आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 242, कुल 399 में से
संदर्भ में पढ़ेंपुत्र दानादिनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३१ किमिदानीं तेषामपि दोषः ? नेत्याह-- (१)तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ॥ ८ ॥ तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न प्रत्यवयन्ति । (२) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हाऽस्य पाप्मानः प्रहूयन्ते इति (३)श्रुतेः ॥ ८ ॥ न चैतावता ऽर्वाचीनानामपि तथा प्रसङ्ग इत्याह- तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरः ॥ ९ ॥ तदिति(४) नपुंसकमनपुंसकेने'त्येकशेष एकवद्भावश्च । तं व्यति- क्रमं तच्च साहसमन्वीक्ष्य दृष्ट्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानीं- न्तनः सीदति प्रत्यवैति । न ह्यग्निः सर्वं दहतीत्यस्माकमपि तथा श- क्तिरिति ॥ ९ ॥ पुत्रप्रसङ्गेनाऽऽह- दानं क्रयधर्मश्चाऽपत्यस्य न विद्यते ॥ १० ॥ दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात् स्वीकारसामान्याच्च । अप त्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधेषु पुत्रेषु दत्त क्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्वान्नाऽयं सामान्येन प्रतिषेधः । किं तर्हि ? ज्येष्ठपुत्रविषयः, एकपुत्रविषयः, स्त्रीविषयो वा । तथा च वसिष्ठः- (५)न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृह्णी- याद्वा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रातगृह्णीयाद्वा अन्यत्राऽनुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राज्ञे निवेद्य निवे शनस्य मध्ये अग्निमुपसमाधाय सम्परिस्तीर्य व्याहृतीभिर्हुत्वाऽदूर बान्धवं सन्निकृष्टमेव प्रतिगृह्णीया' दिति । विश्वजिति च सर्वस्वदाने गवादिवदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्ध । तत्र उपपात १. इदमग्रिमं सूत्रं पद्यात्मना निबद्ध तन्त्रवार्तिके । २. छान्दो. ५. २४. ३. 'छान्दोग्ये श्रूयते' इत्याधिक ख. च. पु ४. पा. सू १. २. ६९. ५. व. ध. १५. ३-६.