आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 243, कुल 399 में से
संदर्भ में पढ़ें२३२ आपस्तम्बधर्मसूत्रे [ (प.६) क. १३. केषु याज्ञवल्क्य आह- (१)'नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ।' इति । बह्वृचब्राह्मणेऽपि शुनश्शेपोपाख्याने दृश्यते-(२) स ज्येष्ठं पुत्रं नि गृह्णान उवाचे' त्यादि । पुत्रप्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्र- विषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपत्यमिति । (३) ऋणमस्मिन् सन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥' इति ॥१०॥ विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दु- हितृमतेऽतिरथं शतं देयं तन्मिथुयाकुर्यादिति तस्यां क्रयशब्दस्संस्तुतिमात्रं धर्माद्धि सम्बन्धः ॥११॥ आर्षे विवाहे दुहितृमते दान कंचिदङ्गं श्रूयते । तस्माद्दुहितृमते रथेनाधिकं गवां शतं देयम् । तच्च दुहितृमान् मिथुया कुर्यात् । मिथ्या कुर्यात् । (४) मा देवानां मिथुयाऽकर्माभगधेय" मिति दृश्यते । मिथुया कुर्यादिति कोऽर्थः वरायैव पुनर्दद्यादिति । तद्दानं काम्यं कामनानिमित्तम् । 'यथा युक्तो विवा हस्तथायुक्ता प्रजा भवतीति (२.१०.४) ऋषितुल्याः पुत्रा यथा स्युरिति ततश्च धर्मार्थं न प्रजार्थम्, विक्रयार्थम् । यस्तु तस्यां विवाहक्रियायां क्रयशब्दः कचित् स्मृतौ दृश्यते, स संस्तुतिमात्रम् द्रव्यप्रसादसाम्यात् । न मुख्यक्रयत्वप्रतिपादनार्थम् । कुतः ? हि यस्मात् धर्मादेव हेतोः सम्बन्धो दम्पत्योरिति । आर्षे दुहितृमते मिथुनौ गावौ देयावित्यत्राप्येष एव न्यायः । अत्र मनुः- (५)'यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणा मानृशंस्यं च केवलम् ॥' इति । एतच्च सर्वं 'दानं क्रयधर्मश्चाऽपत्यस्य न विद्यत' इत्यस्य व्यभिचार- निवृत्त्यर्थं कर्तव्यमित्युक्तम् ॥ ११ ॥ अथ दायविभागः - एकधनेन ज्येष्ठं तोषयित्वा ॥ १२ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने त्रयोदशी कण्डिका ॥ १३ ॥ १. या. स्मृ. प्रा. २३६. २. ऐ. ब्रा. ७. ३. १५. ३. ऐ. ब्रा. पं. ७. ४. तै. सं. १. ३. ९. ५. म स्मृ. ३. ५४.