आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 233, कुल 399 में से
संदर्भ में पढ़ें२२२ आपस्तम्बधर्मसूत्रे [ (प.५.)क.११. याज्ञवल्क्यः-- (१)'अविप्लुतब्रह्मचयो॑ लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥' विष्णुः-- (२)'असगोत्रामसमानप्रवरां भार्यां विन्देत मातृतः पञ्चमात् पितृत- स्सप्तमात् । नारदः-- (३)आसप्तमात्पञ्चमाच्च बन्धुभ्यः पितृमातृतः । अविवाह्यास्सगोत्रास्स्युस्समानप्रवरास्तथा ।' शातातपः-- (४)'परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्यास्समुत्सर्गमतिकृच्छ्रो विशोधनम् ॥ मातुलस्य सुतामूह्वा मातृगोत्रां तथैव च । समानप्रवरां चैव द्विजश्चान्द्रायणं चरेत् ॥' मनुः-- (५)पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनाऽनुपेयास्ताः पतति ह्युपयन्नधः ॥' बौधायनः-- (६)'सगोत्रां चेदमत्योपयच्छेत मातृवदेनां बिभृयात्' । (७)'सगोत्रां गत्वा चान्द्रायणमुपदिशेत् ॥ व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेत् मातृवद्भगिनीवद्धर्मो न दुष्यतीति काश्यप इति विज्ञायते । अथ सन्निपात अविवाहः तदाध्यायं वर्जयेत् । बोधायनस्य १. या. स्मृ. १.५२,५३. २. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु ग्रन्थान्तरेष्वस्या विष्णु- स्मृतित्वमुक्तम् । ३. नार. स्मृ. व्यवहा. १२. श्लो. ७. ४. मुद्रितशातातपस्मृतौ लघुशातातपस्मृतौ वृद्धशातातपस्मृतौ वा नेदं बचनमुपलभ्यते । ५. म. स्मृ. ११. १७१, १७२. ६. बौ ध. २.१.३८. ७. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ. सू. (प्रवर) १३. ५५.