भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 241, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 241

२३० आपस्तम्बधर्मसूत्रे [ (प्र.६.) क. १३. लट् । रक्षेतेत्यर्थः । किमर्थम् ? वः युष्माकम् क्षेत्रे परबीजानि पररेतांसि मा वाप्सुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः । मा वाप्सत उप्तानि मा भूवन् । मोप्येरन् । कथमिति ? (अपर आह-परशब्दाज्जसो लुक । परे पुरुषाः वः क्षेत्रे बीजानि मा वाप्सुरिति ।) यस्मात् साम्पराये परलोके जनयि तुरेव पुत्रफलं भवति वेत्ता (१)परिणेता क्षेत्री तु एतत्तन्तुं मोघं निष्प्रयोजनं कुरुते आत्मसात्करोति। इतिशब्दो गाथासमाप्तौ। एतच्च क्षेत्रिणोऽनुज्ञा- मन्तरेण पुत्रोत्पादनविषयम् । यदा तु क्षेत्री वन्ध्यो रुग्णो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति, यदा वा सन्तानक्षये विधवा नियुज्यते यथा विचित्रवीर्यस्य क्षेत्रे सत्यवतीं व्यासेन । तदुत्पन्नः पुत्र उभयोरपि पुत्रो भवति-बीजिनः क्षेत्रिणश्च । द्व्यामुष्यायणश्च स भवति । तथाचा- चार्य एवाह- (२) 'यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये'दिति । याज्ञवल्क्योऽप्याह- (३) 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥' इति । नारदोऽपि- (४)द्व्यामुष्यायणको दद्याद्द्वाभ्यां पिण्डोदके पृथक् । रिक्थादर्थं समादद्याद्बीजक्षेत्रवतोस्तथा ॥' इति ॥ ६ ॥ यदि पूर्ववत्यादिषु मैथुने दोषः, कथं तर्हि (५) उचथ्यभारद्वाजौ व्य त्यस्य भार्ये जग्मतुः(६) वसिष्ठश्चण्डालीमक्षमालाम् । (७)प्रजापतिश्च स्वां दुहितरम् । तत्राऽऽह- दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम् ॥ ७ ॥ सत्यं दृष्टोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न धर्मः, गृह्य माणकारणत्वात् । न चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा (८) जामद ग्न्थेन रामेण पितृवचनादविचारण मातुश्चिरश्छिन्नम् ॥ ७ ॥ ( ) एतत्कुण्डान्तर्गतोभागः ख च पुस्तकयोरेवास्ति । तत्र 'कथमिति' इति नास्ति। १. 'भार्याया लब्धा' इति ख. च. पु. २. आप श्रौ १. ९. ७. ३. या. स्मृ. २. १३०. ४. नार स्मृ १३. ४३. ५. महाभारते द्रष्टव्यम् । ६. म. स्मृ. ९. २३. महाभा. व. १३२. च द्रष्टव्यम् । अरुन्धत्या एवाक्षमालेति नामान्तरम् । ७. ता. ब्रा. ८. २. १०. द्रष्टव्यम् । ८. कथेयं महाभा. वन ११६ अ. द्रष्टव्या. ।