आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 223, कुल 399 में से
संदर्भ में पढ़ेंनियमादन्यत्राऽप्रसङ्गात् । इदं तर्हि प्रयोजनम्-यदा पिताऽनुपेतः पुत्रस्तु प्रायश्चित्तं कृत्वा कृतोपनयनः तदा तं प्रति पितुरनुपेतस्योच्छिष्टं प्रति- षिध्यते । एवं ज्येष्ठेऽपि द्रष्टव्यम् । एतदपि नास्ति प्रयोजनम् । उक्तं हि 'धर्मविप्रतिपत्तावभोज्य ( १.४.१२ ) मिति । 'तेषामभ्यागमनं भो- जनं विवाहमिति च वर्जये' (१.१.३३) दिति च । तथा स्त्रीणामित्येतत् किमर्थम् ? मातुरुच्छिष्टप्रतिषेधार्थम् । कथं प्रसङ्गः ? 'मातरि पितर्या- चार्यवच्छुश्रूषे' (१.१४.५.) ति वचनात्, 'यदुच्छिष्टं प्राश्नाति हविरुच्छि ष्टमेव तत्'(१.४.१,२) दित्याचार्योच्छिष्टस्य हविष्ट्वेन संस्तवाच्च । (१) एवमपि 'पितुर्ज्येष्ठस्ये'त्यत्र पितु र्ग्रहणादेव सिद्धम् । तस्मात् केषु चिज्- नपदेषु भार्ययाऽनुपेतेन च सह भोजनमाचरन्ति । तथा च बौधायनः- (२)'यानि दक्षिणतस्तानि व्याख्यास्यामः । यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजन'मिति । तस्य दुराचारत्वमनेन प्रतिपाद्यते ॥ सर्वाण्युदकपूर्वाणि दानानि ॥ ८ ॥ 'सर्वाणी'ति वचनात् भिक्षाप्युदकपूर्वमेव देया ॥ ८ ॥ यथाश्रुति विहारे ॥ ९ ॥ विहारे यज्ञकर्मणि यानि दानानि दक्षिणादीनि , तानि यथाश्रुत्येव । नोदकपूर्वाणि ॥ ९ ॥ ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः॥ ये नित्या भाक्तिका भक्तार्हाः कर्मकरादयः तेषामुपरोधो यथा न भवति तथा वैश्वदेवान्ते अभ्यागतेभ्यः संविभागः कर्तव्यः ॥ १० ॥ काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् ॥ ११ ॥ दासो भूत्वा यः कर्म करोति स दासकर्मकरः तं आत्माद्युपरोधे नापि नोपरुन्ध्यात् । किं पुनरागसार्थं तं नोपरुन्ध्यादिति(३) ॥ ११ ॥ तथा चाऽऽत्मनोऽनुपरोधं कुर्याद्यथा कर्मसु समर्थस्स्यात् ॥ १. नैतदपि सारम् । 'पितुर्ज्येष्ठस्य च' इत्यत्रपितुर्ग्रहणादेव तस्या अप्रसक्तेः, इति. च. पु २. बौ. ध. १. १. १८, १९. ३. 'अतस्त केवलं कर्मकर नोपरुन्ध्यात् इत्यधिकः पाठः क. पुस्तके ।