भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०३ आवसथो विश्रामस्थानम् । उपरिशय्या खट्वा । उपस्तरणं तूलिका । उपधानमुपबर्हणम् । अवस्तरणमुपरिपटः । तत्सहितमुपधानमुपस्तरणं च । अभ्यञ्जनं पादयोः तैलं घृतं वा । एतत्सर्वं दद्यात् । भोजनात्प्रागूर्ध्वं वा अपेक्षिते काले । इतिशब्दादन्यदप्यपेक्षितम् ॥ १५ ॥ अन्नसंस्कर्तारमाहूय व्रीहीन् यवान्वा तदर्थान्निर्वपेत् ॥ १६ ॥ यः पचति तमन्नसंस्कर्तारमाहूय तदर्थानतिथ्यर्थान् व्रीहीन्यवान्वा निर्वपेत् पृथक्कृत्य दद्यात्-अमुष्मै पचेति । व्रीहियवग्रहणमुपलक्षणम् । इदं भु- ङ्क्तवत्सु सर्वेष्वतिथावुपस्थिते द्रष्टव्यम् ॥ १६ ॥ भोजनकाले त्वाह- उद्धृतान्यन्नान्यवेक्षेतेदं भूया३इद३मिति ॥ १७ ॥ यावन्तो भोक्तारस्तावद्वा अन्नान्युद्धृत्य पृथक्पात्रेषु कृत्वा स्वयं संविभागं कृत्वा तान्यन्नान्यवेक्षेत-किमिदं भूयः प्रभूतमिदं वेति । वि- चारे प्लुतः । (१)'पूर्वे तु भाषाया'मित्येतदुपेक्षितं छान्दसोऽयं (२)प्र- योग इति ॥ १७ ॥ भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥ एवमवेक्ष्याऽतिथ्यर्थं भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥ द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमा- नस्य मीमांसितस्य वा ॥ १९ ॥ यं स्वयमतिथिं द्विषन्भवति यो वाऽऽत्मानं द्वेष्टि यो वाऽऽत्मानं दोषेण मीमांसते आत्मनि स्तेयादिदोषं सम्भावयति । यो वा दोषेण मीमांसितः यत्र लौकिका दोषं सम्भावयन्ति, तस्याऽप्य सर्वस्यान्नं नाश्नीयात्॥१९॥ तत्र हेतुः- पाप्मानं हि स तस्य भक्षयतीति विज्ञायते ॥ २० ॥ यः एवविधस्याऽन्नमश्नाति, स तस्य पाप्मानमेव भक्षयतीति वि- ज्ञायते ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षष्ठी काण्डका ॥ ६ ॥ १ पा सू. ८ २ ९७. २. प्लुतप्रयोगः इति च. पु.

२०४ आपस्तम्बधर्मसूत्रे [ (प्र.३.) क.७. स एष प्रजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः ॥ १ ॥ स एषोऽभिहितो मनुष्ययज्ञः प्राजापत्यः प्रजापतिना दृष्टः, तद्दैवत्यो वा । कुटुम्बिनो नित्यप्रततो, यज्ञः नाऽग्निष्टोमादिवत् कादाचित्कः ॥ १ ॥ तस्याऽग्नीन् सम्पादयति— योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्ह- पत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ॥ २ ॥ योऽतिथीनां जाठरोऽग्निः स आवाहनीय., तत्र हि हूयते । यः कुटु- म्बे गृहे अग्निरौपासनः स गार्हपत्यः, नित्यधार्यत्वात् । यस्मिन् पच्यते(१) लौकिकाग्नौ सोऽन्वाहार्यपचन. दक्षिणाग्निः, तत्र (२)ह्यन्वाहार्यं पच्यते ॥२॥ ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ३ ॥ योऽतिथेः पूर्वमश्नाति स गृहाणा कुलस्य सम्बन्धि ऊर्जादिकमश्नाति भक्षयति विनाशयति । ऊर्ग्न्नम् । इष्टमग्निहोत्रादि । पूर्तं स्मार्तं कर्म(३) कूपखा- तादि । अन्ये प्रसिद्धाः ॥ ३ ॥ पय उपसेचनमन्नमग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितं, मधुनाऽतिरात्रसम्मितं, मांसेन द्वादशाहसम्मित, मुदकेन प्रजावृद्धिरायुषश्च ॥ ४ ॥ पय उपसेचन यस्य तदन्नम(४)ग्निष्टोमतुल्यम् । सर्पिषा, उपसिक्तमिति प्रकरणाद्गम्यते तदुक्थ्यतुल्यम् । मधुनाेपसिक्तमन्नमतिरात्रतुल्यम् । मांसेन सह दत्तमन्नं द्वादशाहतुल्यम् । उदकेन सह दत्तेन प्रजावृद्धिर्भवति । आयुषश्च । उपसमस्तमपि वृद्धिरिति सम्बध्यते ॥ ४ ॥

१. आष्ट्राग्नौ इति क. च. पु. २. दर्शपूर्णमासेष्ट्याृत्विजो दक्षिणार्थेन यद्देयमन्न तदन्वाहार्यपचनम् । ३ तडागादि इति ड. पु. तडागखननादि इति घ. पु. अग्निहोत्रं तपस्सत्यं वेदाना चानुपालनम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ ४, अग्निष्टोमोक्थ्यातिरात्राः ज्योतिष्टोमस्य संस्थाविशेषाः ।

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०५ प्रिया अप्रियाश्चाऽतिथयः स्वर्गं लोकं गमय- न्तीति विज्ञायते ॥ ५ ॥ प्रियाः प्रसिद्धाः अप्रिया उदासीनाः, द्विषतो निषिद्धत्वात् ॥ ५ ॥ स यत्प्रातर्मध्यन्दिने सायमिति ददाति सवना- न्येव तानि भवन्ति ॥ ६ ॥ त्रिषु कालेषु दीयमानान्यन्नानि अस्य यज्ञस्य (१)प्रातस्सवनादीनि त्रीणि भवन्ति । तस्मात्सर्वेषु कालेषु दातव्यमिति ॥ ६ ॥ यदनुतिष्ठत्युदवस्यत्येव तत् ॥ ७ ॥ यत् गन्तुमुत्तिष्ठन्तमतिथिमनूत्तिष्ठति तदुदवस्यत्येव(२) उदवसानी- या साऽस्य यज्ञस्येति । प्रायेणोच्छब्दं न पठन्ति । केवलमनुशब्दमेव पठन्ति । तत्राप्यर्थः स एव ॥ ७ ॥ यत्सान्त्वयति सा दक्षिणा प्रशंसा ॥ ८ ॥ यत् सान्त्वयति प्रशंसति सा प्रशसा दक्षिणा ॥ ८ ॥ यत्संसाधयति ते (३)विष्णुकमाः ॥ ९ ॥ संसाधनमनुव्रजनम् ॥ ९ ॥ यदुपावर्तते (४)सोऽवभृथः ॥ १० ॥ उपावर्तनं अनुव्रज्य प्रत्यावर्तनम् ॥ १० ॥ इति ब्राह्मणम् ॥ ११ ॥ इति ब्राह्मणमित्यस्य सर्वेण सम्बन्धः ॥ ११ ॥ राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसी मस्मै पूजामा- त्मनः कारयेत् ॥ १२ ॥ १. सवनपदार्थः १. २५ १४ (पृ. १४७) सूत्रे टिप्पण्या विवृत । २. उदवसानीया नाम यज्ञसमाप्तौ क्रियमाणेष्टिः । उदवसाय क्रियते इत्युदवसानीया । ३ दर्शपूर्णमासयोर्यजमानकर्तव्यतया विहिताः (आप.श्रौ. ४.१४.६.) पदप्रक्षेपाः । ४. 'वारुणेनैककपालेनावभृथमवयन्ति' इति विहितस्सोमयागस्यान्ते क्रियमाणस्त- दङ्गभूत इष्टिविशेषोऽवभृथः ।

२०६ आपस्तम्बधर्मसूत्रे [ (प्र. ३.) क. ९. (१) राजा अभिषिक्तः क्षत्रियः । सोऽतिथयेऽभ्यागताय आत्मनोऽपि सकाशात् श्रेयसीं पूजां कारयेत् पुरोहितेन ॥ १२ ॥ आहिताग्निं चेदतिथिर्भ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयाद्-व्रात्य क्वाऽवात्सीरिति, व्रात्योदकमिति, व्रात्य तर्पयंस्त्विति ॥ १३ ॥ यद्याहिताग्निमुद्दिश्यातिथिरागच्छेत्, तत एनमतिथिं स्वयमेवाभिमुख उपसर्पेत् । अत्र स्वयमिति वचनादनाहिताग्निरन्येन शिष्यादिना कार यन्नपि न दुष्यति । तमभ्युदेत्य ब्रूयात्-व्रात्य क्वावात्सीरिति कुशलप्रश्नः । व्रते साधुर्व्रात्यः स एव व्रात्य इति पूजनाभिधानम् । क्व पूर्वस्यां रात्रावु- षितवानसीति । 'व्रात्योदक'मित्युदकदानम् । 'व्रात्य तर्पयंस्ति'त्विति गो- रसादिभिस्तर्पणम् । अनुस्वारसकारौ छान्दसौ । क्रियाभेदात्प्रतिम- न्त्रमितिशब्दः । एतत्सर्वेषु कालेषु कर्तव्यम् ॥ १३ ॥ पुराऽग्निहोत्रस्य होमादुपांशु जपेत्-व्रात्य यथा ते मन स्तथाऽस्त्विति, व्रात्य यथा ते वशस्तथाऽस्त्विति, व्रात्य यथा ते प्रियं तथाऽस्त्विति, व्रात्य यथा ते निकामस्तथाऽस्त्विति ॥ १४ ॥ स यदि होमकालेऽप्यासीत्, तदा पुरा होमादपरेणाग्निं दर्भेषु सादयित्वा 'व्रात्य यथा ते मन' इत्यादिमन्त्रानुपांशु जपेत् ब्रूयात् । तत्र प्रतिमन्त्रमितिशब्दप्रयोगादर्थभेदाच्चचतुर्णां विकल्पः । समुच्चय इत्यन्ये । अत्र वाऽध्वर्युर्यजमानो वा यो(२)होता स जपेत् । ततो जुहुयात् ॥ १४ ॥ यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिर्भ्यागच्छेत्स्वयमेनम् भ्युदैत्य ब्रूयात्-व्रात्याऽतिसृज होष्यामीत्यातिसृ- ष्टेन होतव्यमनातिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह ॥ १५ ॥ उद्धृतेष्विति बहुवचनं सभ्यावसथ्यापेक्षम्। यस्य तु त्रयोऽग्नयः, तस्या १. राजेत्येतानभिषिक्तानाचक्षते इत्यैतरेयब्राह्मणम् । ऐ. ब्रा. ८. १४ ६ २. अग्निहोत्रहवनकर्ता होता ।

पि। अहुतोऽवित्यनेन सामानाधिकरण्यात् होमोऽपि त्रिष्वपि भवति। ते नाऽऽहवनीयहोमानन्तरमतिथावागतेऽपि त्रिषु होमो न कृत इति वक्ष्य- माणे विधिर्भवत्येव । कः पुनरसौ ? स्वयमेनम्अभ्युदेत्य ब्रूयात् । व्रात्या ऽतिसृज, अनुजानीहि होष्यामीति । ततो जुहुधीत्यातिसृजेत् । अति- सृष्टेन होतव्यम् । यदि पुनरनतिसृष्टोऽननुज्ञातो जुहुयात्, तस्य दोष- माथर्वणिकानां ब्राह्मणवाक्यमाह । (१)तदत्र न पठितं तत्रप्रत्येतव्यम् । अत्र पक्षे स्वयं होमो नियतः ॥ १५ ॥ एकरात्रं चेदतिथीन्वासयेत्पार्थिवाँल्लोकानभिजयति द्वि- तिययाऽऽन्तरिक्ष्यांस्तृतियया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमितीभिरपरिमितीँल्लोकानभिजयती- ति विज्ञायते ॥ १६ ॥ य(२)एकां रात्रिमतिथीन् गृहे वासयति, स पृथिव्यां भवान् लोकानभि- जयति । द्वितीयया रात्र्या आन्तरिक्ष्यान् । तृतीयया दिव्यान् । चतुर्थ्या परावतः सुखस्य परा मात्रा येषु लोकेषु तानभिजयति । अपरिमितीभीरात्रिभिर- परिमितान् लोकानिति विज्ञायते ब्राह्मणं भवति ॥ १६ ॥ असमुदेतश्चेदतिथिर्ब्रवाण आगच्छेदासनमुदकमन्नं श्रो- त्रियाय ददामीत्येव दद्यादेवमस्य समृद्धं भवति १७ विद्यादिभीरहितोऽसमुदेतः । स चेदतिथिरिति ब्रुवाण आगच्छेत्तदा तस्मै आसनादिक श्रोत्रियायैव ददामीत्येवं मनसि कृत्वा दद्यात् । एवं ददतोऽस्य तद्दान समृद्धं भवति श्रोत्रियायैव दत्तं भवति ॥ १७ ॥ इति द्वितीयप्रश्ने सप्तमी कण्डिका ॥ ७ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायाम्- उज्ज्वलायां द्वितीयप्रश्ने तृतीयः पटलः ॥ ३ ॥ १ नास्तीदं वाक्यं घ० पुस्तके । २. एकरात्र इति घ. मु.

अथ चतुर्थः पटलः ॥ येन कृतावसथः स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरो- हेद्वा पुरस्ताच्चेदभिवादितः ॥ १ ॥ येन गृहस्थेनाऽतिथिः कृतावसथःस्यात् (१)कृतावासः दत्तावा- सः स्यात् । द्वितीयान्तरिक्ष्यानित्यादिवचनात् द्वितीयादिष्वहस्सु त प्रति न प्रत्युत्तिष्ठेत् । नाऽप्यासनात् प्रत्यवरोहेत् । स चेत्तस्मिन्नहनि पूर्वमेवाभिवादित । अनभिवादिते तु अभिवादनार्थं प्रत्युत्तिष्ठेत्, प्रत्यवरोहेच्च ॥ १ ॥ शेषभोज्यतिथीनां स्यात् ॥ २ ॥ 'अतिथीनेवाग्रे भोजये'(२.४.१९.)दित्येव सिद्धे वचनमिदं प्रमादाद्यन्न दत्तमतिथये, तन्न भुञ्जीतेत्येवमर्थम् ॥ २ ॥ न रसान् गृहे भुञ्जीताऽनवशेषमतिथिभ्यः ॥ ३ ॥ आगामिभ्योऽतिथिभ्यो यथा न किञ्चित् गुहेऽवशिष्यते, तथा गव्यादयो रसा न भोज्याः । सद्यस्सम्पादयितुमशक्यत्वाद्रसानाम्॥३॥ नाऽऽत्मार्थमभिरूपमन्नं पाचयेत् ॥ ४ ॥ आत्मानमुद्दिश्याऽभिरूपमन्नं स्वाद्वपूपादि न पाचयेत् ॥ ४ ॥ गोमधुपर्कार्हो वेदाध्यायः ॥ ५ ॥ साङ्गस्य वेदस्याऽध्येता वेदाध्याय । सोऽतिथिर्मधुपर्कमर्हति, गां च दक्षिणाम् ॥ ५ ॥ आचार्य ऋत्विक्स्नातको राजा वा धर्मयुक्तः ॥ ६ ॥ अवेदाध्याया अप्याचार्यादयो गोमधुपर्कार्हाः । अत एव ज्ञायते— एकदेशाध्यायिनावप्यृत्विगाचार्यो भवत इति । धर्मयुक्त इति राज्ञो विशे- षणम् । वाशब्दः समुच्चये ॥ ६ ॥ आचार्यायार्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरा- दुपत्तिष्ठद्भ्यो गौर्मधुपर्कश्च ॥ ७ ॥ एतत् (२)गृह्ये व्याख्यातम् । गौरत्र दक्षिणाऽधिका विधीयते ॥७॥ १. कृतवास दत्तवासः इति क० पु० २. आप. गृ १३ १९

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०९ कोऽसौ मधुपर्क इत्यत आह— दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ॥ ८ ॥ (१)गृह्योक्तस्याऽनुवादोऽयमुत्तरविवक्षया ॥ ८ ॥ अभाव उदकम् ॥ ९ ॥ दधिपयसोरलाभ उदकमपि देयम् । मधुसंसृष्टमित्येके । नेत्य- न्ये, पूर्वत्र पुनर्मधुसंसृष्टग्रहणादिति ॥ ९ ॥ वेदाध्याय इत्यत्र विवक्षितं वेदमाह— षडङ्गो वेदः ॥ १० ॥ षड्भिरङ्गैर्युक्तोऽत्र वेदो गृह्यत इति ॥ १० ॥ कानि तान्यङ्गानीत्यत आह— छन्दःकल्पो व्याकरणं ज्योतिषं निरुक्तं शिक्षा च्छ- न्दोविचितिरिति ॥ ११ ॥ छन्दो वेदः । तत्कल्पयति प्रतिशाखं शाखान्तराधीतेन न्यायप्रा- प्तेन चाऽङ्गकलापेनोपेतस्य कर्मणः प्रयोगकल्पनयोपस्करुत इति छन्दः- कल्पः कल्पसूत्राणि । व्याकरण अर्थविशेषमाश्रित्य पदमन्वाचक्षाणं पद- पदार्थप्रतिपादनेन वेदस्योपकारकं विद्यास्थानम् । सूर्यादीनि ज्योतीं- ष्यधिकृत्य प्रवृत्तं शास्त्रं ज्योतिषम् । आदिवृद्ध्यभावे यत्नः कार्यः । तद- प्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च कालविशेषं प्रतिपादयदुपका- रकम्। निरुक्तमपि व्याकरणस्यैव कात्स्न्र्यम् । शिक्षा वर्णानां स्थानप्रयत्ना- दिकमध्ययनकाले कर्मणि च मन्त्राणामुच्चारणप्रकारं शिक्षयतीति । पृषोदरादित्वाद्दीर्घः । गायत्र्यादीनि छन्दांसि यया विचीयन्ते विवि- च्य ज्ञायन्ते, सा छन्दोविचितिः । एतान्यङ्गानि अङ्गसंस्तवादङ्गत्वम् । 'मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे । शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते ॥ इति ॥ उपकारकत्वाच्च ॥ ११ ॥ १. "दधि मौध्वीत संसृज्य—त्रिवृतमेके घृतं च । पांक्तमेके धानास्सक्तूंश्च" इति गृह्ये उक्तम् । आप० ध० २७

२१० आपस्तम्बधर्मसूत्रे [ (प.४.) क.८. उक्त उपकारः, अत्र चोदयति- शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दस्तत्र सङ्ख्या विप्रतिषिद्धा ॥ १२ ॥ शब्दार्थतया यान्यारभ्यन्ते न प्रत्यक्षादिप्रमाणगोचरतया, तानि शब्दार्थारम्भणानि कर्माणि वैदिकान्यग्निहोत्रादीनि । तेषां समाम्नाय उप- देशः । तस्य समाप्तौ स यावता ग्रन्थजातेन समाप्तोऽनुष्ठानपर्यन्तो भ- वति, तत्र वेदशब्दो वर्तते । वेदयति धर्मं विदन्त्यनेनेति वा धर्ममिति । न च मन्त्रब्राह्मणमात्रेणाऽनुष्ठानपर्यन्त उपदेशो भवति । किं तु कल्प- सूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एवानुप्रवेशात् पञ्चैवाऽङ्गानि । तत्र षट्संख्या विप्रतिषिध्येत ॥ १२ ॥ परिहरति- अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः ॥ १३॥ अङ्गान्येव कल्पसूत्राणि न वेदस्वरूपाणि । पौरुषेयतया स्मरणात् । कतिपयान्येव हि तेषु ब्राह्मणवाक्यानि, भूयिष्ठानि स्ववाक्यानि । अङ्गानां च तेषां प्रधानवाचिभिशब्दैः छन्दो वेदो ब्राह्मणमित्यादिभिर्व्यपदेशो न न्याय्य इति न्यायविदां सिद्धान्तः । ताविमौ पूर्वपक्षसिद्धान्तौ (१)कल्प- सूत्राधिकरणे स्पष्टं द्रष्टव्यौ । यत्तूक्तं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश इति । नैष स्थाणोरपराधो यदेनमन्धो न पश्यतीति, पुरुषापराधस्स भवति । इदं तु भवानाचष्टाम्-कल्पसूत्रकाराणामियं प्रयोगकल्पना कु- तस्येति । न्यायोपबृंहिताभ्यां मन्त्रब्राह्मणाभ्यामिति वक्तव्यम् । नाऽन्या गतिः । एवं सति भवानपि यततां तादृशस्यामिति । ततो मन्त्रब्राह्म- णाभ्यामेव पूर्णमवभोत्स्यत इति ॥ १३ ॥ अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य ॥ १४ ॥ अतिथिमागतं केनचित्प्रकारेण निराकृत्य भोजने प्रवृत्तो यत्र गते य- दवस्थाप्राप्ते भोजने स्मरेत्-धिक्छ्रया स निराकृत इति, तत्रैव भोजना- द्विरम्य तस्मिन्नहन्युपोष्य ॥ १४ ॥ इत्यापस्तम्बधर्मसूत्रे उज्ज्वलोपेते द्वितीयप्रश्नेऽष्टमी कण्डिका ॥ ८ ॥ १. पू. मी १. ३. ९. कल्पसूत्राणां बौधायनापस्तम्बादिप्रणीतानां यत्र साक्षाद्वेदत्वनि- राकरणं क्रियते किन्तु वेदमूलत्वेनैव प्रामाण्यं स्थाप्यते । तत् कल्पसूत्राधिकरणम् ॥

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१९ श्वो भूते यथामानसं तर्पयित्वा संसाधयेत् ॥ १ ॥ अपरेद्युस्तमन्विष्य यथामानसं यथेच्छं तर्पयित्वा संसाधयेत् गच्छन्तम- नुव्रजेत् ॥ १ ॥ आ कुत इत्यत आह— यानवन्तमा यानात् ॥ २ ॥ स चेदतिथिर्यानवान् भवति, तमा तस्याऽऽरोहणादनुव्रजेत् ॥ यावन्नाऽनुजानीयादितरः ॥ ३ ॥ इतरो यानरहितो यावन्नाऽनुजानीयात् गच्छेति, तं तावदनुव्रजेत् ॥३॥ अप्रतीभायां सीम्नो निवर्तेत ॥ ४ ॥ यदि तस्याऽन्यपरतयाऽनुज्ञायां प्रतीभा बुद्धिर्न जायते, ततस्सीम्नि प्राप्ता- यां ततो निवर्तेत । प्रतेर्दीर्घश्छान्दसः । 'संसाधये' दित्यादि सर्वातिथि- साधारणम् । न निराकृतमात्रविषयम् ॥ ४ ॥ सर्वान्वैश्वदेवे भागिनः कुर्वीता श्वचण्डालेभ्यः ॥५॥ वैश्वदेवान्ते भोजनार्थमुपस्थितान् सर्वानैव भागिन. कुर्वीताऽऽश्वचण्डा- लेभ्यः । अभिविधावाकारः । तेभ्योऽपि किञ्चिद्देयम् । तथा च मनुः— (१)'शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसां च क्रिमीणां च शनकैर्निर्वपेद्भुवि ॥ इति ॥ ५ ॥ नाऽनर्हेभ्यो दद्यादित्येके ॥ ६ ॥ अनर्हेभ्यश्चण्डालादिभ्यो न दद्यादित्येके मन्यन्ते । तत्र दानेऽभ्युदयः । अदाने न प्रत्यवायः ॥ ६ ॥ उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ॥ ७ ॥ उपेतः कृतोपनयनोऽसमावृत्तः । स स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत न भुञ्जीत । एवं सति समावृत्तस्योच्छिष्टं भुञ्जानस्य न दोषः स्यात् । एवं तर्हि उपेत आन्तात् कृतदारोऽकृतदारश्च स्त्रीणामनुपेतस्य चोच्छिष्टं व- र्जयेत् । एवमप्युपेतस्य यस्य कस्यचिदपि यदुच्छिष्टं तद्भोजने न दोषः स्यात् । पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम्-(१. ४ १९) इत्येतन्निय- मार्थं भविष्यति-पितुरेव भ्रातुरेवेति। यद्येवं सूत्रमेवेदमनर्थकम्।तस्मादेव १. म. स्मृ. ३. ९२.

नियमादन्यत्राऽप्रसङ्गात् । इदं तर्हि प्रयोजनम्-यदा पिताऽनुपेतः पुत्रस्तु प्रायश्चित्तं कृत्वा कृतोपनयनः तदा तं प्रति पितुरनुपेतस्योच्छिष्टं प्रति- षिध्यते । एवं ज्येष्ठेऽपि द्रष्टव्यम् । एतदपि नास्ति प्रयोजनम् । उक्तं हि 'धर्मविप्रतिपत्तावभोज्य ( १.४.१२ ) मिति । 'तेषामभ्यागमनं भो- जनं विवाहमिति च वर्जये' (१.१.३३) दिति च । तथा स्त्रीणामित्येतत् किमर्थम् ? मातुरुच्छिष्टप्रतिषेधार्थम् । कथं प्रसङ्गः ? 'मातरि पितर्या- चार्यवच्छुश्रूषे' (१.१४.५.) ति वचनात्, 'यदुच्छिष्टं प्राश्नाति हविरुच्छि ष्टमेव तत्'(१.४.१,२) दित्याचार्योच्छिष्टस्य हविष्ट्वेन संस्तवाच्च । (१) एवमपि 'पितुर्ज्येष्ठस्ये'त्यत्र पितु र्ग्रहणादेव सिद्धम् । तस्मात् केषु चिज्- नपदेषु भार्ययाऽनुपेतेन च सह भोजनमाचरन्ति । तथा च बौधायनः- (२)'यानि दक्षिणतस्तानि व्याख्यास्यामः । यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजन'मिति । तस्य दुराचारत्वमनेन प्रतिपाद्यते ॥ सर्वाण्युदकपूर्वाणि दानानि ॥ ८ ॥ 'सर्वाणी'ति वचनात् भिक्षाप्युदकपूर्वमेव देया ॥ ८ ॥ यथाश्रुति विहारे ॥ ९ ॥ विहारे यज्ञकर्मणि यानि दानानि दक्षिणादीनि , तानि यथाश्रुत्येव । नोदकपूर्वाणि ॥ ९ ॥ ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः॥ ये नित्या भाक्तिका भक्तार्हाः कर्मकरादयः तेषामुपरोधो यथा न भवति तथा वैश्वदेवान्ते अभ्यागतेभ्यः संविभागः कर्तव्यः ॥ १० ॥ काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् ॥ ११ ॥ दासो भूत्वा यः कर्म करोति स दासकर्मकरः तं आत्माद्युपरोधे नापि नोपरुन्ध्यात् । किं पुनरागसार्थं तं नोपरुन्ध्यादिति(३) ॥ ११ ॥ तथा चाऽऽत्मनोऽनुपरोधं कुर्याद्यथा कर्मसु समर्थस्स्यात् ॥ १. नैतदपि सारम् । 'पितुर्ज्येष्ठस्य च' इत्यत्रपितुर्ग्रहणादेव तस्या अप्रसक्तेः, इति. च. पु २. बौ. ध. १. १. १८, १९. ३. 'अतस्त केवलं कर्मकर नोपरुन्ध्यात् इत्यधिकः पाठः क. पुस्तके ।

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१३ कर्मसु अग्निहोत्रादिषु आर्जनेषु च यथा स्वयं समर्थो भवति तथाऽऽ- त्मान नोपरुन्ध्यात् कुटुम्बी ॥ १२ ॥ अथाऽप्युदाहरन्ति— (१)‘अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशाऽरण्यवासिनः । द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥ आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नता’मिति॥ अथैतस्मिन्नात्मानं नोपरुन्ध्यादिति विषये (२)श्लोकावुदाहरन्ति । मुनेः सन्न्यासिनः । भक्ष्या अष्टौ ग्रासाः आस्याविकारेण । अरण्यवासी वानप्रस्थ । तस्य षोडश । द्वात्रिंशत् ग्रासाः गृहस्थस्य । प्रथमार्थे द्वितीया । ब्रह्मचारिणस्तु विद्यार्थस्य नैष्ठिकस्य च ग्रासनियमो नास्ति । द्वितीयेन श्लोकेना- हिताग्निविषये ‘कालयोर्भोजन’ (२. १. २.) मित्ययमपि नियमो नास्तीति(३) प्रतिपाद्यते । अनडुद्ग्रहणं दृष्टान्तार्थम् । ब्रह्मचारिग्रहणं दृढार्थम् । सिध्यन्ति स्वकार्यक्षमा भवन्ति ॥ १३ ॥ इत्यापस्तम्बधर्मसूत्रे नवमी कण्डिका ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलाया द्वितीयप्रश्ने चतुर्थः पटलः ॥ ४ ॥ १. एतच्छ्लोकद्वयानन्तर गृहस्थो ब्रह्मचारी वा योऽनश्नन् सुतपश्चरेत् । प्राणा- ग्निहोत्रलोपेन अवकीर्णी भवेत् सः । इत्यधिकसूत्रभागो घ. पुस्तके ॥ २. श्लोकान् इति घ. पु. ३. प्रतिपादयितुम् इति पु क.

अथ पञ्चमः पटलः ॥ भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो माता- पित्रोर्बुभूर्षाऽर्हतश्च नियमविलोेपः ॥१॥ भिक्षणं याचनम् । तत्राऽऽचार्यादयो निमित्तम् । बुभूर्षा भर्तुमिच्छा । अर्हतो विद्यादिमतोऽग्निहोत्रादिनियमे योग्यस्याऽर्थस्याऽभावेन लोपः ॥ १ ॥ तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ॥ २ ॥ तत्रैवंभूते भिक्षणे याचतः श्रुतवृत्तादिकान् गुणान् समीक्ष्य शक्त्यनुरू- पमवश्यं देयम् । अदाने (१)प्रत्यवेयात् । गौतमस्तु निमित्तान्तरमप्याह- (२)'गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनध्वंसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि । भिक्षमाणेषु कृतान्नमितरेष्वि'ति । (३)वैश्व जितो विश्वजिद्यागस्य कर्ता सर्वस्वदक्षिणः ॥ २ ॥ (४)इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ॥ ३ ॥ इन्द्रियद्वारा आत्मनः प्रीतिरिन्द्रियप्रीतिः । तामर्थयमानो यो भिक्षते स्रक्चन्दनादि तन्मूल्यं वा । तद्भिक्षणं नियमेन दानस्य निमित्तं न भवति ॥ ३ ॥ न तदाद्रियेत ॥ ४ ॥ तस्मान् न तदाद्रियेत । अदानेऽपि न प्रत्यवायः। विवाहोऽपि द्वितीयो न निमित्तं सत्यां प्रथमायां धर्मप्रजासम्पन्नायाम् । तदर्थमिदं वचनम् । अन्यत्र प्राप्त्यभावात् ॥ स्वकर्म ब्राह्मणस्याऽध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं सिलोञ्छः ॥ ५ ॥ 'सर्ववर्णानां स्वधर्मानुष्ठान ( २.२.२ ) इत्युक्तम् । तेऽमी स्वधर्मा १. प्रत्यवायात् इति. क. घ. पु २. गौ. ५. २१, २२ ३. विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्वदक्षिणेन यजेत' इत्यनेन विहितेन या- गेनेष्ट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः । ४. इदमुत्तरं च सूत्रमेकीकृतं च. पु. । इन्द्रियमनिमित्तम् ॥ ४ ॥ तस्मान्न तदाद्रियेत ॥ ५ ॥ इति तच्छब्दघटितं भिन्नसूत्रतया च पठित क० पुस्तके ।

ब्राह्मणादिवृत्तिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१५ उच्यन्ते-पुत्राय दीयत इति दायः । तमादत्त इति दायादः । तस्य भावो दायाद्यम्, दायस्वीकारः । क्षेत्रादिषु पतितानि मञ्जरीभूतानि ततश्च्यु तानि वा धान्यानि सिलशब्दस्यार्थः । तेषामुञ्छनमंगुलीभिर्नखैर्वाऽऽ- दानं सिलोञ्छः । एतान्यध्ययनादीन्यष्टौ ब्राह्मणस्य स्वकर्म । तेष्वध्ययनय- ज्ञदानानि द्विजातिसामान्येन कर्तव्यतया नियम्यन्ते । इतराण्यार्थितया द्रव्यार्जने प्रवृत्तस्योपायान्तरनिवृत्त्यर्थान्युपदिश्यन्ते-अध्यापनादिभि- रेव द्रव्यमार्जयेन्न चौर्यादिभिरिति(१) ॥ ५ ॥ अन्यच्चाऽपरिगृहीतम् ॥ ६ ॥ यच्चाऽन्यत् केनाप्यपरिगृहीतमारण्यमूलफलादि तेनापि । जीवेदिति प्रकरणात् गम्यते । एतेन निधिर्व्याख्यातः ॥ ६ ॥ एतान्येव क्षत्रियस्याऽध्यापनयाजनप्रतिग्रहणानि परिहाप्य दण्डयुद्धाधिकानि ॥ ७ ॥ एतान्येव क्षत्रियस्यापि स्वकर्म । अध्यापनादीनि त्रीणि वर्जयि- त्वा । दण्डलब्धं युद्धलब्धं चाऽधिकम् ॥ ७ ॥ क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्य- वणिज्याऽधिकम् ॥ ८ ॥ गोरक्ष्यं गवां रक्षणम् । भावे ष्यञ्प्रत्ययः । वणिजो भावो वणिज्या क्र- यविक्रयव्यवहारः, कुसीदं च । (१)'दूतवणिग्भ्यां चे'ति ष्यञ्प्रत्ययः ॥ ८ ॥ नाऽननूचानमृत्विजं वृणीते न पणमानम् ॥ ९ ॥ साङ्गस्य वेदस्याऽध्येता प्रवक्ता चाऽनूचानः । अतादृशमृत्विजं न वृणीते नाऽप्येतावद्देयमिति परिभाषमाणम् ॥ ९ ॥ अयाज्योऽनधीयानः ॥ १० ॥ अनधीतवेदं न याजयेत् तदानीमपेक्षितं मन्त्रं यथाशक्ति वाचयन्१०॥ क्षत्रियस्य युद्धं स्वकर्मेत्युक्तम् । तत्कथं कर्तव्यमित्यत आह- युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम्११ युद्धविषये तथा प्रतिपत्तव्यं यथा तद्योगा उपायमुपदिशन्ति तस्मिन्युद्ध- १. एतदादिसूत्रचतुष्टयोक्ता विषया मानवेषु (१. ८७-९१) श्लोकेषु द्रष्टव्याः । २. कात्या. वा. ४३४.

२१६ आपस्तम्बधर्मसूत्रे [ (प.५)क. १०. कर्मणि युद्धशास्त्रे वा येषामभियोगः ते तद्योगाः ॥ ११ ॥ न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्ता- नामार्या वधं परिचक्षते ॥ १२ ॥ न्यस्तायुधः त्यक्तायुधः । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । प्राञ्जलिः कृताञ्जलिः । पराङावृत्तः पराङ्मुखः । सर्वे एते भीताः । ए- तेषां युद्धे वधमार्यास्सन्तो गर्हन्ते । परिगणनादन्येषां वधे न दोषः । तथा च गौतमः-(१)'न दोषो हिंसाया माहवे' इति । न्यस्तायुधः प्रकी- र्णकेशः इति विसर्जनीयं केचित्पठन्ति । सोऽपपाठः । पराङावृत्त इति ङकारश्छान्दसः ॥ १२ ॥ शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां शा- स्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ॥ १३ ॥ यथाशास्त्रं गर्भाधानादिभिः संस्कारैः संस्कृताः शास्त्रैरधिगतास्तेषा- मिन्द्रियदौर्बल्यात् अजितेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषि- द्धेषु च प्रवृत्तानाम् । शास्ता शासिता आचार्यादिः । निर्वेषं प्रायश्चित्त- मुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्तं धर्मशास्त्रेषु ॥ १३ ॥ तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजनं गमयेत् ॥ १४ ॥ तस्य चेच्छासितुः शास्त्रं शासन अतिप्रवर्तेरन् न तत्र तिष्ठेयुः राजानं गम- येत्—एवमसौ करोतीति ॥ १४ ॥ राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥ स राजा धर्मशास्त्रेष्वर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत्-विनीय- तामसाविति ॥ १५ ॥ स ब्राह्मणान्नियुञ्ज्यात् ॥ १६ ॥ स पुरोहितः ब्राह्मणांश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुञ्ज्यात् अ- नुरूपेषु प्रायश्चित्तेषु नियुञ्जीत ॥ १६ ॥ अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्यमित्यत आह— बलविशेषेण(२) वधदास्यवर्जं नियमैरुपशोषयेत् ॥ १७ ॥ ततस्तान्नियमैरुपवासादिभिरुपशोषयेत् । बलविशेषेण बलानुरूपम् ।


१. गौ. ध. १०. १९. २. अत्र विषये मानवे ८. ३८०, ३८१. श्लोकौ द्रष्टव्यौ ।

दण्डप्रणयनम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१७ वधदास्यवर्जं वधस्ताडनादि, वध दास्यं च वर्जयित्वा सर्वमन्यत् बन्ध- नादिकं बलानुरूपं कारयेत् यावत्ते मन्येरन् चरेम प्रायश्चित्तमिति ॥१८॥ इत्यापस्तम्बधर्मसूत्र उज्ज्वलोपेते द्वितीयप्रश्ने दशमी कण्डिका ॥१०॥ एवं ब्राह्मणविषये उक्तम् । इतरेषामाह — इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डं प्रणयेत् ॥ १ ॥ इतरेषां ब्राह्मणव्यतिरिक्तानां वर्णानां राजा पुरोहितोक्त दण्डं स्वयमेव प्रणयेत् तेषां कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् । अभिविधा- वाकारः ॥ १ ॥ न च सन्देहे दण्डं कुर्यात् ॥ २ ॥ अपराधसन्देहे राजा दण्डं न कुर्यात् ॥ २ ॥ किन्तु— सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ॥ ३ ॥ आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभि. शपथान्तैः सुविचितं यथा भवति तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्येत उपक्रमेत ॥ ३ ॥ एवं कुर्वतः फलमाह— एवंवृत्तो राजोभौ लोकावभिजयति ॥ ४ ॥ एवंभूतं वृत्तं यस्य स एवंवृत्तः । अत्र मनु — (१) ‘अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति(२) प्रेत्य स्वर्गाच्च हीयते ॥' इति ॥४॥ गच्छतां प्रतिगच्छतां च पथि समवाये केन कस्मै पन्था देय इत्य- त आह— राज्ञः पन्था ब्राह्मणेनाऽसमेत्य ॥ ५ ॥ राजा अभिषिक्तः । स यदि ब्राह्मणेन समेतो न भवति, तदा तस्य १. म. स्मृ ८, १२८. २. नरकं चैव गच्छति इति मुद्रितपुस्तकेषु पाठः । आप० ध० २८

२१८ आपस्तम्बधर्मसूत्रे [ (प्र. २) क. ११. पन्था दातव्यः । क्षत्रियैरप्यनभिषिक्तैः । एतदर्थमेव चेदं वचनम् । अ- न्यत्र 'वर्णज्यायसां वे' (२.११.८) ति वक्ष्यमाणेनेव सिद्धम् ॥ ५ ॥ समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ ६ ॥ आपदि शिष्यभूतब्राह्मणविषयमिदम् । शिष्यभूतेनाऽपि ब्राह्मणेन समेत्य तस्यैव राज्ञा पन्था देय इति ॥ ६ ॥ (१)यानस्य भाराभिनिहितस्याऽऽतुरस्य स्त्रिया इति सर्वैर्दातव्यः(२) ॥ ७ ॥ यानं शकटादि । भाराभिनिहितो भाराक्रान्तः । आतुरो व्याधितः । स्त्रियाः यस्याः कस्याश्चिदपि । एतेभ्यस्सर्वैरेव वर्णैः पन्था दातव्यः । इतिशब्दात् स्थविरबालकृशादिभ्यश्च ॥ ७ ॥ वर्णज्यायसां चेतरैर्वर्णैः ॥ ८ ॥ वर्णेनोत्कृष्टां वर्णज्यायांसः । तेषां चेतरैरपकृष्टैर्वर्णैर्ब्राह्मणैश्च दातव्यः ॥८॥ अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्य- यनार्थेन सर्वैरेव दातव्यः ॥ ९ ॥ अशिष्टो मूर्खः । अन्ये प्रसिद्धाः । एतेषां सर्वैरेवंजातीयैरुत्कृष्टैरपकृ- ष्टैर्वर्णैर्ब्राह्मणैश्च । आत्मस्वस्त्ययनार्थेन स्वस्त्ययनमात्मत्राणम् । तेन प्रयोजने- न तदर्थम्, न त्वदृष्टार्थमिति । अत्र कौटिल्येन देयस्य पथः प्रमाणमुक्त- म्—(३)'पञ्चारत्नी रथपथश्चत्वारो हस्तिपथो द्वौ क्षुद्रपशुमनुष्याणां' मिति ॥ ९ ॥ धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमा- पद्यते जातिपरिवृत्तौ ॥ १० ॥ धर्मचर्यया स्वधर्मानुष्ठानेन जघन्यो वर्णः शूद्रादिः पूर्वं पूर्वं वर्णमापद्यते वै- श्यादिकं प्राप्नोति । जातिपरिवृत्तौ जन्मनः परिवर्तने । शूद्रो वैश्यो जायते ।

१. रुद्धस्य भारा इति घ. पु. २. अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवहस्य पन्थाः । राज्ञः पन्था ब्राह्मणेनाऽसमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ इति महाभारते वनपर्वणि । ३. कौ. अ. २.४-२२. 'पञ्चारत्नयः' इति अर्थशास्त्रपुस्तकेषु मुद्रितेषु । परन्तु पञ्चारत्निः इत्येवाऽनुवादो ग्रन्थान्तरेष्वपि ।

द्वितीयविवाहः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१९ तत्रापि स्वधर्मनिष्ठः क्षत्रियो जायते । तत्रापि स्वधर्मपरो ब्राह्मण इति । एवं क्षत्रियवैश्ययोरपि द्रष्टव्यम् ॥ १० ॥ अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमा- पद्यते जातिपरिवृत्तौ ॥ ११ ॥ पूर्वेण गम् । महापातकव्यतिरिक्ताधर्माऽनुष्ठानविषयमेतत् । महा- पातकेषु 'स्तेनोऽभिशस्त' ( २.२.६ ) इत्यादिना नीचजातिप्राप्तेरुक्त- त्वात् ॥ ११ ॥ धर्मप्रजासम्पन्ने दारे नाऽन्यां कुर्वीत ॥ १२ ॥ श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु श्रद्धा शक्तिश्च धर्मसम्पत्तिः । प्रजा- सम्पत्ति. पुत्रवत्त्वम् । एवंभूते दारे सति नान्याम् । ‘दारे’ इति प्रकृते अन्यामिति स्त्रीलिङ्गनिर्देशादत्रार्थाद्भार्यामिति गम्यते । नान्यां भार्या कुर्वीत नोद्वहेत् ॥ १२ ॥ अन्यतराभावे कार्या प्रागग्न्याधेयात् ॥ १३ ॥ धर्मप्रजयोरन्यतरस्याऽभावे कार्या उद्वाह्या । तत्रापि प्रागग्न्याधेयात् नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसम्पत्तौ न कार्येत्यु- क्ते अन्यतराभावे कार्येत्यस्यांशस्य प्राप्तत्वात् । यदा चाऽन्यतराभावे कार्या तदा का शङ्का उभयाभावे कार्येति ॥ १३ ॥ प्रागग्न्याधेयादित्यत्र हेतुः- आधाने हि सती कर्मभिस्संबध्यते येषामेतदङ्गम् ॥१४॥ हि यस्मात् आधाने सती विद्यमाना सहान्विता कर्मभिस्सम्बध्यते अधि- क्रियते । कैः ? येषामग्निहोत्रादीनामेत(१)दाधानमङ्गमुपकारकम् । तैः । अ- त्र ‘दारे सती’ति वचनात् मृते तस्मिन्प्रागूर्ध्वं वाऽऽधानात् सत्यामपि पुत्रसम्पत्तौ धर्मसम्पत्त्यर्थे दारग्रहणं भवत्येव । तथा च मनुः-- (२)‘‘भार्यायै पूर्वमारिण्यै दत्वाऽग्नीनन्त्यकर्मणि । पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥’’ इति । १. आधानस्याऽनारभ्याधीतत्वात् क्रत्वङ्गत्वाभावस्य पूर्वतन्त्रे तृतीयाध्याये स्थापि- तत्वात् अत्राङ्गपदमुपकारकपरतया विवृणोति । सम्भवति हि स्वनिष्पाद्याहव- नीयाद्यग्निसमर्पणद्वाराऽऽधानमग्निहोत्रादिक्रतूनामुपकारकम् ॥ २. म. स्मृ. ५.१६८

२२० आपस्तम्बधर्मसूत्रे [ (५.५.)क.११. याज्ञवल्क्योऽपि- (१)'आहरेद्विधिवद्दारानग्नींश्चैवाऽविलम्बयन्।' इति । न हि वाचनिकेऽर्थे युक्तयः क्रमन्ते । तेनैतन्न चोदनीयम्-यजमानः पूर्वमन्वारम्भणीयया संस्कृतो न तस्यायं संस्कारः पुनरापादयितुं श- क्यः । या च भार्या आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या दर्शपूर्णमासादिष्वधिकारः । स कथं तया तैर्यष्टुमर्हतीति । अन्वारम्भ- णीयाजन्यश्च संस्कारो यदि संयोगवदुभयनिष्ठः तदा भार्यानाशे नश्य- तीति तस्य पुनस्संस्कारोऽपि नाऽनुपपन्नः । यानि च नाऽन्वारम्भणी- यामपेक्षन्ते स्मार्तानि गार्ह्याणि च तैरधिकारस्तस्याऽप्यविरुद्धः । ननु च प्रागग्न्याधानात् कर्मभिस्सम्बध्यते गार्ह्यैस्मार्तैश्च, तत्कि- मुच्यते आधाने हि सती कर्मभिस्सम्बध्यत इति ? सत्यम्, अस्मादेव च हेतुनिर्देशादवसीयते-प्रागाधानात् सत्यामपि धर्मसम्पत्तौ प्रजास- म्पत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नाऽतीव दोष इति। अथ यस्या हिताग्नेर्भार्या सत्येव कर्मण्यश्रद्दधाना अशक्ता वा भवति पुत्राश्च मृता अनुत्पन्ना वा तस्य कथम् ? । यद्येषा युक्तिः 'धर्मप्रजासम्पन्न'इति कर्मभिस्सम्बध्यत इति च, तदा कर्तव्यो विवाहः । (न च 'प्रागग्न्याधे या' दित्यस्य विरोधः । अन्यतराभावे कार्येत्यस्यैव स शेषः । न पुनरुभ- याभावे कार्येत्यस्य । भारद्वाजसूत्रे तु यद्यप्यविशेषेणाऽहिताग्नेर्दारानुज्ञा प्रतीयते-"अथ यद्याहिताग्निः पुनर्दारक्रियां कुर्वीत यद्यग्नीनोत्सृजेत् लौकिकास्सम्पद्येरन् तस्य पुनरग्न्याधेयं कुर्वीतेत्याश्मरथ्यः, पुनराध- नमित्यालेखनः, पुनरग्न्याधेयमित्यौडुलोमि,रिति । तथापि तस्याप्यय- मेव विषयः) ॥ १४ ॥ सगोत्राय दुहितरं न प्रयच्छेत् ॥ १५ ॥ कन्यागोत्रमेव गोत्रं यस्य तस्मै कन्या न देया । यथा-हारीताय हारीतीं, वात्स्याय वात्सीमित्यादि ॥ १५ ॥ मातुश्च योनिसम्बन्धेभ्यः ॥ १६ ॥ मातुर्योनिसम्बन्धाः कन्याया मातुलादयः । चकारात् पितुरप्येवम् । तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका । अत्र मनुः- (२) 'असपिण्डा च या मातुरसगोत्रा च या पितुः । १. या. स्मृ. १. ८९. ( ) एतत्कुण्डलान्तर्गतो भागो नास्ति घ. ङ. पुस्तकयोः २. म. स्मृ. ३. ५.

सगोत्रविवाहनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२१ सा प्रशस्ता द्विजातीनां (१)दारकर्मण्यमैथुनी ॥ व्यासः- (२)‘स्नात्वा समुद्वहेत्कन्यां सवर्णां लक्षणान्विताम् । यवीयसीं भ्रातृमतीमसगोत्रां प्रयत्नतः ॥ मातुस्सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविज्ञाने नोद्वहेदविशङ्कितः॥ मातुस्सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ॥ इति ।' गौतमः- (३)‘असमानप्रवरैर्विवाहः । ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च । मातृबन्धुभ्यः पञ्चमात्, इति । कात्यायनः—'प्रवर एषामविवाह इत्येतेषु प्रत्यध्यायमाहत्य वचनं येषामेव प्रवरः तेषामेवाऽविवाह' इति । कारिका च भवति- शतीयानामविवाह एषामिति येषां सूत्रकृदब्रवीत् । तेषामेव विवाहः स्यात् नान्येषामिति धारणे'ति ॥ शङ्खः(४)- 'दारानाहरेत्सद्दशानसमानार्षेयान सम्बन्धानासप्तमपञ्चमात्पितृमा- तृबन्धुभ्यः, इति । वसिष्ठः- (५)‘गृहस्थो विनीतक्रोधहर्षो गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षेयाम- स्पृष्टमैथुनामवरवयसीं भ्रातृमती सदृशीं भार्यां विन्देत । पञ्चमीं मातृ- बन्धुभ्यः सप्तमीं पितृबन्धुभ्यः' इति । हारीतः(६)— 'श्वित्री कुष्ठ्युदरी यक्ष्ममयाव्यल्पायुरनार्षेयम ब्रह्म समानार्षेयमि- त्येतान्यपतितान्यपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजा भवन्तीति । आदित्यषडयज्ञियत्वादनार्षेयम् । अवेदत्वादब्रह्म । एक- कुलत्वात् समानार्षेयमिति । तस्मात् सप्त पितृतः परीक्ष्य पञ्च मातृतो ऽनग्निकां श्रेष्ठां भ्रातृमतीं भार्यां विन्देत ।' पैठीनसिः—असमानार्षेयां कन्यां वरयेत् । पञ्च मातृतः परिहरेत्सप्त पितृतः त्रीन्मातृतः पञ्च पितृतो वा' १. दारकर्मण्यमैथुनी इत्येव मेधातिथ्यादिभिः पाठोऽङ्गीकृतः । कुल्लूकभट्टस्तु 'कर्मणि मैथुने' इति । २. ४. ६. एतदङ्काङ्कितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते । ३. गौ.ध.४.२-५. ५. व. ध ८.१.२.

२२२ आपस्तम्बधर्मसूत्रे [ (प.५.)क.११. याज्ञवल्क्यः-- (१)'अविप्लुतब्रह्मचयो॑ लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥' विष्णुः-- (२)'असगोत्रामसमानप्रवरां भार्यां विन्देत मातृतः पञ्चमात् पितृत- स्सप्तमात् । नारदः-- (३)आसप्तमात्पञ्चमाच्च बन्धुभ्यः पितृमातृतः । अविवाह्यास्सगोत्रास्स्युस्समानप्रवरास्तथा ।' शातातपः-- (४)'परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्यास्समुत्सर्गमतिकृच्छ्रो विशोधनम् ॥ मातुलस्य सुतामूह्वा मातृगोत्रां तथैव च । समानप्रवरां चैव द्विजश्चान्द्रायणं चरेत् ॥' मनुः-- (५)पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनाऽनुपेयास्ताः पतति ह्युपयन्नधः ॥' बौधायनः-- (६)'सगोत्रां चेदमत्योपयच्छेत मातृवदेनां बिभृयात्' । (७)'सगोत्रां गत्वा चान्द्रायणमुपदिशेत् ॥ व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेत् मातृवद्भगिनीवद्धर्मो न दुष्यतीति काश्यप इति विज्ञायते । अथ सन्निपात अविवाहः तदाध्यायं वर्जयेत् । बोधायनस्य १. या. स्मृ. १.५२,५३. २. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु ग्रन्थान्तरेष्वस्या विष्णु- स्मृतित्वमुक्तम् । ३. नार. स्मृ. व्यवहा. १२. श्लो. ७. ४. मुद्रितशातातपस्मृतौ लघुशातातपस्मृतौ वृद्धशातातपस्मृतौ वा नेदं बचनमुपलभ्यते । ५. म. स्मृ. ११. १७१, १७२. ६. बौ ध. २.१.३८. ७. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ. सू. (प्रवर) १३. ५५.