आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 211, कुल 399 में से
संदर्भ में पढ़ेंअथ तृतीयः पटलः ॥ जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जा- तिमाचारं च पृच्छेत् ॥ १ ॥ अविज्ञातपूर्वो यो धर्मार्थमध्ययनार्थमागच्छेत् उपसीदेत् 'उपसन्नोऽ- स्मि भगवन्, मैत्रेण चक्षुषा पश्य, शिवेन मनसाऽनुगृहाण, प्रसीद माम- ध्यापयेति । तस्य जात्याचारसंशये सति । अग्निमुपसमाधाय 'यत्र क्वचाग्नि- मित्याज्येन्दुषदध्या(२.२.१३, १४.)दित्यन्तं कृत्वा । तत्सन्निधौ जाति- माचारं च पृच्छेत्—'किंगोत्रोऽसि सौम्य, किमाचारश्चासीति ॥ १ ॥ साधुतां चेत्प्रतिजानीतेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदि- त्योऽऽनुख्याता साधुतां चेत्प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रति- पद्यते ॥ २ ॥ स चेत्साधुतां प्रतिजानीते-साधुजन्माऽस्मि, अमुष्य पुत्रोऽमुष्य पौत्रोऽमु- ष्य नप्ता, साध्वाचारश्चास्मि, पित्रैवो (१) पानेषि, शिक्षिताचारश्चास्मि, सम्यकचावर्तिषि, विधिबलेन तु बाह्य एव (२) स दिष्टां गतिं गतः, एत- स्मात्केवलमनधीतवेद इति, ततोऽ'ग्निरुपद्रष्टे'त्यादिकं मन्त्रमुक्त्वा शा- स्तुं शासितुमध्यापयितुं धर्मांश्चोपदेष्टु प्रतिपद्येत उपक्रमेत ॥ २ ॥ पञ्चयज्ञान्ते 'अतिथीनेवाग्रे भोजये'दित्युक्तम् । तत्प्रकारं वक्तुं तस्याऽवश्यकर्तव्यतामनेनाऽऽह- अग्निरिव ज्वलन्नतिथिर्अभ्यागच्छति ॥ ३ ॥ अतिथिर्गृहानभ्यागच्छन्नग्निरिव ज्वलन्नभ्यागच्छति । तस्मादसौ भोजना- दिभिरवश्यं तर्पयितव्यः । निराशम्तु गतो गृहान् दहेदिति ॥ ३ ॥ इदानीमतिथिलक्षणं वक्तुं तदुपयोगिश्रोत्रियलक्षणमाह- धर्मेण वेदानामेकैकां शाखामधीत्य श्रो- त्रियो भवति ॥ ४ ॥ विद्यार्थस्य यो नियमः स धर्मः । तेन वेदानां यां काञ्चन शाखाम- १. उपनायिषि. इति. घ. ड. पु. २. सर्वे•••गता इति क. च. पु.