश्वदेवे गृहमेधिनोभोजनार्थे पाके । 'गृहमेधिनो यदशनीयस्ये' (३-१२) ति दर्शनात् । अन्नसंस्कर्तार स्युः । अन्नं भक्ष्यभोज्यपेयादिकं तत् संस्कुर्युः । न स्वयं, नाऽपि स्त्रियः ॥ १ ॥ भाषां कासं क्षवधुमित्यभिमुखोऽन्नं वर्जयेत् ॥ २ ॥ भाषा शब्दोच्चारणम् । कासः कण्ठे घुरुघुराशब्दः । क्षवथुः क्षुतम् । एतत्त्रितयमन्नाभिमुखो न कुर्यात् । 'संस्कर्तारः स्यु'रिति बहुवचने प्र- कृते 'वर्जये'दित्येकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥ केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥ ३ ॥ केशादीनात्मीयानन्यदीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेदं स्नानम् । किं तर्हि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि तम् । इद तु तत्रोक्तं वैकल्पिकं शकृदाद्युपस्पर्शनं मा भूदिति ॥ ३ ॥ आर्याधिष्ठिता वा शूद्रास्संस्कर्तारः स्युः ॥ ४ ॥ त्रैवर्णिकैरधिष्ठिता वा शूद्रास्संस्कर्तार स्युः । प्रकरणादन्नस्येति गम्यते ॥४॥ तेषां स एवाऽऽचमनकल्पः ॥ ५ ॥ तेषां शूद्राणामन्नसंस्कारे ऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः, यस्याऽन्नं पचन्ति । यदि ब्राह्मणम्य, हृदयङ्गमाभिरद्भिः । यदि क्षत्रि- यस्य, कण्ठगाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियोपस्पर्शनं च भवति ॥ ५ ॥ अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥ ६ ॥ शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इदमेषामधिकमार्येभ्यः ॥६॥ उदकोपस्पर्शनं च सह वाससा ॥ ७ ॥ सहैव वाससा स्नानं कुर्युः । आर्याणां तु परिहितं वासो निधाय कौ पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । त-

वैश्वदेवम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८७ था च मनुः- (१)'न वासोभिस्सहाऽज्जं नाऽविज्ञाते जलाशये ।' इति ॥ ७ ॥ अपि वाऽष्टमीष्वेव पर्वसु वा वपेरन् ॥ ८ ॥ यदि वाऽष्टमीष्वेव वपेरन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । 'वपेर'न्निति अन्तर्भावितण्यर्थः । वापयेरन्नित्यर्थः । तथा च 'लोमनखवापन'मिति पूर्वत्र णिच्प्रयुक्तः ॥ ८ ॥ परोक्षमन्नं संस्कृतमग्नावधिश्रित्याऽद्भिः प्रोक्षेत्त- द्वेवपवित्रमित्याचक्षते ॥ ९ ॥ यदि शूद्राः परोक्षमन्नं संस्कुर्युः आर्यैरनधिष्ठिताः । तदा तत्परोक्षमन्न संस्कृत स्वयमग्नावधिश्रयेत् । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्नं देवपवित्र- मित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति ॥ ९ ॥ सिद्धेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात् ॥ १० ॥ सिद्धे पक्वेऽन्ने तिष्ठन् पाचकोऽधिष्ठाता वा भूतमिति प्रब्रूयात् । कस्मै ? य- स्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥ १० ॥ तत्सुभूतं विराडन्नं तन्मा क्षायीति प्रतिवचनः ॥ ११ ॥ तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः । तदन्नं सुभूतं सुनिष्पन्नम् । विराट् विराजः साधनम् । अन्नमशनम् । तन्न मा क्षायि क्षीणं मा भू- दित्यर्थः ॥ ११ ॥ गृहमेधिनो यदशनीयं तस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः ॥ १२ ॥ गृहमेधिनो यदशनीय पकमन्नं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२ ॥ तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ॥ १३ ॥ तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे । उपयोगो नियम- पूर्वकं विद्याग्रहणम्(२) । तत्र द्वादशाहमधश्शय्या स्थण्डिलशायित्वम् । ब्रह्म १. म. स्मृ. ४. १२९ २. तथा च बौधायनः-'तेषां ग्रहणे द्वादशरात्र' मित्यादि इत्याधिकं ख. पुस्तके ।

१८८ आपस्तम्बधर्मसूत्रे [ (प.२.) क.३. चर्ये मैथुनवर्जनम् । (१)क्षारलवणवर्जनं च भवति । उपयोक्तुरेव व्रतम्, अध्ययनाङ्गत्वात् । अन्ये तु पत्न्या अपीच्छन्ति । उपयोगः प्रथमयोगः तत्र च पत्न्या अपि सहाऽधिकार इति वदन्तः ॥ १३ ॥ उत्तमस्यैकारात्रमुपवासः ॥ १४ ॥ उत्तमस्य 'उत्तमेन वैहायस(२.४.८.) मिति वक्ष्यमाणस्य(२) 'ये भूताः प्रचरन्ती'त्यस्य एकरात्रमुपवासः कर्तव्यः ॥ १४ ॥ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्याऽऽवो- क्ष्य न्युप्य पश्चात्परिषेचनम् ॥ १५ ॥ बलीना मध्ये तस्यतस्य बलेर्देशे सस्कारः कर्तव्यः । कः पुनरसौ ? हस्तेन परिमार्जनमवोक्षणं च । तं कृत्वा बलिं निवपति । न्युप्य पश्चात् परिषेचनं कर्तव्यम् । उपदेशक्रमादेव सिद्धे पश्चाद्ग्रहणं मध्ये गन्धमाल्यादिदाना- र्थमित्याहुः । 'तस्यतस्ये'ति वचनं सत्यपि सम्भवे सकृदेव परिमार्ज- नमवोक्षणं च मा भूत् । एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति ॥ १५ ॥ औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् ॥ १६ ॥ यत्र पच्यते स पचनोऽग्निः । औपासनवतामौपासने, विधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु-तुल्यविकल्पं मन्यन्ते । षड्भिराद्यैः (३)‘अग्नये स्वाहा, सोमाय स्वाहा, विश्वेभ्यो देवेभ्यस्स्वाहा, ध्रुवाय भौमाय स्वाहा, ध्रुवक्षितये स्वाहा, अच्युतक्षितये स्वाहेत्येतैः । एते हि मन्त्रपाठे पठिताः प्राग्विवाहमन्रेभ्यः विशिष्टनियमसापेक्षग्रहणत्वात्तै- स्सह न गृह्यन्ते । केचित् सौविष्टकृतमपि सप्तमं जुह्वति 'अग्नये स्विष्ट कृते स्वाहे'ति ओषधहविष्केषु तस्य सर्वत्र प्रवृत्तिरिति वदन्तः । अन्ये तु सोमाय स्वाहेति न पठन्ति । सौविष्टकृतं षष्ठं पठन्ति । हस्तग्रहणं दर्व्यादिनिवृत्त्यर्थम् ॥ १६ ॥ १. क्षारपदार्थः आप. ध २. १५. १४ सूत्रे द्रष्टव्यः । २. ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु ॥ इति मन्त्रः । ( तै. आ १०. ६७. ) ३. आप मन्त्रप्रश्ने. १. १.

वैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८९ उभयतः परिषेचनं यथा पुरस्तात् ॥ १७ ॥ उभयतः पुरस्तादुपरिष्टाच्च परिषेचनं कर्तव्यम् । कथम् ? यथा पुरस्तात् उक्तं गृह्ये(१) 'आदितेऽनुमन्यस्वे'त्यादि, 'अन्वमँस्थाः प्रासावीदिति मन्त्र- सन्नाम' इति च । सामयाचारि‍केषु पार्वणातिदेशो न प्रवर्तत इति ज्ञापितत्वादप्राप्तविधिरयम् । अन्ये तु परिसङ्ख्यां मन्यन्ते-परिषेचन- मेव वैश्वदेवे, नान्यत्तन्त्रमिति ॥ १८ ॥ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् ॥ १८ ॥ यथा षण्णामाहुतीनां परिषेचनं तन्त्रम् , विभवात् । एवं बलयो- ऽपि ये एकस्मिन् देशे समवेता 'उत्तरैर्ब्रह्मसदन' (४.२.४) इत्यादयस्तेषां यदन्ते परिषेचनं प्राप्तं 'पश्चात्परिषेचन' मित्यनेन विहितं तत्सर्वान्ते सकृत्कर्तव्यम्, न प्रत्येकं पृथगिति । असत्यस्मिन् सूत्रे पूर्वत्र 'तस्य तस्ये' ति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येक पृथक्पृथग्भवति तथा परिषेचनमपि स्यात् । अत्र चोपदेशादेव य एकदेशस्था बलयस्तेषामेव सकृदन्ते परिषेचनं, न यादृच्छिकसमवेतानाम् । तेन यद्यप्यगारस्योत्त- रपूर्वदेशश्शय्यादेशः, तथापि कामलिङ्गस्य पृथक्परिषेचनं भवति ॥१८॥ सति सूपसंसृष्टेन कार्याः ॥ १९ ॥ सति सूपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्यैरपि व्यञ्जनैस्संसर्ग- मिच्छन्ति । तथा च बोधायन.-(२) 'काममितरेष्वायतने'ष्विति । एष एव व्यञ्जनानां संस्कार. । ३) सूत्रस्यापि—व्यञ्जनैस्सुष्ठुरसंसृष्टेनाऽन्नेन बलयः कार्यास्सति सम्भव इत्यर्थः इति ॥ १९ ॥ अपरेणाऽग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ॥ २० ॥ अपरेणाऽग्निमग्नेः पश्चात् । सप्तमाष्टमाभ्या 'धर्माय स्वाहा, अधर्माय स्वाहे' त्येताभ्यां बलिहरणं कर्तव्यम् । उदगपवर्गम् । न प्रागपवर्गम् ॥ २० ॥ उदधानसन्निधौ नवमेन ॥ २१ ॥ उदकं यत्र धीयते तदुदधानं(४) मणिकाख्यम् । तस्य सन्निधौ नवमेन १. आप गृ. २. ३. २. बौ. गृ. १. ८. १. ३. सूपस्यापि । व्यञ्जनैरपूपेन च संसृष्टेन बलय इति. क. छ. पु. ४. अस्य विधिर्गृह्ये वास्तुनिर्माणविधौ ( आप गृ १७. ९ ) द्रष्टव्यः ।

१९० आपस्तम्बधर्मसूत्रे [ (प्र.२.) क. ४. 'अद्भ्यः स्वाहे'त्यनेन ॥ २१ ॥ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ॥ २२ ॥ दशमैकादशाभ्यां 'ओषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यः स्वा- हे'त्येताभ्यां अगारस्य मध्ये प्रागपवर्गं कर्तव्यम् ॥ २२ ॥ उत्तरपूर्वे देशेऽगारस्योत्तरैश्चतुर्भिः ॥ २३ ॥ अगारस्य य उत्तरपूर्वो देशस्तत्रोत्तरैश्चतुर्भिः 'गृहाभ्यः स्वाहा, अवसा- नेभ्यः स्वाहा, अवसानपतिभ्यः स्वाहा, सर्वभूतेभ्यः स्वाहे'त्येतैः प्रागपवर्गमित्येव ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने तृतीया कण्डिका ॥३॥ शय्यादेशे कामलिङ्गेन ॥ १ ॥ शय्यादेशे 'कामाय स्वाहे'त्यनेन ॥ १ ॥ (१)देहल्यामन्तरिक्षलिङ्गेन ॥ २ ॥ देहली द्वारस्याऽधस्ताद्दारु । तस्याऽधोवेदिकेत्यन्ये । अन्तर्द्वा- रस्य च ग्रहणम् । तत्राऽन्तरिक्षलिङ्गेन 'अन्तरिक्षाय स्वाहे'त्यनेन ॥ २ ॥ उत्तरेणाऽपिधान्याम् ॥ ३॥ येनाऽपिधीयते द्वारं साऽपिधानी कवाटम् । तदर्गलमित्यन्ये । तत्रोत्त- रेण मन्त्रेण 'यदेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाम्ने स्वा- हे'त्यनेन ॥ ३ ॥ उत्तरैर्ब्रह्मसदने ॥ ४ ॥ अगारस्येत्यनुवृत्तेः तत्र यो ब्रह्मसदनाख्यो देशः वास्तुविद्याप्रसिद्धो (२)मध्येऽगारस्य । तत्रोत्तरैर्दशभिः 'पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा, दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा, इन्द्राय स्वाहा, बृहस्पतये स्वाहा, प्रजापतये स्वाहा, ब्रह्मणे स्वाहे'त्येतैः प्राग पवर्गमित्येव । १. देहिन्यामिति पाठः क. पुस्तके । २. मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके ।

वैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९१ अपर आह—ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्दक्षिणतो ब्रह्मसदनं तन्नेति ॥ ४ ॥ दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीन- पाणिः कुर्यात् ॥ ५ ॥ अनन्तराणां बलीनां दक्षिणत पितृलिङ्गेन ‘स्वधा पितृभ्य’ इत्यनेन बलिं कुर्यात्, प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणं पाणिमुत्तानं कृत्वा अङ्गुष्ठत- र्जन्योरन्तरालेन ॥ ५ ॥ रौद्र उत्तरो यथा देवताभ्यः ॥ ६ ॥ पितृबलेरुत्तरतो रौद्रबलिः कर्तव्यः । यथा देवताभ्य तथा, प्राचीनावीत्य- वाचीनपाणिरिति नाऽनुवर्तत इत्यर्थः । ‘नमो रुद्राय पशुपतये स्वाहे’ति मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषण मिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायेत्येव कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु-उत्तरो मन्त्रो रौद्रः न पशु- पतिदैवत्य इत्याचक्षते । तेषां देशः प्राग्वोदग्वा पिण्डात् ॥ ६ ॥ तयोर्नाना परिषेचनं धर्मभेदात् ॥ ७ ॥ तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतयोरपि नाना पृथक् परिषेचनं कर्त्तव्यम् । कुतः ? धर्मभेदात् । पित्र्यस्याऽप्रदक्षिणं परिषेचनं कर्तव्यम् । इतरस्य दैवत्वात्प्रदक्षिणमिति ॥ ७ ॥ नक्तमेवोत्तमेन वैहायसम् ॥ ८ ॥ उत्तमेन ‘ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहे’(१) त्यनेन वैहायसं बलिं दद्यात् । तच्च नक्तमेव । ‘वैहायसमि’ति वचनादा काश एव बलिरुत्क्षेप्यः, न छदिष्कृते देशे । तथाच बौधायनः- (२)‘अथाऽऽकाश उत्क्षिपति ये भूताः प्रचरन्ती’ति । अपर आह—एवकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र ब ल्यन्तराणां रात्रौ निवृत्तिः । अन्ये तु-ऊहेन दिवा बलिं हरन्ति ‘दिवा १ अत्र “अग्नये स्वाहा” इत्यादिका. ‘ये भूताः प्रचरन्ति’ इत्यन्ता. मन्त्राः एका- ग्निकाण्डाख्यतैत्तिरीयमन्त्रपाठस्याऽऽदौ महानारायणोपनिषदि च पठिताः । (महाना.६७) २. बौ. गृ. १. ८.

२९ आपस्तम्बधर्मसूत्रे [ (१२.) क. ४. ष्टमिच्छन्त' इति । आश्वलायनके तथा दर्शनात् (१)'दिवाचारिभ्य ने दिवा । नक्तंञ्चारिभ्य इति (बलिमाकाशे उत्क्षिपे)न्नक्त'मिति । तथा मनुः— (२)'दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ।' इति ॥ ८ ॥ एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ॥९॥ य एताननन्तरोक्तान् होमान् बलींश्च । अव्यग्र समाहितमना भूत्वा ोपदेशमुपदेशानतिक्रमेण कुरुते । य इति वचनात्तस्येति पूर्वं म्ब्यते । तस्य नित्यः स्वर्गः पुष्टिश्च 'स्वर्गपुष्टिसयुक्ता' इति यत् पूर्वमुक्त स्याऽर्थवादताशङ्का मा भूदिति पुनर्वचनम् । पुष्टिस्वर्गौ नित्यावेव भ तः, न प्रबलैरपि कर्मान्तरैर्बाधनमात ॥ ९ ॥ अग्रं च देयम् ॥ १० ॥ बलिहरणानन्तरं अग्रं च देयं भिक्षवे ॥ १० ॥ अतिथीनेवाऽग्रे भोजयेत् ॥ ११ ॥ अतिथीन्वक्ष्यति । तानेवाग्रे भोजयेत् न स्वयं सह भुञ्जीत पूर्वं वा । एव- मतिथिव्यतिरिक्तानन्यानपि भोजयितव्यान पश्चादेव भोजयेत् ॥ ११ ॥ बालान्वृद्धाञ्रोगसम्बन्धान्स्त्रीश्चान्तर्वत्नीः ॥ १२ ॥ ये च गृहवर्तिनो बालादयः तानप्यग्र एव भोजयेत् । अन्तर्वत्नीरित्येव सिद्धे स्त्रीग्रहणं स्वस्रादीनामपि ग्रहणार्थम् । अन्तर्वत्नीग्रहणं (३)सर्वत्र पूजार्थम् ॥ १२ ॥ काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् ॥१३॥ काले वैश्वदेवान्ते अन्नार्थमुपस्थितं स्वामिनौ गृहपती न प्रत्याचक्षीयाताम् अवश्यं तस्मै किञ्चिद्देयमिति ॥१३॥ अभावे किं कर्तव्यम् ? तत्राह— (४)अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति ॥ १४ ॥


१. आश्व. गृ. १. २. २. २. म. स्मृ. ३. ९० ३ सर्वपूर्वार्थं इति घ. च. पु. ४. तृणानि भूमिरुदक वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ॥

गृहस्थधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १९३ भूमिरुपवेशनयोग्या । उदकं पादप्रक्षालनादियोग्यम् । तृणानि शयना- सनयोग्यानि । कल्याणी वाक् स्वागतमायुष्मन्ते, इहाऽऽस्यतामित्यादिका । एतानि भूम्यादीनि । सतोऽगारे सतस्सत्पुरुषस्य निर्धनस्याऽपि गृहे कदाचिदपि न क्षीयन्ते । वैशब्दः प्रसिद्धौ । अत एव तैरुपचारः कर्तव्यः । इतिशब्द- प्रयोगादेवं धर्मज्ञा उपदिशन्तीति ॥ १४ ॥ एवंवृत्तावनन्तलोकौ भवतः ॥ १५ ॥ यौ गृहमेधिनौ विवाहादारभ्य आन्तादेवंवृत्तौ भवतः तयोरनन्ता लोका भवन्ति । ज्योतिष्टोमादिभ्योऽपि कतिपयदिनसाध्येभ्यो दुष्करमेतदा- न्ताद्व्रतम् ॥ १५ ॥ ब्राह्मणायाऽनधीयानायाऽऽसनमुदकमन्नमिति देयं न प्रत्युत्तिष्ठेत् ॥ १६ ॥ यद्यनधीयानो ब्राह्मणोऽतिथिधर्मेणाऽऽगच्छेत् तदा तस्मै आसनादिकं देयम् । प्रत्युत्थानं तु न कर्तव्यम् । अस्मादेव ज्ञायते-अधीयाने प्रत्यु- त्थेयमिति ॥ १६ ॥ अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् ॥ १७ ॥ यदि पुनरसौ अनधीयानोऽपि 'दशवर्षं पौरसख्यं' (१. १४. १२.) मित्यादिना ऽभिवाद्यो भवति तदा अभिवादनायैवोत्तिष्ठेत् ॥ १७ ॥ राजन्यवैश्यौ च ॥ १८ ॥ अधीयानावपि राजन्यवैश्यौ न प्रत्युत्तिष्ठेत् ब्राह्मणः । आसनादिकं तु देयमिति ॥ १८ ॥ (१)शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् ॥ १९ ॥ यदि शूद्रो द्विजाति प्रत्यातिथिरागच्छति तदा तमुदकाहरणादौ कर्मणि नियुञ्ज्यात् नियुञ्जीत ॥ १९ ॥ अथाऽस्मै दद्यात् ॥ २० ॥ अथ तस्मिन् कृते भोजनं दद्यात् ॥ २० ॥ दासा वा राजकुलादाहृत्या ऽतिथिबच्च्छूद्रं पूजयेयुः ॥२१॥ अथवा येऽस्य गृहमेधिनो दासाः ते राजकुलादाहृत्य तं शूद्रमतिथिवत्पूज- १ इदमग्रिम च सूत्रमेकीकृतं घ. पुस्तके । आप० ध० २५

येयुः । अत एव ज्ञायते-शूद्राणामतिथीनां पूजार्थं व्रीह्यादिकं राज्ञा ग्रामे ग्रामे स्थापयितव्यमिति ॥ २१ ॥ नित्यमुत्तरं वासः कार्यम् ॥ २२ ॥ उपासने गुरूणा' (१-१५-१) मित्यादिना केषुचित्कालेषु यज्ञोपवीतं विहितम् । इह तु प्रकरणात् गृहस्थस्य नित्यमुत्तरं वासो धार्यमित्युच्यते ॥ अपि वा सूत्रमेवोपवीतार्थे ॥ २३ ॥ अपि वा सूत्रमेव सर्वेषामुपवीतकृत्ये भवति, न वास एवेति नियमः । तथा च मनुः - (१) कार्पास मुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृ'दिति(२) ॥ २३ ॥ यत्र भुज्यते तत्समूह्य निर्हृत्याऽवोक्ष्य तं देशमम- त्रेभ्यो लेपान् सङ्‌कृष्याऽद्भिः संमृज्योत्तरतः शुचौ देशे रुद्राय निनयेदेवं वास्तु शिवं भवति ॥ २४ ॥ यत्र स्थाने भुज्यते तत् समूह्य समूहन्या तत्रत्यमुच्छिष्टादिकं राशी- कृत्य निर्हरेदन्यतः । निर्हृत्य तं देशमवोक्षेत् । अवोक्ष्य ततोऽमत्रेभ्यः येषु पाकः कृतः तान्य मत्राणि तेभ्योऽन्नलेपान् व्यञ्जनलेपांश्च संकृष्य काष्ठादि- नाऽवकृष्य अद्भिस्संसृजेत् । संसृज्य गृहस्योत्तरतः शुचौ देशे रुद्रा- येदमस्त्वि'ति निनयेत् । एव कृते वास्तु शिवं समृद्धं भवतीति ॥ २४ ॥ ब्राह्मण आचार्यः स्मर्यते तु ॥ २५ ॥ तुशब्दोऽवधारणार्थो भिन्नक्रमश्च । ब्राह्मण एव सर्वेषामाचार्यः स्म- र्यते धर्मशास्त्रेषु । इहाऽपि वक्ष्यति 'स्वकर्म ब्राह्मणस्ये' (२.१०.४.) त्यादि । अनुवादोऽयमापदि कल्पान्तरं वक्तुम् ॥ २५ ॥ तदाह— आपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनम् ॥ २६ ॥ कर्तव्यमित्यध्याहार्यम् । ब्राह्मणस्याऽध्यापयितुरलाभ आपत् । तत्रा- ऽऽपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनं कर्तव्यम् । न त्वनधीयानेन स्थातव्य- म् । 'ब्राह्मणेने'ति वचनाद्राजन्यवैश्ययोर्नाऽयमनुकल्पः ॥ २६ ॥ १. म. स्मृ. २. ४४. २. एतदनन्तर बौधायनस्तु — कौशं सूत्रं वा त्रिवृद्यज्ञोपवीतम् इति, (१. ८. ५) इत्यधिकः पाठः च. पु. ।

गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९५ अनुगमनं च पश्चात् ॥ २७ ॥ अनुगमनं च पृष्ठतः कर्तव्यं यावदध्ययनम् । पश्चाद्ग्रहणं लज्जा- दिना कियत्यपि पार्श्वे गतिर्मा भूदिति । सर्वशुश्रूषाप्रसङ्गे नियमः- ब्राह्मणस्याऽनुगमनमेव शुश्रूषेति । तथा च गौतमः-(१)'अनुगमनं शुश्रूषे'ति ॥ २७ ॥ तत ऊर्ध्वं ब्राह्मण एवाऽग्रे गतौ स्यात् ॥ २८ ॥ ततोऽध्ययनादूर्ध्वं समाप्तेऽध्ययने ब्राह्मण एवाग्रतो गच्छेत् ॥ २८ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां द्वितीयप्रश्ने चतुर्थी कण्डिका ॥४॥

सर्वविद्यानामप्युपनिषदामुपाकृत्याऽनध्ययनं तदहः ॥१॥ कर्मणि षष्ठी । सर्वविद्या अङ्गविद्या अप्युपनिषद उपाकृत्याध्येतुमारभ्य तदहरनध्ययनं तस्मिन्नहन्यध्ययनं न कर्तव्यम् । उपनिषद्ग्रहणं प्राधान्य- ख्यापनार्थम् । ब्राह्मणा आयाता, वसिष्ठोऽप्यायात इतिवत् ॥ १ ॥ अधीत्य चाऽविप्रक्रमणं सद्यः ॥ २ ॥ अधीत्य(२) 'वेदमधीत्य स्नास्य' न्नित्यवसरे आचार्यसकाशात् सद्यो ऽविप्रक्रमणं न कर्तव्यं नाऽपगन्तव्यम् । प्रायेण मकारात्परमिकारमधीयते । तत्राप्येष एवार्थः । इकारस्तु छान्दसोऽपपाठो वा(३) ॥ २ ॥ यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेद्वेवमुभयोः शिवं भवति ॥ ३ ॥ यदि कार्यवशात् गन्तुं त्वरेत तदा गुरोराचार्यस्य समीक्षायां सन्दर्शने संश्रये स्वाध्यायं प्रश्नावमधीत्य यथाकामं गच्छेत् । एव कृते उभयोः शिष्या- चार्ययोः शिवं भवतीति ॥ ३ ॥ समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्य त- स्योपसङ्गृह्य न बीभत्समान उदकमुपस्पृशेत् पुरस्कृ- त्योपस्थाप्य यथोपदेशं पूजयेत् ॥ ४ ॥ १. गौ. ध. ७. २. २. आप. गृ. १२. १. ३. एतदनन्तरं 'उपाकरणात् परमित्यन्ये' इति क. पुस्तकेऽधिकः पाठः ।

समावृत्तं चेत् शिष्यं कृतदारमाचार्योऽभ्यागच्छेत् अतिथधर्मेण । तम- भिमुखोऽभ्यागम्य । तस्योपसंगृह्य । कर्माणि षष्ठी । तमुपसंगृह्य । यद्यपि तस्य चण्डालादिस्पर्शः सम्भाव्यते, तथापि न बीभत्समान उदकमुपस्पृशेत् न स्नायात् । उपसंग्रहणे वा धूलिधूसरौ पादौ स्पृष्ट्वा न बीभत्समान उद- कमुपस्पृशेत् । ततस्त पुरस्कृत्य गृहप्रवेशे अग्रे कृत्वा । पूजासाधनान्यु- पस्थाप्य यथोपदेश गृह्योक्तेन मार्गेण मधुपर्केण पूजयेत् । पूजाविधानं गृह्यो- क्तस्याऽयमनुवाद आसनादिषु विशेष वक्तुम् ॥ ४ ॥ तमाह— आसने शयने भक्ष्ये भोज्ये वाससि वा सन्निहिते निहीनतरवृत्तिः स्यात् ॥ ५ ॥ सन्निहिते आचार्ये तस्मिन्नेव गृहे अपवरकादिकं प्रविष्टे आसनादिषु निहीनतरवृत्ति. स्यात् । तरप्निर्देशात् नीच आसने गुणतोऽपि निकृष्ट आ- सीत । एवं शयनादिष्वपि द्रष्टव्यम् ॥ ५ ॥ तिष्ठन् सव्येन पाणिनाऽनुगृह्याऽऽचार्यं(१)माचमयेत् ॥६॥ तिष्ठन्निति प्रह्व उच्यते, स्थानयोगात् । न हि साक्षात्तिष्ठन्नाचमयितुं प्रभवति । सव्येन पाणिना करकादिकमनुगृह्याऽधस्तादङ्गृहीत्वा इतरेण द्वारमवमृश्येत्यर्थासिद्धत्वादनुक्तम् । एवं कृत्वाऽऽचार्यमाचमयेत् स्वयमेव शिष्यः । एवं हि स(२) सम्मतो भवति । आचार्ये प्रकृते पुनराचार्य- ग्रहणमातिथ्यादन्यत्राप्याचार्यमाचमयेन्नेवमेवाऽऽचमयेदिति ॥ ६ ॥ अन्यं वा समुदेतम् ॥ ७ ॥ वाशब्दः समुच्चये । अन्यमप्येवमेवाचमयेत् । स चेत् समुदेतः कु- लशीलवृत्तविद्यावयोभिरुपेतो भवति ॥ ७ ॥ स्थानासनचंक्रमणस्मितेष्वनुचिकीर्षन् ॥ ८ ॥ व्यवहितमपि स्यादित्यपेक्ष्यते । चिकीर्षया करणं लक्ष्यते । स्था- नादिष्वाचार्यस्य पश्चाद्भावी स्यात् । न पूर्वभावी । न युगपद्भावी ॥ ८ ॥ सन्निहिते मूत्रपुरीषवातकर्मोच्चैर्भाषाहास(३)ष्ठीवनद- न्तश्कवननिःशृङ्गणभ्रूक्षेपणतालनिष्ट्यानीति ॥ ९ ॥ १. आचामयेत इति क. पु. २ धर्मयुत इति. घ पु. धर्मतो भवति. इति.ड.पु. ३ छेबन. इति. क. पु.

गृहस्थधर्मः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९७ वातकर्म अपानवायोरुत्सर्गः । उच्चैर्भाषा महता स्वनेन सम्भाषणं केनाऽपि । हासो हसनम् । ष्ठीवनं श्लेष्मादिनिरसनम् । दन्तस्खलनं दन्तमला- पकर्षणम् । परस्परघट्टनमित्यन्ये । निःशृङ्खणं नासिकामलनिस्सारणम् । भ्रूक्षेपणं भ्रूविक्षेपः । छान्दसो ह्रस्वः । तालनं हस्तयोरास्फालनम् । निष्प्य- मङ्गुलिस्फोटनम् । इतिशब्दादन्यदपि स्वैरासनादिकम् । वर्जयेदित्यपे- क्ष्यते । एतानि मूत्रकर्मादीन्याचार्यस्य सन्निधौ न कुर्यादिति ॥ ९ ॥ दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् ॥ १० ॥ उपस्पर्शनमालिङ्गनाघ्राणादि । भाषाः सम्भाषाश्चाटुपभृतयः । एता अप्याचार्ये सन्निहिते(१) दारप्रजाविषये विस्रब्धं न कुर्यात् । ज्वरा- दिपरीक्षायां न दोषः ॥ १० ॥ वाक्येन वाक्यस्य प्रतिघातमाचार्यस्य वर्जयेच्छ्रे- यसां च ॥ ११ ॥ आचार्यवाक्यस्य समीचीनस्येतरस्य वा आत्मीयेन वाक्येन तादृशेन प्रतिघातं न कुर्यात् । श्रेयसां च अन्येषामपि प्रशस्ततराणां वाक्यं वाक्येन न प्रतिहन्यात् ॥ ११ ॥ सर्वभूतपरीवादाक्रोशांश्च ॥ १२ ॥ सर्वेषां भूतानां तिरश्चामपि । परीवादान् दोषवादान् । आक्रोशान् अश्लीलवादांश्च वर्जयेत् । परीवादस्य पुनःपुनर्वचनमतिशयेन व- र्जनार्थम् ॥ १२ ॥ विद्यया च विद्यानाम् ॥ १३ ॥ विद्यया च विद्यानां परीवादाक्रोशान् वर्जयेत् । ऋग्वेद एव श्रो- त्रसुखः, अन्ये श्रवणकटुका इति परीवादाः । तैत्तिरीयकमुच्छिष्टशाखा, (२)याज्ञवल्क्यादीनि ब्राह्मणानीदानीन्तनानि इत्याद्याक्रोश ॥ १३ ॥ यथा विद्यया न विरोचेत पुनराचार्यमुपेत्य निय- मेन साधयेत् ॥ १४ ॥ १. 'दारे प्रजाविषयेऽपि' इति क. छ पु. २. याज्ञवल्क्यादि ब्राह्मणानीदानीन्तनम् इति. क. छ. पु.

१९८ आपस्तम्बधर्मसूत्रे [ (प.२.) क. ५. यया विद्ययाऽधीतया श्रुतया वा न विरोचेत न यशस्वी स्यात्, तामित्थर्था- दूभ्यते । तां विद्यां पुनस्साधयेत् । यथा सम्यक् सिद्धा भवति तथा कु- र्यात् । कथम् ? आचार्यं तमेवा(१)न्य वा उपेत्य उपसद्य । नियमेनाऽपूर्वा- धिगमे विद्यार्थस्य यो नियम उक्तः तेन शुश्रूषादिना ॥ १४ ॥ अस्मिन्विषयेऽध्यापयितुर्नियमः— उपाकरणाद्योत्सर्जनादध्यापयितुर्नियमो लोमसंहरणं मांसं श्राद्धं मैथुनमिति वर्जयेत् ॥ १५ ॥ लोमसंहरणं लोमवापनम् । इदमनाहिताग्निविषयम् । आहिताग्नेस्तु '(२)अप्यहपशो लोमानि वापयत इति वाजसनेयकम्' इति ॥ १५ ॥ ऋत्व्ये वा जायाम् ॥ १६ ॥ ऋतुकाले वा जायामुपेयात् । स्त्रीणामृतुदिनानि षोडश । तत्र भवः काल ऋत्व्यः। (३)भवे छन्दसीति यत्प्रत्यये(४) 'ऋत्व्यवास्त्व्ये'ति सूत्रेण यणादेशो निपातितः । ऋत्व्य इति रूपसिद्धिः । अत्र यलोपश्छान्दसः । चातुर्मास्येषु प्रयुक्तम्-(५)'ऋ वे वा जायाम्, नोपर्यास्ते' इति यथा॥१६॥ यथागमं शिष्येभ्यो विद्यासम्प्रदाने नियमैषु च युक्तः स्यादेवं वर्तमानःपूर्वापरान् सम्बन्धा- नात्मानं च क्षेमे युनक्ति ॥ १७ ॥ येन प्रकारेणाऽऽगमः पाठार्थयोः तथैव शिष्येभ्यो निर्मत्सरेण विद्या सम्प्रदेयां । एवंभूते विद्यासम्प्रदाने युक्तो (६)वहितः स्यात् । ये च गृहस्थस्य नियमोऽध्यापने ऽन्यत्र च, तेष्वपि युक्तः स्यात् । एव युक्तो वर्तमानः पूर्वान् पितृपितामहप्रपितामहान् । अपरांश्च पुत्रपौत्रनप्तॄन् । सम्बन्धान् । कर्मणि घञ् । सम्बन्धिनः पुरुषान् । आत्मान च क्षेमे अभये स्थाने नाक- स्य पृष्ठे । युनक्ति स्थापयति ॥ १७ ॥ मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्छि- श्नोदरारम्भणानात्मानं परीप्सुञ्ज्ञानोऽमृतत्वाय कल्पते ॥ १८ ॥ १. अन्य वा इति नास्ति च. पु. २. आप. श्रौ. ४. १. ५. ३. पा. सू. ४. ४. ११०. ४. पा. सू. ६. १. १७५. ५. आप श्रौ. ८. ४. ६, ७. ६. विहितः इति क. ड. पु. ।

गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। १९९ यैः पुरुष आस्राव्यते बहिराकृष्यते। ते आस्रावाः शब्दादयो विष- याः। ते विशेष्यन्ते त्वक्शिश्नोदरारम्भणान् आरभ्यन्ते(१) आलम्ब्यन्त इत्यार- म्भणाः। तत्र त्वगालम्बनाः स्रक्चन्दनादयः। शिश्नालम्बनाः ऋत्युपभो- गादयः। उदरालम्बना (२) भक्ष्यभोज्यादयः। उपलक्षणं त्वगादिग्रहणम्। एवंभूतानास्रावान् मनआदिभिः पञ्चभिरिन्द्रियैः परिव्रज्ञान्ससर्वतो वर्ज- यन् अमृतत्वाय मोक्षाय कल्पते। तत्र वागिति रसनेन्द्रियमाह। घ्राण इति घ्राणम् ॥ १८ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चमी कण्डिका ॥ ५ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने द्वितीयः पटलः ॥ २ ॥ १. आलभ्यन्ते इति क. पु. २. अभक्ष्या अभोज्यादयः इति. क. च. पु.

अथ तृतीयः पटलः ॥ जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जा- तिमाचारं च पृच्छेत् ॥ १ ॥ अविज्ञातपूर्वो यो धर्मार्थमध्ययनार्थमागच्छेत् उपसीदेत् 'उपसन्नोऽ- स्मि भगवन्, मैत्रेण चक्षुषा पश्य, शिवेन मनसाऽनुगृहाण, प्रसीद माम- ध्यापयेति । तस्य जात्याचारसंशये सति । अग्निमुपसमाधाय 'यत्र क्वचाग्नि- मित्याज्येन्दुषदध्या(२.२.१३, १४.)दित्यन्तं कृत्वा । तत्सन्निधौ जाति- माचारं च पृच्छेत्—'किंगोत्रोऽसि सौम्य, किमाचारश्चासीति ॥ १ ॥ साधुतां चेत्प्रतिजानीतेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदि- त्योऽऽनुख्याता साधुतां चेत्प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रति- पद्यते ॥ २ ॥ स चेत्साधुतां प्रतिजानीते-साधुजन्माऽस्मि, अमुष्य पुत्रोऽमुष्य पौत्रोऽमु- ष्य नप्ता, साध्वाचारश्चास्मि, पित्रैवो (१) पानेषि, शिक्षिताचारश्चास्मि, सम्यकचावर्तिषि, विधिबलेन तु बाह्य एव (२) स दिष्टां गतिं गतः, एत- स्मात्केवलमनधीतवेद इति, ततोऽ'ग्निरुपद्रष्टे'त्यादिकं मन्त्रमुक्त्वा शा- स्तुं शासितुमध्यापयितुं धर्मांश्चोपदेष्टु प्रतिपद्येत उपक्रमेत ॥ २ ॥ पञ्चयज्ञान्ते 'अतिथीनेवाग्रे भोजये'दित्युक्तम् । तत्प्रकारं वक्तुं तस्याऽवश्यकर्तव्यतामनेनाऽऽह- अग्निरिव ज्वलन्नतिथिर्अभ्यागच्छति ॥ ३ ॥ अतिथिर्गृहानभ्यागच्छन्नग्निरिव ज्वलन्नभ्यागच्छति । तस्मादसौ भोजना- दिभिरवश्यं तर्पयितव्यः । निराशम्तु गतो गृहान् दहेदिति ॥ ३ ॥ इदानीमतिथिलक्षणं वक्तुं तदुपयोगिश्रोत्रियलक्षणमाह- धर्मेण वेदानामेकैकां शाखामधीत्य श्रो- त्रियो भवति ॥ ४ ॥ विद्यार्थस्य यो नियमः स धर्मः । तेन वेदानां यां काञ्चन शाखाम- १. उपनायिषि. इति. घ. ड. पु. २. सर्वे•••गता इति क. च. पु.

अतिथिपूजा ] उज्ज्वलोपेते प्रथमः प्रश्नः । २०१ धीय श्रोत्रियो भवति। पुरुषस्य हि प्रतिवेदमैकैका शाखा भवति। या पूर्वैः परिगृहीताऽध्ययनानुष्ठानाभ्यां सा प्रतिवेदं स्वशाखा। तामधीत्य श्रोत्रियो भवति, न तु प्रतिवेदमैकेकामधीत्य श्रोत्रियो भवतीति। लोक- विरोधात्। लोके हि यां कांचनैकां शाखामधीयानः श्रोत्रिय इति प्रसिद्धः। अतिथिलक्षणमाह— (१)स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो (२)नाऽन्यप्रयोजनः सोऽतिथिर्भवति ॥ ५ ॥ आदितो यच्छब्दो द्रष्टव्यः। अन्ते स इति दर्शनात्। मध्ये च श्रो- त्रियलक्षणोपदेशात्। तदुपजीवनेन सूत्रं योज्यम्। यः श्रोत्रियः स्वधर्म- युक्तं स्वधर्मनिरतं कुटुम्बिन भार्यया सह वसन्तं गृहस्थम् । आश्रमा- न्तरनिरासार्थमिदमुक्तम् । न हि ते पचमाना भवन्ति । भिक्षवो हि ते । अभ्यागच्छति उद्दिश्याऽऽगच्छति । धर्मपुरस्कारः(३)आचार्याद्यर्थं भिक्षणं धर्मः त पुरस्करोतीति धर्मपुरस्कारः । कर्मण्यण् । धर्मप्रयोजनः नान्यप्र- योजनः। य एवभूत एवभूतमुरुद्दिश्याऽऽगच्छति नान्येच्छया सोऽति- थिरिति । (४)बौधायनमस्तु श्रान्तोऽदृष्टपूर्वः केवलमन्नार्थी नाऽन्यप्रयोजन- स्सोतिथिर्भवति । अथ वा सर्ववर्णानामन्यतमः काले यथोपपन्नः सर्वे- षामतिथीनां श्रेष्ठोऽतिथिर्भवती"ति ॥ ५ ॥ तस्य पूजायां शान्तिः स्वर्गश्च ॥ ६ ॥ तस्यातिथेः पूजायां कृतायां शान्तिरुपद्रवाणामिह भवति । प्रेत्य च स्व- र्गलाभः ॥ ६ ॥ तमभिमुखोऽभ्यागम्य यथावयस्समेत्य तस्या- सनमाहारयेत् ॥ ७ ॥ तमतिथिमभिमुखोऽभ्यागच्छेत् । अभ्यागम्य यथावयः वयसोऽनुरूपं प्र त्युत्थानाभिवादनादिना समेयात् सङ्गच्छेत । समेत्य च तस्यासनमाहारयेत् शिष्यादिभिः । अभावे स्वयमाहरेत् ॥ ७ ॥ शक्तिविषये नाऽबहुपादमासनं भवतीत्येके ॥ ८ ॥ १. एतदादि ११ सूत्रार्थं यावदेकीकृतम् छ. पु २. नात्रप्रयोजनः इति क पु. ३ आचार्यार्थे इति. घ. ड. पु. ४. एतदादि ११ सूत्रे निवेशितं छ. पु. आप० ध० २६