आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 224, कुल 399 में से
संदर्भ में पढ़ेंअतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१३ कर्मसु अग्निहोत्रादिषु आर्जनेषु च यथा स्वयं समर्थो भवति तथाऽऽ- त्मान नोपरुन्ध्यात् कुटुम्बी ॥ १२ ॥ अथाऽप्युदाहरन्ति— (१)‘अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशाऽरण्यवासिनः । द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥ आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नता’मिति॥ अथैतस्मिन्नात्मानं नोपरुन्ध्यादिति विषये (२)श्लोकावुदाहरन्ति । मुनेः सन्न्यासिनः । भक्ष्या अष्टौ ग्रासाः आस्याविकारेण । अरण्यवासी वानप्रस्थ । तस्य षोडश । द्वात्रिंशत् ग्रासाः गृहस्थस्य । प्रथमार्थे द्वितीया । ब्रह्मचारिणस्तु विद्यार्थस्य नैष्ठिकस्य च ग्रासनियमो नास्ति । द्वितीयेन श्लोकेना- हिताग्निविषये ‘कालयोर्भोजन’ (२. १. २.) मित्ययमपि नियमो नास्तीति(३) प्रतिपाद्यते । अनडुद्ग्रहणं दृष्टान्तार्थम् । ब्रह्मचारिग्रहणं दृढार्थम् । सिध्यन्ति स्वकार्यक्षमा भवन्ति ॥ १३ ॥ इत्यापस्तम्बधर्मसूत्रे नवमी कण्डिका ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलाया द्वितीयप्रश्ने चतुर्थः पटलः ॥ ४ ॥ १. एतच्छ्लोकद्वयानन्तर गृहस्थो ब्रह्मचारी वा योऽनश्नन् सुतपश्चरेत् । प्राणा- ग्निहोत्रलोपेन अवकीर्णी भवेत् सः । इत्यधिकसूत्रभागो घ. पुस्तके ॥ २. श्लोकान् इति घ. पु. ३. प्रतिपादयितुम् इति पु क.