आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 213, कुल 399 में से
संदर्भ में पढ़ें२०२ आपस्तम्बधर्मसूत्रे [ (प. ३.) क. ६. शक्तौ सत्यां अबहुपादमासनं न देयम् । किं तु बहुपादमेव पीठादिक मित्येके मन्यन्ते । (१)स्वमतं त्वबहुपादमपीति ॥ ८ ॥ तस्य पादौ प्रक्षालयेच्छूद्रमिथुनावित्येके ॥ ९ ॥ द्वौ शूद्रौ तस्य पादौ प्रक्षालयेतामित्येके मन्यन्ते । दासवत इदम्॥९॥ अत्र विशेषः— अन्यतरोऽभिषेचने स्यात् ॥ १० ॥ अभिषेचनं करकादिना जलावसेकः । तमेकः कुर्यात् । इतरः प्र- क्षालनम् ॥ १० ॥ तस्योदकमाहारयेन्मृण्मयेनेत्येके ॥ ११ ॥ मृण्मयेन पात्रेण तस्योदकमाहर्तव्यमित्येके मन्यन्ते । (२)स्वमतं तु तैजसेन ॥ ११ ॥ नोदकमाहारयेदसमावृत्तः ॥ १२ ॥ यदा असमावृत्तो ब्रह्मचारी आचार्यप्रेषितः स्वयमेव वाऽतिथिराभ्या- गच्छति तदा नासावुदकमाहारयेत् नासावुदकाहरणस्य प्रयोजकः । नास्मा उदकमाहर्तव्यमिति ॥ १२ ॥ अध्ययनसांवृत्तिश्चात्राऽधिका ॥ १३ ॥ अत्र असमावृत्तेऽतिथौ अध्ययनसंवृत्तिश्चाधिका इतरस्मादतिथेः । अध्ययनस्य सह निष्पादनमध्ययनसंवृत्तिः। यः प्रदेशस्तस्याऽऽगच्छति स तेन सह कियन्ताञ्चत्कालं वक्तव्य इति । प्रसिद्धे तु पाठे पूर्वपदान्त- स्य समोऽकारस्य छान्दसो दीर्घः ॥ १३ ॥ सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवराध्येनेति ॥१४॥ ततः पादप्रक्षालनस्य समध्ययनस्य वाऽनन्तरमतिथिं प्रियवचनेन सान्त्वयेत् । सान्त्वयित्वा गव्यादिभीरसैः फलादिमिश्च भक्ष्यैरन्ततोऽद्भिरपि तावत्तर्पयेत् तृप्तिं कुर्यात् । 'अवराध्येने'ति जघन्यकल्पतां सूचयति । अध्य- न्तत इत्यर्थः । इतिशब्दादेवमादिभिरन्यैरपि ॥ १४ ॥ आवसथं दद्यादुपरीशय्यामुपस्तरणमुपधानं सावस्त- रणमभ्यञ्जनं चेति ॥ १५ ॥ १. स्वयं त्वबहुपामप्यनुमन्यते इति च. पु. २ स्वयं तु ङ. च. पु.