भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 236, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 236

अभिनिर्मुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२५ ब्राह्मणस्य पाणिना समूढमुपलिप्तं सम्मृष्टं वा भूप्रदेशमप्रोक्षितं ऽना- भितिष्ठेत् नाधितिष्ठेत् । प्रोक्ष्यैवाऽधितिष्ठेदिति ॥ ५ ॥ अग्निं ब्राह्मणं चाऽन्तरेण नाऽतिक्रामेत् ॥ ६ ॥ अग्नेर्ब्राह्मणस्य च मध्ये न गच्छेत् ॥ ६ ॥ ब्राह्मणांश्च ॥ ७ ॥ अन्तरेण नाऽतिक्रामेदित्येव । ब्राह्मणाना च मध्ये न गच्छेत् ॥ ७ ॥ अनुज्ञाप्य वाऽतिक्रामेत् ॥ ८ ॥ स्पष्टम् ॥ ८ ॥ अग्निमपश्च न युगपद्धारयीत ॥ ९ ॥ अग्निमुदकञ्च न युगपद्धारयेत् ॥ ९ ॥ नानाग्नीनां च सन्निपातं वर्जयेन् ॥ १० ॥ पृथगवस्थितानामग्नीनामेकत्र समावपनं वर्जयेत न कुर्यात् । अग्ना- वह्निं न प्रक्षिपेदित्यन्ये (१) ॥ १० ॥ प्रतिमुखमग्निमाह्रियमाणं नाऽप्रतिष्ठितं भूमौ प्रदक्षि- णीकुर्यात् ॥ ११ ॥ यदाऽस्य गच्छतः प्रतिमुखमग्निराह्रियते तदा न तं प्रदक्षिणीकुर्यात् स चेद्भूभौ प्रतिष्ठितो न भवति । प्रतिष्ठिते त्वग्नौ दृष्टे प्रदक्षिणीकुर्या- दिति ॥ ११ ॥ पृष्ठतश्चाऽऽत्मनः पाणी न संश्लेषयेत् ॥ १२ ॥ स्वस्य पृष्ठभागे स्वपाणिद्वय न संश्लेषयेन्न बध्नीयात् ॥ १२ ॥ स्वपन्नभिनिर्मुक्तो नाऽश्नन् वाग्यतो रात्रिमासीत श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् ॥ १३ ॥ (२) 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिर्मुक्ताभ्युदितौ तौ यथाक्रमम् ॥' स्वपन्नभिनिर्मुक्तो नाश्नन्भुञ्जानस्तूष्णीं भूतो रात्रि सर्वामासीत न शयीत । अथाऽपरद्यु' उदकमुपस्पृश्य प्रातः स्नात्वा वाचं विसृजेत् । अयमस्य निर्वेषः ॥ १. एतदनन्तरं-विनावचनम् । आवापवचने सति कुर्यात् । इत्याधिक पाठः घ. पु. २. अमरको. ब्र. सूर्योदयकाले यः स्वपिति सोऽभ्युदितः । सूर्यास्तकाले यः स्वपिति सोऽभिनिर्मुक्तः । आप० ध० २६