आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 225, कुल 399 में से
संदर्भ में पढ़ेंअथ पञ्चमः पटलः ॥ भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो माता- पित्रोर्बुभूर्षाऽर्हतश्च नियमविलोेपः ॥१॥ भिक्षणं याचनम् । तत्राऽऽचार्यादयो निमित्तम् । बुभूर्षा भर्तुमिच्छा । अर्हतो विद्यादिमतोऽग्निहोत्रादिनियमे योग्यस्याऽर्थस्याऽभावेन लोपः ॥ १ ॥ तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ॥ २ ॥ तत्रैवंभूते भिक्षणे याचतः श्रुतवृत्तादिकान् गुणान् समीक्ष्य शक्त्यनुरू- पमवश्यं देयम् । अदाने (१)प्रत्यवेयात् । गौतमस्तु निमित्तान्तरमप्याह- (२)'गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनध्वंसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि । भिक्षमाणेषु कृतान्नमितरेष्वि'ति । (३)वैश्व जितो विश्वजिद्यागस्य कर्ता सर्वस्वदक्षिणः ॥ २ ॥ (४)इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ॥ ३ ॥ इन्द्रियद्वारा आत्मनः प्रीतिरिन्द्रियप्रीतिः । तामर्थयमानो यो भिक्षते स्रक्चन्दनादि तन्मूल्यं वा । तद्भिक्षणं नियमेन दानस्य निमित्तं न भवति ॥ ३ ॥ न तदाद्रियेत ॥ ४ ॥ तस्मान् न तदाद्रियेत । अदानेऽपि न प्रत्यवायः। विवाहोऽपि द्वितीयो न निमित्तं सत्यां प्रथमायां धर्मप्रजासम्पन्नायाम् । तदर्थमिदं वचनम् । अन्यत्र प्राप्त्यभावात् ॥ स्वकर्म ब्राह्मणस्याऽध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं सिलोञ्छः ॥ ५ ॥ 'सर्ववर्णानां स्वधर्मानुष्ठान ( २.२.२ ) इत्युक्तम् । तेऽमी स्वधर्मा १. प्रत्यवायात् इति. क. घ. पु २. गौ. ५. २१, २२ ३. विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्वदक्षिणेन यजेत' इत्यनेन विहितेन या- गेनेष्ट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः । ४. इदमुत्तरं च सूत्रमेकीकृतं च. पु. । इन्द्रियमनिमित्तम् ॥ ४ ॥ तस्मान्न तदाद्रियेत ॥ ५ ॥ इति तच्छब्दघटितं भिन्नसूत्रतया च पठित क० पुस्तके ।