आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 214, कुल 399 में से
संदर्भ में पढ़ेंअतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०३ आवसथो विश्रामस्थानम् । उपरिशय्या खट्वा । उपस्तरणं तूलिका । उपधानमुपबर्हणम् । अवस्तरणमुपरिपटः । तत्सहितमुपधानमुपस्तरणं च । अभ्यञ्जनं पादयोः तैलं घृतं वा । एतत्सर्वं दद्यात् । भोजनात्प्रागूर्ध्वं वा अपेक्षिते काले । इतिशब्दादन्यदप्यपेक्षितम् ॥ १५ ॥ अन्नसंस्कर्तारमाहूय व्रीहीन् यवान्वा तदर्थान्निर्वपेत् ॥ १६ ॥ यः पचति तमन्नसंस्कर्तारमाहूय तदर्थानतिथ्यर्थान् व्रीहीन्यवान्वा निर्वपेत् पृथक्कृत्य दद्यात्-अमुष्मै पचेति । व्रीहियवग्रहणमुपलक्षणम् । इदं भु- ङ्क्तवत्सु सर्वेष्वतिथावुपस्थिते द्रष्टव्यम् ॥ १६ ॥ भोजनकाले त्वाह- उद्धृतान्यन्नान्यवेक्षेतेदं भूया३इद३मिति ॥ १७ ॥ यावन्तो भोक्तारस्तावद्वा अन्नान्युद्धृत्य पृथक्पात्रेषु कृत्वा स्वयं संविभागं कृत्वा तान्यन्नान्यवेक्षेत-किमिदं भूयः प्रभूतमिदं वेति । वि- चारे प्लुतः । (१)'पूर्वे तु भाषाया'मित्येतदुपेक्षितं छान्दसोऽयं (२)प्र- योग इति ॥ १७ ॥ भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥ एवमवेक्ष्याऽतिथ्यर्थं भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥ द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमा- नस्य मीमांसितस्य वा ॥ १९ ॥ यं स्वयमतिथिं द्विषन्भवति यो वाऽऽत्मानं द्वेष्टि यो वाऽऽत्मानं दोषेण मीमांसते आत्मनि स्तेयादिदोषं सम्भावयति । यो वा दोषेण मीमांसितः यत्र लौकिका दोषं सम्भावयन्ति, तस्याऽप्य सर्वस्यान्नं नाश्नीयात्॥१९॥ तत्र हेतुः- पाप्मानं हि स तस्य भक्षयतीति विज्ञायते ॥ २० ॥ यः एवविधस्याऽन्नमश्नाति, स तस्य पाप्मानमेव भक्षयतीति वि- ज्ञायते ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षष्ठी काण्डका ॥ ६ ॥ १ पा सू. ८ २ ९७. २. प्लुतप्रयोगः इति च. पु.