आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 212, कुल 399 में से
संदर्भ में पढ़ेंअतिथिपूजा ] उज्ज्वलोपेते प्रथमः प्रश्नः । २०१ धीय श्रोत्रियो भवति। पुरुषस्य हि प्रतिवेदमैकैका शाखा भवति। या पूर्वैः परिगृहीताऽध्ययनानुष्ठानाभ्यां सा प्रतिवेदं स्वशाखा। तामधीत्य श्रोत्रियो भवति, न तु प्रतिवेदमैकेकामधीत्य श्रोत्रियो भवतीति। लोक- विरोधात्। लोके हि यां कांचनैकां शाखामधीयानः श्रोत्रिय इति प्रसिद्धः। अतिथिलक्षणमाह— (१)स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो (२)नाऽन्यप्रयोजनः सोऽतिथिर्भवति ॥ ५ ॥ आदितो यच्छब्दो द्रष्टव्यः। अन्ते स इति दर्शनात्। मध्ये च श्रो- त्रियलक्षणोपदेशात्। तदुपजीवनेन सूत्रं योज्यम्। यः श्रोत्रियः स्वधर्म- युक्तं स्वधर्मनिरतं कुटुम्बिन भार्यया सह वसन्तं गृहस्थम् । आश्रमा- न्तरनिरासार्थमिदमुक्तम् । न हि ते पचमाना भवन्ति । भिक्षवो हि ते । अभ्यागच्छति उद्दिश्याऽऽगच्छति । धर्मपुरस्कारः(३)आचार्याद्यर्थं भिक्षणं धर्मः त पुरस्करोतीति धर्मपुरस्कारः । कर्मण्यण् । धर्मप्रयोजनः नान्यप्र- योजनः। य एवभूत एवभूतमुरुद्दिश्याऽऽगच्छति नान्येच्छया सोऽति- थिरिति । (४)बौधायनमस्तु श्रान्तोऽदृष्टपूर्वः केवलमन्नार्थी नाऽन्यप्रयोजन- स्सोतिथिर्भवति । अथ वा सर्ववर्णानामन्यतमः काले यथोपपन्नः सर्वे- षामतिथीनां श्रेष्ठोऽतिथिर्भवती"ति ॥ ५ ॥ तस्य पूजायां शान्तिः स्वर्गश्च ॥ ६ ॥ तस्यातिथेः पूजायां कृतायां शान्तिरुपद्रवाणामिह भवति । प्रेत्य च स्व- र्गलाभः ॥ ६ ॥ तमभिमुखोऽभ्यागम्य यथावयस्समेत्य तस्या- सनमाहारयेत् ॥ ७ ॥ तमतिथिमभिमुखोऽभ्यागच्छेत् । अभ्यागम्य यथावयः वयसोऽनुरूपं प्र त्युत्थानाभिवादनादिना समेयात् सङ्गच्छेत । समेत्य च तस्यासनमाहारयेत् शिष्यादिभिः । अभावे स्वयमाहरेत् ॥ ७ ॥ शक्तिविषये नाऽबहुपादमासनं भवतीत्येके ॥ ८ ॥ १. एतदादि ११ सूत्रार्थं यावदेकीकृतम् छ. पु २. नात्रप्रयोजनः इति क पु. ३ आचार्यार्थे इति. घ. ड. पु. ४. एतदादि ११ सूत्रे निवेशितं छ. पु. आप० ध० २६