भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

२२२ आपस्तम्बधर्मसूत्रे [ (प.५.)क.११. याज्ञवल्क्यः-- (१)'अविप्लुतब्रह्मचयो॑ लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥' विष्णुः-- (२)'असगोत्रामसमानप्रवरां भार्यां विन्देत मातृतः पञ्चमात् पितृत- स्सप्तमात् । नारदः-- (३)आसप्तमात्पञ्चमाच्च बन्धुभ्यः पितृमातृतः । अविवाह्यास्सगोत्रास्स्युस्समानप्रवरास्तथा ।' शातातपः-- (४)'परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्यास्समुत्सर्गमतिकृच्छ्रो विशोधनम् ॥ मातुलस्य सुतामूह्वा मातृगोत्रां तथैव च । समानप्रवरां चैव द्विजश्चान्द्रायणं चरेत् ॥' मनुः-- (५)पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनाऽनुपेयास्ताः पतति ह्युपयन्नधः ॥' बौधायनः-- (६)'सगोत्रां चेदमत्योपयच्छेत मातृवदेनां बिभृयात्' । (७)'सगोत्रां गत्वा चान्द्रायणमुपदिशेत् ॥ व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेत् मातृवद्भगिनीवद्धर्मो न दुष्यतीति काश्यप इति विज्ञायते । अथ सन्निपात अविवाहः तदाध्यायं वर्जयेत् । बोधायनस्य १. या. स्मृ. १.५२,५३. २. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु ग्रन्थान्तरेष्वस्या विष्णु- स्मृतित्वमुक्तम् । ३. नार. स्मृ. व्यवहा. १२. श्लो. ७. ४. मुद्रितशातातपस्मृतौ लघुशातातपस्मृतौ वृद्धशातातपस्मृतौ वा नेदं बचनमुपलभ्यते । ५. म. स्मृ. ११. १७१, १७२. ६. बौ ध. २.१.३८. ७. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ. सू. (प्रवर) १३. ५५.

विवाहभेदाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२३ तत्प्रमाणं कर्तव्यम् । मानव्यो हि प्रजा इति विज्ञायते इति । गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चाशदेवेषां प्रवरा ऋषिदर्शनात् ॥ एक एव ऋषियांवत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्वभूद्भृग्वङ्गिरोगणात् ॥' इति । सुमन्तुः-- (१) पितृपत्न्यस्सर्वा मातरस्तद्भातरो मातुलाः तत्सुता मातुलसुता- स्तस्मात्ता नोपयन्तव्या' इति ॥ १६ ॥ ब्राह्मे विवाहे बन्धुशीललक्षणसम्पन्नश्रुतारोग्याणि बुध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेच्छक्ति- विषयेणाऽलंकृत्य ॥ १७ ॥ ब्रह्मणा दृष्टो ब्राह्मः । तस्मिन् विवाहे वरस्य बन्वादीन् बुध्वा परीक्ष्य प्रजां दुहितरं सहत्वकर्मभ्यः सहकर्तव्यानि यानि कर्माणि तेभ्यः, तानि कर्तुम्, प्रतिपादयेत् दद्यात् । शक्तिविषयेण विभक्तिप्रतिरूपोऽयं निपातो य- थाशक्त्येत्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाहः। प्रजाऽसहत्वकर्मभ्य' इति पाठे प्रजार्थे सहत्वकर्मार्थे चेति ॥ १७ ॥ आर्षे दुहितुमते मिथुनौ गावौ देयौ ॥ १८ ॥ ऋषिभिर्दृष्टे विवाहे मिथुनौ गावौ स्त्रीगवी पुंगवश्च दुहितुमते देयौ । एष आर्षः ॥ १८ ॥ दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ १९ ॥ देवैर्दृष्टे विवाहे यज्ञतन्त्रे वितते ऋत्विजे कर्म कुर्वते कन्यां दद्यात् । एष दैवो विवाहः ॥ १९ ॥ मिथः कामात्सांवर्तते स गान्धर्वः ॥ २० ॥ यत्र कन्यावरौ रहसि कामात् मिथः परस्परं रागात् सांवर्तेते मिथुनी- भवतः स गान्धर्वो विवाहः । समो दीर्घः पूर्ववत् । अत्र संयोगोत्तरकालं विवाहसंस्कारः कर्तव्यः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकादशी कण्डिका ॥ ११ ॥ १. सु. स्मृ.

२२४ आपस्तम्बधर्मसूत्रे [ (प.५) क. १२. शक्तिविषयेण द्रव्याणि दत्त्वाऽऽवहेरेन् स आसुरः॥१॥ यत्र विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्त्वाऽऽवहेरेन् कन्यां स आसुरः। (१)‘वित्तेनाऽऽनतिक्रीमतामासुर’ इति गौतमः। तेन क- न्यायै गृहक्षेत्राभरणादिदानेन विवाहो नाऽऽसुरः ॥ १ ॥ दुहितृमतः प्रोथयित्वाऽऽवहेरेन् स राक्षसः ॥ २ ॥ दुहितृमतः कन्यावतः पित्रादीन् प्रोथयित्वा प्रमथ्य यत्राऽऽवहेरेन् स राक्षसो विवाहः । (२)‘हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत् स राक्षस’ इत्याश्वलायन. । अत्रापि विवाहसंस्कारः कर्तव्यः । द्वौ चाऽपरौ विवाहौ शास्त्रान्तरेषूक्तौ । तत्राऽऽश्वलायनः-(३)‘सह धर्मं चरतमिति प्राजापत्यः । सुप्तां प्रमत्तां वाऽपहरेत्स पैशाच’ इति । ताविह पृथङ्नोक्तौ ब्राह्मराक्ष- सयोरन्तर्भावादिति ॥ २ ॥ तेषां त्रय आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ॥ ३ ॥ तेषां विवाहानां मध्ये आद्यास्त्रयो ब्राह्मार्षदैवा प्रशस्ताः । तत्रापि पूर्वः पूर्वो ऽतिशयेन प्रशस्त इति ॥ ३ ॥ यथायुक्तो विवाहस्तथा युक्ता प्रजा भवति ॥ ४ ॥ प्रशस्ते विवाहे जाता प्रजाऽपि प्रशस्ता भवति । निन्दिते निन्दिता तत्र मनुः— (४) ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः । ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ उत्तरेषु च शिष्टेषु नृशंसानृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मसमुज्झिताः ॥ प्राजापत्येन सह ब्राह्माद्याश्चत्वारो ब्राह्मणस्य । गान्धर्वराक्षसौ क्ष- त्रियस्य । आसुरं तु वैश्यशूद्रयोः । पैशाचो न कस्यचिदपि ॥ ४ ॥ पाणिसम्मूढं ब्राह्मणस्य नाऽप्रोक्षितमभितिष्टेत् ॥ ५ ॥ १. गौ. ध. ४.११. २ आश्व. गृ. १.४.३२. ३. आश्व. गृ. ४.२५. ४. म. स्मृ. ३.३९-४१.

अभिनिर्मुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२५ ब्राह्मणस्य पाणिना समूढमुपलिप्तं सम्मृष्टं वा भूप्रदेशमप्रोक्षितं ऽना- भितिष्ठेत् नाधितिष्ठेत् । प्रोक्ष्यैवाऽधितिष्ठेदिति ॥ ५ ॥ अग्निं ब्राह्मणं चाऽन्तरेण नाऽतिक्रामेत् ॥ ६ ॥ अग्नेर्ब्राह्मणस्य च मध्ये न गच्छेत् ॥ ६ ॥ ब्राह्मणांश्च ॥ ७ ॥ अन्तरेण नाऽतिक्रामेदित्येव । ब्राह्मणाना च मध्ये न गच्छेत् ॥ ७ ॥ अनुज्ञाप्य वाऽतिक्रामेत् ॥ ८ ॥ स्पष्टम् ॥ ८ ॥ अग्निमपश्च न युगपद्धारयीत ॥ ९ ॥ अग्निमुदकञ्च न युगपद्धारयेत् ॥ ९ ॥ नानाग्नीनां च सन्निपातं वर्जयेन् ॥ १० ॥ पृथगवस्थितानामग्नीनामेकत्र समावपनं वर्जयेत न कुर्यात् । अग्ना- वह्निं न प्रक्षिपेदित्यन्ये (१) ॥ १० ॥ प्रतिमुखमग्निमाह्रियमाणं नाऽप्रतिष्ठितं भूमौ प्रदक्षि- णीकुर्यात् ॥ ११ ॥ यदाऽस्य गच्छतः प्रतिमुखमग्निराह्रियते तदा न तं प्रदक्षिणीकुर्यात् स चेद्भूभौ प्रतिष्ठितो न भवति । प्रतिष्ठिते त्वग्नौ दृष्टे प्रदक्षिणीकुर्या- दिति ॥ ११ ॥ पृष्ठतश्चाऽऽत्मनः पाणी न संश्लेषयेत् ॥ १२ ॥ स्वस्य पृष्ठभागे स्वपाणिद्वय न संश्लेषयेन्न बध्नीयात् ॥ १२ ॥ स्वपन्नभिनिर्मुक्तो नाऽश्नन् वाग्यतो रात्रिमासीत श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् ॥ १३ ॥ (२) 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिर्मुक्ताभ्युदितौ तौ यथाक्रमम् ॥' स्वपन्नभिनिर्मुक्तो नाश्नन्भुञ्जानस्तूष्णीं भूतो रात्रि सर्वामासीत न शयीत । अथाऽपरद्यु' उदकमुपस्पृश्य प्रातः स्नात्वा वाचं विसृजेत् । अयमस्य निर्वेषः ॥ १. एतदनन्तरं-विनावचनम् । आवापवचने सति कुर्यात् । इत्याधिक पाठः घ. पु. २. अमरको. ब्र. सूर्योदयकाले यः स्वपिति सोऽभ्युदितः । सूर्यास्तकाले यः स्वपिति सोऽभिनिर्मुक्तः । आप० ध० २६

२२६ आपस्तम्बधर्मसूत्रे [ (प्र.५.)क.१२. स्वपन्नभ्युदितो नाऽश्वान्वाग्यतोऽहस्तिष्ठेत् ॥१४॥ पूर्वेण गतम् । 'उदकमुपस्पृश्य वाच विसृजेदिति चात्राऽपेक्ष्यते । तत्राऽस्तमिते स्नानप्रतिषेधात् सायमेव स्नात्वा वाचं विसृज्य सन्ध्या- मुपासीत ॥ १४ ॥ आतामितोः प्राणमायच्छेदित्येके ॥ १५ ॥ यावदङ्गानां ग्लानिर्भवति तावत्प्राणमायच्छेत् प्राणवायुमाकृष्य धारयेत् । प्राणायामं कुर्यादित्येके मन्यते । शक्त्यपेक्षो विकल्पः । तत्र मनुः- (१)सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥' इति । एवमावर्तयेद्यावद्ग्लानिः ॥ १५ ॥ स्वप्नं वा पापकं दृष्ट्वा ॥ १६ ॥ पापकस्वप्नो दुःस्वप्नः मर्कटास्कन्दनादिः । तं च दृष्ट्वा ॥ १६ ॥ अर्थे वा (२)सिसाधयिषन् ॥ १७ ॥ अर्थः प्रयोजनम् । तच्च दृष्टमदृष्टं वा साधयितुमिच्छन् ॥ १७ ॥ नियमातिक्रमे चाऽन्यस्मिन् ॥ १८ ॥ नियमानां 'उदङ्मुखो मूत्रं कुर्यादि' (१.३१.१.) त्येवमादीनामाते क्रमे च आतामितोः प्राणमायच्छेदिति सर्वत्र शेषः ॥ १८ ॥ दोषफलसंशये न तत् कर्तव्यम् ॥ १९ ॥ यस्मिन् कर्मणि कृते पक्षे दोषः फलं सम्भाव्यते न तत् कुर्यात्, यथा सभये देशे एकाकिनो गमनमिति ॥ १९ ॥ एवमध्यायानध्याये ॥ २० ॥ संशय इत्युपसमस्तमप्यपेक्ष्यते । अध्यायोऽनध्याय इति संशयेऽप्येवं न तत् कर्तव्यमिति । 'सन्धावनुस्तनित' ( १.९.२०. ) इत्युदाहरणम् । पूर्वस्यैवाऽयं प्रपञ्चः ॥ २० ॥ न संशये प्रत्यक्षवद्ब्रूयात् ॥ २१ ॥ संशयितमर्थमात्मनोऽज्ञानपरिहाराय प्रत्यक्षवत् निश्चितवन्न ब्रूयात् ॥ १. सर्वेष्वादर्शपुस्तकेषु मनुवचनत्वेनैवोपन्यस्तमिदम् । न कुत्राऽपि तु मुद्रित मनुस्मृतिपुस्तकेषूपलभ्यते । बौधायनधर्मसूत्रे ४. १. २८. तूपलभ्यते । २. सिसाधीयषुः, इति, घ. पु.

अभिनिर्मुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः। २२७ अभिनिर्मुक्ताभ्युदितकुनखिश्यावदग्रदिधिषुदिधिषू- पतिपर्याहितपरीष्टपरिवित्तपरिविन्नपरिवि- विदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वे- षो गरीयान् गरीयान् ॥ २२ ॥ आद्यौ द्वौ गतौ। कुनखी कृष्णनखः। श्यावा दन्ता यस्य स श्यावदन् विवर्णदन्तः। '(१)विभाषा श्यावारोकाभ्यामि' ति दन्नादेशः। तस्य न लोपश्चान्दसः। ज्येष्ठायामनूढायां पूर्वं कनीयस्या वोढा अग्रदिधिषुः। पश्चादितरस्या वोढा दिधिषूपतिः। ज्येष्ठे अकृताधाने कृताधानः कनिष्ठः पर्याधाता। ज्येष्ठः पर्याहितः। ज्येष्ठे अकृतसोमयागे कृतसोमयागः कनिष्ठः परीयष्टा। ज्येष्ठः परीष्टः। अकृतविवाहे ज्येष्ठे कृतविवाहः कनिष्ठः (२)परि- वेत्तेति प्रसिद्धः। ज्येष्ठः (३)परिवित्तः। (४)ज्येष्ठस्य भार्यामुपयच्छमानः परिविन्नः। यस्मिन्नगृहीतभागे वा कनिष्ठो भागं गृह्णाति स ज्येष्ठः परिविन्नः। कनिष्ठः परिविविदानः। चकारः पर्याधातृप्रभृतीनां समुच्चयार्थः। एतेष्व- भिनिर्मुक्तादिषु यो य उत्तरस्तस्मिंस्तस्मिन्द्वादशमासादिरशुचिकर- निर्वेषो यः पूर्वमुक्तः तत्र तत्र गरीयान् भवति। पूर्वत्र पूर्वत्र लघी यान्। अभिनिर्मुक्ताभ्युदितयोरनन्तरोक्तं प्रायश्चित्तद्वयमपि विक- ल्पेन भवति ॥ २२ ॥ तच्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २३ ॥ यस्मिन् कौर्नख्यादिके लिङ्गे यत् प्रायश्चित्तमुक्तं तच्चरित्वा तत् कौर्नख्या- दिकं लिङ्गमुद्धरेदित्येके मन्यन्ते। अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका ॥१२॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. पा.सू.५.४ ११८. २. परिवित्त इति प्रसिद्धः इति.ख.ङ.च पुस्तकेष्वपपाठः। ३. परिवित्ति इति ख च. पुस्तकयो. पाठः। अत्र बोधायनधर्मसूत्रव्याख्या २. १. ३. द्रष्टव्या। ४. ज्येष्ठे चागृहीतभागे कनिष्ठो भागं गृह्णाति स परिविविदानः। परिविन्न इतरः। इत्येव पाठो घ. पुस्तके।

अथ षष्ठः पटलः ॥ सवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्माभिस्सम्बन्धः ॥ १ ॥ सवर्णा चाऽसावपूर्वा च शास्त्रविहिता चेति कर्मधारयः । सवर्णा सजातीया, ब्राह्मणस्य ब्राह्मणीत्यादि । अपूर्वा । अनन्यपूर्वा अन्यस्मा अदत्ता, न विद्यते पूर्वः पतिरस्या इति । शास्त्रविहिता शास्त्रोक्तेन विवा- हसंस्कारेण संस्कृता ‘सगोत्राय दुहितरं न प्रयच्छे ( २. ११. १५ ) दित्यादिशास्त्रानुगुणा वा । एवम्भूतायां भार्यायां यथर्तु गृह्योक्तेन ऋतुगमनकल्पेन गच्छतो ये पुत्रा जायन्ते तेषां ‘स्वकर्म ब्राह्मणस्ये’ ( २. १०. ४ ) त्यादिना पूर्वमुक्तैः कर्माभिस्सम्बन्धो भवति । ( गच्छथ इति थकारोऽपपाठः ) ॥ १ ॥ दायेन चाऽव्यतिक्रमश्चोभयोः ॥ २ ॥ उभयोर्मातापित्रोर्दायेन च तेषां सम्बन्धो भवति अव्यतिक्रमश्च । च इति चेदर्थे अव्यतिक्रमश्चेत्, यदि ते मातरं पितरं च न व्यतिक्रमे- युः । व्यतिक्रमे तु दायहानिरिति । अपर आह—‘उभयोरपि दायेन तेषां व्यतिक्रमो न कर्तव्यः । अवश्यं देयो दायस्तेभ्य इति ॥ २ ॥ पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ॥ ३॥ अन्येन पाणिग्रहणेन तद्वती पूर्ववती । असंस्कृता विवाहसंस्कारर- हिता । वर्णान्तरं ब्राह्मणादेः क्षत्रियादिः । तेषु पूर्ववत्यादिषु मैथुने सति दोषो भवति । कस्य ? तयोरेव मिथुनीभवतोः ॥ ३ ॥ तत्राऽपि दोषवान् पुत्र एव ॥ ४ ॥ तत्रेति सप्तम्यास्त्रल्(१) ‘इतराभ्योऽपि दृश्यन्त’ इति। ताभ्यामुमा- भ्यामपि पुत्र एवाऽतिशयेन दोषवान् । तत्र पूर्ववत्यामुत्पन्नौ कुण्डगोलकौ (२)‘पत्यौ जीवति कुण्डस्स्यान्मृते भर्तरि गोलक’ इति । असंस्कृतायामुत्पन्नस्य नामान्तरं नास्ति । किं तु दुष्टत्वमेव । ( ) कुण्डलान्तर्गतो भागो नास्ति घ. ङ. पुस्तकयोः । १. पा. सू. ५. ३. १४. २. म. स्मृ. ३. १७४.

वर्णान्तरे तु जात्यन्तरम् । तत्र गौतमः- (१)'अनुलोमा. पुनरनन्तरैकान्तरद्व्यन्तरासु जातास्सवर्ाम्बष्ठोग्र निषाद्दौष्यन्तपारशवाः । प्रतिलोमास्तु सूतमागधायोगवक्षत्तृवैदेहक- चण्डाला' इति । एवकारो दुहितृनिवृत्त्यर्थः । तथा च वसिष्ठः- (२) 'पतितेनोत्पादितः पतितो भवत्यन्यत्र स्त्रियास्सा हि परगा मिनी तामरिक्थामुपेयादिति । (३)'स्त्रीरत्नं दुष्कुलादपी'ति मनुः ॥ ४ ॥ पुत्रेभ्यो दायभागं वक्ष्यन् अन्यस्य भार्यायामन्येनोत्पादितः किमु त्पादयितुः ? अहोस्वित् क्षेत्रिण इति विचारे निर्णयमाह- उत्पादितुः पुत्र इति हि ब्राह्मणम् ॥ ५ ॥ न केवल ब्राह्मणमेव । वैदिकगाथा अप्यत्रोदाहरन्तीत्याह- अथाप्युदाहरन्ति- इदानीमेवाहं (४)जनकः स्त्रीणामीर्ष्यामि नो पुरा । यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् । रेतोधाः पुत्रं नयति परेत्य यमसादने । तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः । अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः । जनयितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ६ ॥ जनयितुः पुत्रः क्षेत्रिणो वेति विवादे पराजितस्य क्षेत्रिणो वचनम् एतावन्त कालमहं जनको मन्यमानः इदानीमेव स्त्रीणामीर्ष्यामि परपुरुषसंसर्गे न सहे । कदा इदानीम् ? यदा यमस्य सादने पितृलोके जनयितुः पुत्रो भवति पुत्रकृत्यं परलोकगतस्य जनयितुरेव न क्षेत्रिण इत्यब्रुवन् धर्मज्ञाः । उक्त एवार्थः किञ्चिद्विशेषेणोच्यते-रेतोधा बीजप्रदः पुत्र नयति पुत्रदत्तं पिण्डा- दिकमात्मानं नयति प्रापयति । परेत्य मृत्वा । यमसादने यमलोके । तस्मा- त्कारणात् भार्यां रक्षन्ति पररेतसो बिभ्यन्तः । बिभ्यतः छान्दसो नुम् । अतो यूयमप्यप्रमत्ता अवहिता भूत्वा एत तन्तुं प्रजासन्तान रक्षथ । लोडर्थे १. गौ. ध. ४ १६-१७ २. व ध. १३. ६. मुद्रितव.ध. कोशेषु पाठभेदो दृश्यते। ३. म स्मृ. २. २३८ ४ 'जनक' इति सम्बुद्ध्यन्ततया पठित बौ. ध २. २. ३४-३६

२३० आपस्तम्बधर्मसूत्रे [ (प्र.६.) क. १३. लट् । रक्षेतेत्यर्थः । किमर्थम् ? वः युष्माकम् क्षेत्रे परबीजानि पररेतांसि मा वाप्सुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः । मा वाप्सत उप्तानि मा भूवन् । मोप्येरन् । कथमिति ? (अपर आह-परशब्दाज्जसो लुक । परे पुरुषाः वः क्षेत्रे बीजानि मा वाप्सुरिति ।) यस्मात् साम्पराये परलोके जनयि तुरेव पुत्रफलं भवति वेत्ता (१)परिणेता क्षेत्री तु एतत्तन्तुं मोघं निष्प्रयोजनं कुरुते आत्मसात्करोति। इतिशब्दो गाथासमाप्तौ। एतच्च क्षेत्रिणोऽनुज्ञा- मन्तरेण पुत्रोत्पादनविषयम् । यदा तु क्षेत्री वन्ध्यो रुग्णो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति, यदा वा सन्तानक्षये विधवा नियुज्यते यथा विचित्रवीर्यस्य क्षेत्रे सत्यवतीं व्यासेन । तदुत्पन्नः पुत्र उभयोरपि पुत्रो भवति-बीजिनः क्षेत्रिणश्च । द्व्यामुष्यायणश्च स भवति । तथाचा- चार्य एवाह- (२) 'यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये'दिति । याज्ञवल्क्योऽप्याह- (३) 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥' इति । नारदोऽपि- (४)द्व्यामुष्यायणको दद्याद्द्वाभ्यां पिण्डोदके पृथक् । रिक्थादर्थं समादद्याद्बीजक्षेत्रवतोस्तथा ॥' इति ॥ ६ ॥ यदि पूर्ववत्यादिषु मैथुने दोषः, कथं तर्हि (५) उचथ्यभारद्वाजौ व्य त्यस्य भार्ये जग्मतुः(६) वसिष्ठश्चण्डालीमक्षमालाम् । (७)प्रजापतिश्च स्वां दुहितरम् । तत्राऽऽह- दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम् ॥ ७ ॥ सत्यं दृष्टोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न धर्मः, गृह्य माणकारणत्वात् । न चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा (८) जामद ग्न्थेन रामेण पितृवचनादविचारण मातुश्चिरश्छिन्नम् ॥ ७ ॥ ( ) एतत्कुण्डान्तर्गतोभागः ख च पुस्तकयोरेवास्ति । तत्र 'कथमिति' इति नास्ति। १. 'भार्याया लब्धा' इति ख. च. पु. २. आप श्रौ १. ९. ७. ३. या. स्मृ. २. १३०. ४. नार स्मृ १३. ४३. ५. महाभारते द्रष्टव्यम् । ६. म. स्मृ. ९. २३. महाभा. व. १३२. च द्रष्टव्यम् । अरुन्धत्या एवाक्षमालेति नामान्तरम् । ७. ता. ब्रा. ८. २. १०. द्रष्टव्यम् । ८. कथेयं महाभा. वन ११६ अ. द्रष्टव्या. ।

पुत्र दानादिनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३१ किमिदानीं तेषामपि दोषः ? नेत्याह-- (१)तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ॥ ८ ॥ तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न प्रत्यवयन्ति । (२) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हाऽस्य पाप्मानः प्रहूयन्ते इति (३)श्रुतेः ॥ ८ ॥ न चैतावता ऽर्वाचीनानामपि तथा प्रसङ्ग इत्याह- तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरः ॥ ९ ॥ तदिति(४) नपुंसकमनपुंसकेने'त्येकशेष एकवद्भावश्च । तं व्यति- क्रमं तच्च साहसमन्वीक्ष्य दृष्ट्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानीं- न्तनः सीदति प्रत्यवैति । न ह्यग्निः सर्वं दहतीत्यस्माकमपि तथा श- क्तिरिति ॥ ९ ॥ पुत्रप्रसङ्गेनाऽऽह- दानं क्रयधर्मश्चाऽपत्यस्य न विद्यते ॥ १० ॥ दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात् स्वीकारसामान्याच्च । अप त्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधेषु पुत्रेषु दत्त क्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्वान्नाऽयं सामान्येन प्रतिषेधः । किं तर्हि ? ज्येष्ठपुत्रविषयः, एकपुत्रविषयः, स्त्रीविषयो वा । तथा च वसिष्ठः- (५)न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृह्णी- याद्वा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रातगृह्णीयाद्वा अन्यत्राऽनुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राज्ञे निवेद्य निवे शनस्य मध्ये अग्निमुपसमाधाय सम्परिस्तीर्य व्याहृतीभिर्हुत्वाऽदूर बान्धवं सन्निकृष्टमेव प्रतिगृह्णीया' दिति । विश्वजिति च सर्वस्वदाने गवादिवदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्ध । तत्र उपपात १. इदमग्रिमं सूत्रं पद्यात्मना निबद्ध तन्त्रवार्तिके । २. छान्दो. ५. २४. ३. 'छान्दोग्ये श्रूयते' इत्याधिक ख. च. पु ४. पा. सू १. २. ६९. ५. व. ध. १५. ३-६.

२३२ आपस्तम्बधर्मसूत्रे [ (प.६) क. १३. केषु याज्ञवल्क्य आह- (१)'नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ।' इति । बह्वृचब्राह्मणेऽपि शुनश्शेपोपाख्याने दृश्यते-(२) स ज्येष्ठं पुत्रं नि गृह्णान उवाचे' त्यादि । पुत्रप्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्र- विषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपत्यमिति । (३) ऋणमस्मिन् सन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥' इति ॥१०॥ विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दु- हितृमतेऽतिरथं शतं देयं तन्मिथुयाकुर्यादिति तस्यां क्रयशब्दस्संस्तुतिमात्रं धर्माद्धि सम्बन्धः ॥११॥ आर्षे विवाहे दुहितृमते दान कंचिदङ्गं श्रूयते । तस्माद्दुहितृमते रथेनाधिकं गवां शतं देयम् । तच्च दुहितृमान् मिथुया कुर्यात् । मिथ्या कुर्यात् । (४) मा देवानां मिथुयाऽकर्माभगधेय" मिति दृश्यते । मिथुया कुर्यादिति कोऽर्थः वरायैव पुनर्दद्यादिति । तद्दानं काम्यं कामनानिमित्तम् । 'यथा युक्तो विवा हस्तथायुक्ता प्रजा भवतीति (२.१०.४) ऋषितुल्याः पुत्रा यथा स्युरिति ततश्च धर्मार्थं न प्रजार्थम्, विक्रयार्थम् । यस्तु तस्यां विवाहक्रियायां क्रयशब्दः कचित् स्मृतौ दृश्यते, स संस्तुतिमात्रम् द्रव्यप्रसादसाम्यात् । न मुख्यक्रयत्वप्रतिपादनार्थम् । कुतः ? हि यस्मात् धर्मादेव हेतोः सम्बन्धो दम्पत्योरिति । आर्षे दुहितृमते मिथुनौ गावौ देयावित्यत्राप्येष एव न्यायः । अत्र मनुः- (५)'यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणा मानृशंस्यं च केवलम् ॥' इति । एतच्च सर्वं 'दानं क्रयधर्मश्चाऽपत्यस्य न विद्यत' इत्यस्य व्यभिचार- निवृत्त्यर्थं कर्तव्यमित्युक्तम् ॥ ११ ॥ अथ दायविभागः - एकधनेन ज्येष्ठं तोषयित्वा ॥ १२ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने त्रयोदशी कण्डिका ॥ १३ ॥ १. या. स्मृ. प्रा. २३६. २. ऐ. ब्रा. ७. ३. १५. ३. ऐ. ब्रा. पं. ७. ४. तै. सं. १. ३. ९. ५. म स्मृ. ३. ५४.

दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३३ अथ दायविभागः— जीवन् पुत्रेभ्यो दायं विभजेत् समं क्लीबमु- न्मत्तं पतितं च परिहाप्य ॥ १ ॥ एकेन प्रधानेन केनचिद्धनेन गवादिना ज्येष्ठं पुत्रं तोषयित्वा तृप्तं कृत्वा- जीवन्नेव पुत्रेभ्यो दायं विभजेत् । सममात्मना परस्परं च तेषाम् । सामान्याभिधानात् क्रमागतं स्वयमार्जितं च क्लीबादीन् वर्जयित्वा । क्ली- बादिग्रहणं जात्यन्धादीनामप्युपलक्षणम् । तथाह मनुः— (१)‘अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्नििरिन्द्रियाः ॥’ इति । अन्धादीनां पुत्रसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपतितौ (२) निवृत्ते निमित्ते क्लीबादयस्तु न भर्त्तव्याः । अत्र विभागकालः स्मृत्यन्तर- वशाद्ग्राह्यः । तत्र नारदः— (३)‘मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणात्पितुर्यपरतस्पृहे ॥’ इति । यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्श्रद्धे भवतः सोऽपि काल । ‘तस्माद्धर्म्या पृथक्क्रिये’ति(४) दर्शनादिति । ‘जीवन्नि’तिवचन जीव- श्चेवाऽवश्य पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तद- नर्थकम् । अजीवतोऽप्रसङ्गात् । स्मृत्यन्तरेषु स्वयमार्जिते पितुरिच्छया विषमविभागो दर्शितः। न स धर्म्य इत्याचार्यस्य पक्षः । भार्याया अ- प्यंशो न दर्शितः । आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च ‘जायापत्योर्न विभागो विद्यते’ (२. १४. १६) इति । केचित्तु पितुर्द्वावंशावित्याहुः । ‘द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिते’ ति दर्शनात् । अयमप्याचार्यस्य पक्षो न भवति । यथा पुत्राणा- मेकैक एवांशस्तसभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं आत्मनस्त्वधिक्येऽपि न दोषः । तत्र हारीतः— ‘पिता ह्याग्रयणः पुत्रा इतरे ग्रहाः यद्याग्रयणः स्कन्देदुपदस्येद्रा १. ‘अनहौँ’ इति ड पु म. स्मृ. ९ २०१. २. वृत्यनिमित्ते क्लीबादयस्तु न भर्त्तव्याः, इति ड. पु उन्मत्तपतितौ निवृत्तनि- मित्तौ इति च. पु. ३. नार. स्मृ १३. ३. ४. म.स्मृ.९.१११. वचनात् इति. क.घ. पुस्तकयोः । आप० ध० ३०

२३४ आपस्तम्बधर्मसूत्रे [(प.६)क.१४. इतरेभ्यो गृह्णीयादिति विभागादूर्ध्वं पित्रोर्जीवनाभावे पुत्रभागेभ्यो ग्राह्यमित्युक्तं भवति । इति जीवद्विभागः ॥ १ ॥ अथ मृते कुटुम्बिनि तद्धनस्य गतिमाह- पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥ २ ॥ 'पुत्राभावे' इति वचनात् सत्सु पुत्रेषु त एव गृह्णीयुरविशेषात्स- मम् । तत्र नारदीये विशेषः- (१)'यच्छिष्टं प्रीतिदायेभ्यो दत्त्वर्णं पैतृकं च यत् । भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥' इति ॥ कात्यायनस्तु- (२)'भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् । विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ॥ अत्र याज्ञवल्क्यः-- (३)'पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरे' दिति । तदत्र नोक्तं पुत्रैरेव सह वृत्तिरस्या इति । तथा च मनुः- (४)'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति । एवं मातुरप्यभावे तद्धनं भर्तृकुललब्धं स्वयमर्जितं च तत्पुत्रा अ प्रत्ताश्च दुहितरस्समं गृह्णीयुः । (५)स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्सम्मूढा तु लभते (६)मानमात्रकम् ॥इति बृहस्पतिः। पितृकुललब्धं चाऽप्रत्ता एव दुहितरः । (७)मातुस्तु यौतकं यत्स्यात् कुमारीभाग एव सः ।' इति मनुः । अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा । (८)जनन्यां संस्थितायां तु समं सर्वे सहोदराः ॥ भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः । इति मानवमेव । १ ना. स्मृ. १३ ३२. २ कात्यायनीयस्मृतौ नास्ति. ३. या स्मृ २.१२३. ४. म.स्मृ ९. ३. बौ. ध. २. २. ४६. ५. मुद्रितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु 'जनन्यां संस्थितायां' ( ९ १९२.) इतिश्लोकव्याख्यानावसरे कुल्लूकभट्टेनेदं वचन बृहस्पतिवचनत्वेनैवोदाहृतम् । ६. सा न मातृकम् , इति ड. पु ७. म. स्मृ. ९. १३१ ८. म. स्मृ. ९. १९२.

दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३५ अत्र व्यासः— (१)‘असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् । संस्कार्या भ्रातृभिर्ज्येष्ठैः कन्यकाश्च यथाविधि ॥’ इति । अत्र क्रमविवाहे बृहस्पतिः— (२)‘ब्रह्मक्षत्रियविट्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् । चतुस्त्रिद्व्येकभागेन भजेयुस्ते यथाक्रमम् ॥ क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ।’ इति । मानवे च स्पष्टमुक्तम्— (३)‘सर्वे वा रिक्थजात तद्दशधा प्रविभज्य तु । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ चतुरोऽंशान् हरेद्विप्रः त्रीनंशाञ् क्षत्रियासुतः । वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥ इति । यस्य तु ब्राह्मणी वन्ध्या मृता वा तत्र क्षत्रियादिसुतास्त्रिद्व्येकभा- गाः । यस्य त्वेकस्यामेव पुत्रस्स सर्वे हरेत् शूद्रापुत्रवर्जम् । यथाह देवलः— (४)आनुलोम्येकपुत्रस्तु पितुस्सर्वस्वभागवेत् । निषाद एकपुत्रस्तु विप्रस्वस्य तृतीयभाक् ॥ द्वौ सपिण्डस्सकुल्यो वा स्वधादाता तु त हरेत्’ इति । निषादः पारशवः । क्षेत्रविषये बृहस्पतिः— (५)न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्यस्य पिता दद्यान्मृते विप्रासुतो हरेत् ॥ शूद्रां द्विजातिभिर्जातो न भूमेर्भागमर्हति । सजातावाप्नुयात्सर्वमिति धर्मो व्यवस्थितः ॥’ इति ॥ याज्ञवल्क्यः— (६)जातो हि दास्यां शूद्रेण कामतोऽशहरो भवेत् । मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥’ इति । भार्याविषये विष्णुः— (७)मातरः पुत्रभागानुसारतो भागहारिण्य’ इति । अत्र, औरस. पुत्रिकाबीजक्षेत्रजौ पुत्रिकासुतः । १. २. ४. ५. ७. इमानि वचनानि मुद्रित तत्तद्ग्रन्थेषु नोपलभ्यन्ते । ३. म स्मृ. ७. १५२. १५३. ६. या. स्मृ. २. १३३.

२३६ आपस्तम्बधर्मसूत्रे [(प.६.)क.१४. पुनर्भवश्च कानीनस्सहोधो गूढसम्भवः । दत्तः क्रीतस्स्वयंदत्तः कृत्रिमश्चाऽपविद्धकः । यत्र क्वचोत्पादितश्च पुत्राख्या दश पञ्च च । अनेनैव क्रमेणैषां पूर्वाभावे परः परः । पिण्डदोंऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः । औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया'मिति पूर्व मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं चेष्ट्वास्म- दर्थमपत्यमिति संवाद्ये'ति । बृहस्पतिः- 'एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः । तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥' इति । मनुः- (२)पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । याज्ञवल्क्यः- (३)अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति । अयमेक एवोत्पादयितुर्बीजजः, क्षेत्रजस्तु क्षेत्रिणः । बृहस्पतिः- 'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ । रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥' इति । काश्यपः- 'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उदकं स्पर्शिता या च या च पाणिगृहीतिका । अग्निं परिगता या च पुनर्भूप्रसवा च या ' ॥ कात्यायनः- क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भवो जातः व्यक्तमुत्पादकस्य सः ॥ इति । मनुः- (४)पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । १. गौ. ध २८. १८ २. म. स्मृ. ९. १३४. ३. या. स्मृ. २. १२७. ४. म. स्मृ. ९. १७२.

द्वादश पुत्राः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३७ तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवः ॥' इति । नारदः-- (१)कानीनश्च सहोढश्च गूढायां यश्च जायते । तेषां वोढा पिता ज्ञेयस्ते च भागहराः पितुः ।' इति ॥ वसिष्ठः-- (२)'अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति । अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोढुः । मनुः-- (३)'या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती । वोढुस्स गर्भो भवति सहोढ इति चोच्यते । (४)उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् । स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ दत्तः पूर्वमेवोक्तः । पैठीनसिः--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण द्व्यार्षेयेण जाताः ते असंगतकुलीना द्व्यामुष्यायणा भवन्तीति । मनुः-- (५)भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ (६)क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा । (७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति । (८)सदृशं तु प्रकुर्यातां गुणदोषविवर्जितम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥ (९)मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति । सर्वे एते समानजातीयाः, (१०)सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥ इति याज्ञवल्क्यवचनात् । १. ना. स्मृ १३. ४. २. व स्मृ १७. २५ ३. म. स्मृ. ९. १७३ ४. म स्मृ ९. १७० ५. म. स्मृ ९ १८२. ६. म. स्मृ. ९. १७४. ७. म. स्मृ. ९. १७७ ८. म. स्मृ. ९. १६९ ९. म. स्मृ. ९. १७१. १०. या. स्मृ. २. १३३.

२३८ आपस्तम्बधर्मसूत्रे [ (प. ६.) क. १४. विष्णुः-'यत्र क्वचनोत्पादितस्तु द्वादशः, इति । याज्ञवल्क्यः- (१)'पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ।' इति मनुः- (२)'श्रेयसः श्रेयसोऽभावे पापीयान् रिक्थमर्हति ।' इति । 'क्रमादेते प्रवर्तन्ते मृते पितरि तद्धने । नारदः- (३) ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥' इति । देवलः- 'सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः । औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति । तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः । शेषास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥' इति । मनुः- (४)'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥' इति । बृहस्पतिः- 'क्षेत्रजाद्यास्सुतास्त्वन्ये पञ्चषट्सप्तभागिनः' इति । हारीतः- 'विभजिष्यमाण एकविंशं कानीनाय दद्याद्विंशं पौनर्भवायैकोन- विंशं द्वामुष्यायणायाऽष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौर- साये'ति । वसिष्ठः- (५)“पुत्रं प्रतिग्रहीष्य'न्निति प्रक्रम्य 'तस्मिंश्चेत्प्रतिगृहीते औरस उत्पद्यते चतुर्थभागभाग्'ति । एवमतेषु शास्त्रेषु विद्यमानेषु यदाचार्येण पूर्वमुक्तं 'तेषां कर्मभि- स्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो'रिति तद्धर्मपत्नीजे पुत्रे सति क्षे- त्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् । अथाविभाज्यम् । अत्र मनुः- (६)'अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् । १. या. स्मृ. २. १३२. २. म स्मृ. ९. १६४. ३. ना. स्मृ. १३. ४९. ४ म. स्मृ ९. १३४. ५. व. ध. १५. ६. ९. ६. म. स्मृ. ९. २०८.

दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३९ स्वयमर्हति लब्धं तन्नाऽकामो दातुमर्हती'ति । कात्यायनः— ‘नाऽविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् । समं विद्याधनानां तु देयं वैद्येन तद्धनम् ॥ परभक्तप्रदानेन प्राप्तविद्यो यदाऽन्यतः । तया प्राप्तं तु विधिना विद्याप्राप्तं तदुच्यते ॥’ इति । व्यासः— ‘पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् । तस्य तन्नाऽपहर्तव्यं(१) शौर्यभार्यं तथैव च ॥’ इति । याज्ञवल्क्यः— (२)“क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ पत्यौ जीवति यःस्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥’ व्यासः— ‘साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥ तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥’ इति पुत्रदायविभागः । तदभावे तु मृतस्य य. प्रत्यासन्नः सपिण्डः, स किम् ? ‘दायं हरेते’ति ( १४. ५. ) वक्ष्यमाणेन सम्बन्धः । (३)‘लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । सप्तमः पिण्डदातैषां सापिण्ड्यं साप्तपौरुषम् ॥’ इति सपिण्डलक्षणम् । तेषु यो य. प्रत्यासन्नस्स स गृह्णीयादिति। भार्या तु रिक्थग्राहिणस्सपिण्डाद्या रक्षेयुः, न तु दायग्रहणमित्याचार्य- स्य पक्षः। श्रूयते हि-(४)‘तस्मात् स्त्रियो निरिन्द्रिया अदायादीः' इति। मनुरपि-- (५)'अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुति'रिति । अत्र सपिण्डाद्यभावे बृहस्पतिः-- 'अन्यत्र ब्राह्मणात्किं तु राजा धर्मपरायणः । १. शौर्यं विद्याधनं तथा इति. घ. पु. शौर्य भार्याधनं तथा इति. ड. पु. २. या. स्मृ. २-१९९. ३ मत्स्यपु. अ. १८ श्लो. २९. ४. तै.सं. ६. ५. ८. ५. म. स्मृ ९. १८. निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः, इति मुद्रित- पुस्तकपाठः । बोधायनसूत्रे तु प्रायस्संवदति ( ३. २. ४७. ) पाठः ।

२४० आपस्तम्बधर्मसूत्रे [ (प.६.)क.१४ तत्स्त्रीणां जीवनं दद्यादेष दायविधिस्स्मृतः ॥ अन्नार्थं तण्डुलप्रस्थमपराह्ने तु सेन्धनम् । वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ॥ एतावदेव साध्वीनां चोदितं विधवाधनम् । वसनस्याऽशनस्यैव तथैव रजकस्य च ॥ धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् । (१)धूमावसानिकं ग्राह्यं सभायां स्नानतः पुरा । वसनाशनवासांसि विगणय्य धवे मृते ॥' इति । व्यासः-- 'द्विसाहस्रः परो दायः स्त्रियै देयो धनस्य तु । यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ॥' इति । पणानां द्वे सहस्रे परिमाणमस्य द्विसाहस्रः । एष परो दायः स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्का- याम् । एवं (२)'पत्नी दुहितरश्चे'त्यादीनि यानि पत्न्या दायप्राप्तिपराणि तान्येवमेव द्रष्टव्यानि । गौतमस्तु पुत्राभावे पत्न्यास्सपिण्डादिभिस्स- मांशमाह-(३)'पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये' ति । अस्यार्थः-अनपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यास- त्तिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्राः । तदभावे ऋषिस- म्बन्धास्समानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रियाः पृथङ्निर्देशात् च शब्दाच्च यदा सपिण्डा भजेरन् तदा स्त्री सह तैरेकमंशं गृह्णीयात् । ततश्च 'पितुरूर्ध्वं विभजतां माताप्यंश समं हरे'दिति सपिण्डादिभि- स्सहग्रहणमुक्तमिति । वयमप्येतमेव पक्षं रोचयामहे ) । अत्र पितरि भ्रातरि सोदर्ये च जीवति सोदर्यो भ्राता गृह्णीयादित्येके मन्यन्ते । तथा च शङ्खः-- 'अपुत्रस्य स्वर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लभे- यातां, पत्नी वा ज्येष्ठे'ति । देवलः-- 'ततो दायमपुत्रस्य विभजेरन् सहोदराः । कुल्या दुहितरो वापि म्रियमाणः पिताऽपि च ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥' इति । १. धूमावसानिकं श्राम्यं सन्ध्यायां स्नानतत्परा । इति ढ भूमावसनिकं इति. घ. पु. २. या. स्मृ. २. १३८. ३. गौ. ध. २८. २१, २२. ( ) कुण्डलान्तर्गतो भागः च पुस्तकेऽधिकपाठतया परिगणितः ।

दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४१ याज्ञवल्क्यः— (१)संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः । दद्याच्चाऽपहरेच्चांशं जातस्य च मृतस्य च ॥ अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् । असंसृष्ट्यपि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥' इति । अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'त्यत्र भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात्(२) पितैवेत्याचार्यस्य पक्षः। तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥ २ ॥ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥ सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत । हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥ ३ ॥ दुहिता वा ॥ ४ ॥ दुहिता वा दायं हरेत् । पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये ॥४॥ सर्वाभावे राजा दायं हरेत् ॥ ५ ॥ सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥ ५ ॥ ज्येष्ठो दायाद इत्येके ॥ ६ ॥ एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः । सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्वं वा पूर्वजस्येतरान् बिभृयात्पितृव'दिति ॥ ६ ॥ देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥ क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जात भौमं धान्यं कृष्णं माषादि कृष्णायसमित्यन्ये ॥ ७ ॥ रथः पितुः परिभाण्डं च गृहे ॥ ८ ॥ १ या. स्मृ. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ. ध.२८.३. आप० ध० ३१