आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
२३० आपस्तम्बधर्मसूत्रे [ (प्र.६.) क. १३. लट् । रक्षेतेत्यर्थः । किमर्थम् ? वः युष्माकम् क्षेत्रे परबीजानि पररेतांसि मा वाप्सुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः । मा वाप्सत उप्तानि मा भूवन् । मोप्येरन् । कथमिति ? (अपर आह-परशब्दाज्जसो लुक । परे पुरुषाः वः क्षेत्रे बीजानि मा वाप्सुरिति ।) यस्मात् साम्पराये परलोके जनयि तुरेव पुत्रफलं भवति वेत्ता (१)परिणेता क्षेत्री तु एतत्तन्तुं मोघं निष्प्रयोजनं कुरुते आत्मसात्करोति। इतिशब्दो गाथासमाप्तौ। एतच्च क्षेत्रिणोऽनुज्ञा- मन्तरेण पुत्रोत्पादनविषयम् । यदा तु क्षेत्री वन्ध्यो रुग्णो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति, यदा वा सन्तानक्षये विधवा नियुज्यते यथा विचित्रवीर्यस्य क्षेत्रे सत्यवतीं व्यासेन । तदुत्पन्नः पुत्र उभयोरपि पुत्रो भवति-बीजिनः क्षेत्रिणश्च । द्व्यामुष्यायणश्च स भवति । तथाचा- चार्य एवाह- (२) 'यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये'दिति । याज्ञवल्क्योऽप्याह- (३) 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥' इति । नारदोऽपि- (४)द्व्यामुष्यायणको दद्याद्द्वाभ्यां पिण्डोदके पृथक् । रिक्थादर्थं समादद्याद्बीजक्षेत्रवतोस्तथा ॥' इति ॥ ६ ॥ यदि पूर्ववत्यादिषु मैथुने दोषः, कथं तर्हि (५) उचथ्यभारद्वाजौ व्य त्यस्य भार्ये जग्मतुः(६) वसिष्ठश्चण्डालीमक्षमालाम् । (७)प्रजापतिश्च स्वां दुहितरम् । तत्राऽऽह- दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम् ॥ ७ ॥ सत्यं दृष्टोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न धर्मः, गृह्य माणकारणत्वात् । न चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा (८) जामद ग्न्थेन रामेण पितृवचनादविचारण मातुश्चिरश्छिन्नम् ॥ ७ ॥ ( ) एतत्कुण्डान्तर्गतोभागः ख च पुस्तकयोरेवास्ति । तत्र 'कथमिति' इति नास्ति। १. 'भार्याया लब्धा' इति ख. च. पु. २. आप श्रौ १. ९. ७. ३. या. स्मृ. २. १३०. ४. नार स्मृ १३. ४३. ५. महाभारते द्रष्टव्यम् । ६. म. स्मृ. ९. २३. महाभा. व. १३२. च द्रष्टव्यम् । अरुन्धत्या एवाक्षमालेति नामान्तरम् । ७. ता. ब्रा. ८. २. १०. द्रष्टव्यम् । ८. कथेयं महाभा. वन ११६ अ. द्रष्टव्या. ।
पुत्र दानादिनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३१ किमिदानीं तेषामपि दोषः ? नेत्याह-- (१)तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ॥ ८ ॥ तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न प्रत्यवयन्ति । (२) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हाऽस्य पाप्मानः प्रहूयन्ते इति (३)श्रुतेः ॥ ८ ॥ न चैतावता ऽर्वाचीनानामपि तथा प्रसङ्ग इत्याह- तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरः ॥ ९ ॥ तदिति(४) नपुंसकमनपुंसकेने'त्येकशेष एकवद्भावश्च । तं व्यति- क्रमं तच्च साहसमन्वीक्ष्य दृष्ट्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानीं- न्तनः सीदति प्रत्यवैति । न ह्यग्निः सर्वं दहतीत्यस्माकमपि तथा श- क्तिरिति ॥ ९ ॥ पुत्रप्रसङ्गेनाऽऽह- दानं क्रयधर्मश्चाऽपत्यस्य न विद्यते ॥ १० ॥ दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात् स्वीकारसामान्याच्च । अप त्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधेषु पुत्रेषु दत्त क्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्वान्नाऽयं सामान्येन प्रतिषेधः । किं तर्हि ? ज्येष्ठपुत्रविषयः, एकपुत्रविषयः, स्त्रीविषयो वा । तथा च वसिष्ठः- (५)न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृह्णी- याद्वा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रातगृह्णीयाद्वा अन्यत्राऽनुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राज्ञे निवेद्य निवे शनस्य मध्ये अग्निमुपसमाधाय सम्परिस्तीर्य व्याहृतीभिर्हुत्वाऽदूर बान्धवं सन्निकृष्टमेव प्रतिगृह्णीया' दिति । विश्वजिति च सर्वस्वदाने गवादिवदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्ध । तत्र उपपात १. इदमग्रिमं सूत्रं पद्यात्मना निबद्ध तन्त्रवार्तिके । २. छान्दो. ५. २४. ३. 'छान्दोग्ये श्रूयते' इत्याधिक ख. च. पु ४. पा. सू १. २. ६९. ५. व. ध. १५. ३-६.
२३२ आपस्तम्बधर्मसूत्रे [ (प.६) क. १३. केषु याज्ञवल्क्य आह- (१)'नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ।' इति । बह्वृचब्राह्मणेऽपि शुनश्शेपोपाख्याने दृश्यते-(२) स ज्येष्ठं पुत्रं नि गृह्णान उवाचे' त्यादि । पुत्रप्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्र- विषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपत्यमिति । (३) ऋणमस्मिन् सन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥' इति ॥१०॥ विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दु- हितृमतेऽतिरथं शतं देयं तन्मिथुयाकुर्यादिति तस्यां क्रयशब्दस्संस्तुतिमात्रं धर्माद्धि सम्बन्धः ॥११॥ आर्षे विवाहे दुहितृमते दान कंचिदङ्गं श्रूयते । तस्माद्दुहितृमते रथेनाधिकं गवां शतं देयम् । तच्च दुहितृमान् मिथुया कुर्यात् । मिथ्या कुर्यात् । (४) मा देवानां मिथुयाऽकर्माभगधेय" मिति दृश्यते । मिथुया कुर्यादिति कोऽर्थः वरायैव पुनर्दद्यादिति । तद्दानं काम्यं कामनानिमित्तम् । 'यथा युक्तो विवा हस्तथायुक्ता प्रजा भवतीति (२.१०.४) ऋषितुल्याः पुत्रा यथा स्युरिति ततश्च धर्मार्थं न प्रजार्थम्, विक्रयार्थम् । यस्तु तस्यां विवाहक्रियायां क्रयशब्दः कचित् स्मृतौ दृश्यते, स संस्तुतिमात्रम् द्रव्यप्रसादसाम्यात् । न मुख्यक्रयत्वप्रतिपादनार्थम् । कुतः ? हि यस्मात् धर्मादेव हेतोः सम्बन्धो दम्पत्योरिति । आर्षे दुहितृमते मिथुनौ गावौ देयावित्यत्राप्येष एव न्यायः । अत्र मनुः- (५)'यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणा मानृशंस्यं च केवलम् ॥' इति । एतच्च सर्वं 'दानं क्रयधर्मश्चाऽपत्यस्य न विद्यत' इत्यस्य व्यभिचार- निवृत्त्यर्थं कर्तव्यमित्युक्तम् ॥ ११ ॥ अथ दायविभागः - एकधनेन ज्येष्ठं तोषयित्वा ॥ १२ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने त्रयोदशी कण्डिका ॥ १३ ॥ १. या. स्मृ. प्रा. २३६. २. ऐ. ब्रा. ७. ३. १५. ३. ऐ. ब्रा. पं. ७. ४. तै. सं. १. ३. ९. ५. म स्मृ. ३. ५४.
दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३३ अथ दायविभागः— जीवन् पुत्रेभ्यो दायं विभजेत् समं क्लीबमु- न्मत्तं पतितं च परिहाप्य ॥ १ ॥ एकेन प्रधानेन केनचिद्धनेन गवादिना ज्येष्ठं पुत्रं तोषयित्वा तृप्तं कृत्वा- जीवन्नेव पुत्रेभ्यो दायं विभजेत् । सममात्मना परस्परं च तेषाम् । सामान्याभिधानात् क्रमागतं स्वयमार्जितं च क्लीबादीन् वर्जयित्वा । क्ली- बादिग्रहणं जात्यन्धादीनामप्युपलक्षणम् । तथाह मनुः— (१)‘अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्नििरिन्द्रियाः ॥’ इति । अन्धादीनां पुत्रसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपतितौ (२) निवृत्ते निमित्ते क्लीबादयस्तु न भर्त्तव्याः । अत्र विभागकालः स्मृत्यन्तर- वशाद्ग्राह्यः । तत्र नारदः— (३)‘मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणात्पितुर्यपरतस्पृहे ॥’ इति । यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्श्रद्धे भवतः सोऽपि काल । ‘तस्माद्धर्म्या पृथक्क्रिये’ति(४) दर्शनादिति । ‘जीवन्नि’तिवचन जीव- श्चेवाऽवश्य पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तद- नर्थकम् । अजीवतोऽप्रसङ्गात् । स्मृत्यन्तरेषु स्वयमार्जिते पितुरिच्छया विषमविभागो दर्शितः। न स धर्म्य इत्याचार्यस्य पक्षः । भार्याया अ- प्यंशो न दर्शितः । आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च ‘जायापत्योर्न विभागो विद्यते’ (२. १४. १६) इति । केचित्तु पितुर्द्वावंशावित्याहुः । ‘द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिते’ ति दर्शनात् । अयमप्याचार्यस्य पक्षो न भवति । यथा पुत्राणा- मेकैक एवांशस्तसभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं आत्मनस्त्वधिक्येऽपि न दोषः । तत्र हारीतः— ‘पिता ह्याग्रयणः पुत्रा इतरे ग्रहाः यद्याग्रयणः स्कन्देदुपदस्येद्रा १. ‘अनहौँ’ इति ड पु म. स्मृ. ९ २०१. २. वृत्यनिमित्ते क्लीबादयस्तु न भर्त्तव्याः, इति ड. पु उन्मत्तपतितौ निवृत्तनि- मित्तौ इति च. पु. ३. नार. स्मृ १३. ३. ४. म.स्मृ.९.१११. वचनात् इति. क.घ. पुस्तकयोः । आप० ध० ३०
२३४ आपस्तम्बधर्मसूत्रे [(प.६)क.१४. इतरेभ्यो गृह्णीयादिति विभागादूर्ध्वं पित्रोर्जीवनाभावे पुत्रभागेभ्यो ग्राह्यमित्युक्तं भवति । इति जीवद्विभागः ॥ १ ॥ अथ मृते कुटुम्बिनि तद्धनस्य गतिमाह- पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥ २ ॥ 'पुत्राभावे' इति वचनात् सत्सु पुत्रेषु त एव गृह्णीयुरविशेषात्स- मम् । तत्र नारदीये विशेषः- (१)'यच्छिष्टं प्रीतिदायेभ्यो दत्त्वर्णं पैतृकं च यत् । भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥' इति ॥ कात्यायनस्तु- (२)'भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् । विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ॥ अत्र याज्ञवल्क्यः-- (३)'पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरे' दिति । तदत्र नोक्तं पुत्रैरेव सह वृत्तिरस्या इति । तथा च मनुः- (४)'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति । एवं मातुरप्यभावे तद्धनं भर्तृकुललब्धं स्वयमर्जितं च तत्पुत्रा अ प्रत्ताश्च दुहितरस्समं गृह्णीयुः । (५)स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्सम्मूढा तु लभते (६)मानमात्रकम् ॥इति बृहस्पतिः। पितृकुललब्धं चाऽप्रत्ता एव दुहितरः । (७)मातुस्तु यौतकं यत्स्यात् कुमारीभाग एव सः ।' इति मनुः । अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा । (८)जनन्यां संस्थितायां तु समं सर्वे सहोदराः ॥ भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः । इति मानवमेव । १ ना. स्मृ. १३ ३२. २ कात्यायनीयस्मृतौ नास्ति. ३. या स्मृ २.१२३. ४. म.स्मृ ९. ३. बौ. ध. २. २. ४६. ५. मुद्रितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु 'जनन्यां संस्थितायां' ( ९ १९२.) इतिश्लोकव्याख्यानावसरे कुल्लूकभट्टेनेदं वचन बृहस्पतिवचनत्वेनैवोदाहृतम् । ६. सा न मातृकम् , इति ड. पु ७. म. स्मृ. ९. १३१ ८. म. स्मृ. ९. १९२.
दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३५ अत्र व्यासः— (१)‘असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् । संस्कार्या भ्रातृभिर्ज्येष्ठैः कन्यकाश्च यथाविधि ॥’ इति । अत्र क्रमविवाहे बृहस्पतिः— (२)‘ब्रह्मक्षत्रियविट्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् । चतुस्त्रिद्व्येकभागेन भजेयुस्ते यथाक्रमम् ॥ क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ।’ इति । मानवे च स्पष्टमुक्तम्— (३)‘सर्वे वा रिक्थजात तद्दशधा प्रविभज्य तु । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ चतुरोऽंशान् हरेद्विप्रः त्रीनंशाञ् क्षत्रियासुतः । वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥ इति । यस्य तु ब्राह्मणी वन्ध्या मृता वा तत्र क्षत्रियादिसुतास्त्रिद्व्येकभा- गाः । यस्य त्वेकस्यामेव पुत्रस्स सर्वे हरेत् शूद्रापुत्रवर्जम् । यथाह देवलः— (४)आनुलोम्येकपुत्रस्तु पितुस्सर्वस्वभागवेत् । निषाद एकपुत्रस्तु विप्रस्वस्य तृतीयभाक् ॥ द्वौ सपिण्डस्सकुल्यो वा स्वधादाता तु त हरेत्’ इति । निषादः पारशवः । क्षेत्रविषये बृहस्पतिः— (५)न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्यस्य पिता दद्यान्मृते विप्रासुतो हरेत् ॥ शूद्रां द्विजातिभिर्जातो न भूमेर्भागमर्हति । सजातावाप्नुयात्सर्वमिति धर्मो व्यवस्थितः ॥’ इति ॥ याज्ञवल्क्यः— (६)जातो हि दास्यां शूद्रेण कामतोऽशहरो भवेत् । मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥’ इति । भार्याविषये विष्णुः— (७)मातरः पुत्रभागानुसारतो भागहारिण्य’ इति । अत्र, औरस. पुत्रिकाबीजक्षेत्रजौ पुत्रिकासुतः । १. २. ४. ५. ७. इमानि वचनानि मुद्रित तत्तद्ग्रन्थेषु नोपलभ्यन्ते । ३. म स्मृ. ७. १५२. १५३. ६. या. स्मृ. २. १३३.
२३६ आपस्तम्बधर्मसूत्रे [(प.६.)क.१४. पुनर्भवश्च कानीनस्सहोधो गूढसम्भवः । दत्तः क्रीतस्स्वयंदत्तः कृत्रिमश्चाऽपविद्धकः । यत्र क्वचोत्पादितश्च पुत्राख्या दश पञ्च च । अनेनैव क्रमेणैषां पूर्वाभावे परः परः । पिण्डदोंऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः । औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया'मिति पूर्व मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं चेष्ट्वास्म- दर्थमपत्यमिति संवाद्ये'ति । बृहस्पतिः- 'एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः । तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥' इति । मनुः- (२)पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । याज्ञवल्क्यः- (३)अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति । अयमेक एवोत्पादयितुर्बीजजः, क्षेत्रजस्तु क्षेत्रिणः । बृहस्पतिः- 'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ । रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥' इति । काश्यपः- 'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उदकं स्पर्शिता या च या च पाणिगृहीतिका । अग्निं परिगता या च पुनर्भूप्रसवा च या ' ॥ कात्यायनः- क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भवो जातः व्यक्तमुत्पादकस्य सः ॥ इति । मनुः- (४)पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । १. गौ. ध २८. १८ २. म. स्मृ. ९. १३४. ३. या. स्मृ. २. १२७. ४. म. स्मृ. ९. १७२.
द्वादश पुत्राः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३७ तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवः ॥' इति । नारदः-- (१)कानीनश्च सहोढश्च गूढायां यश्च जायते । तेषां वोढा पिता ज्ञेयस्ते च भागहराः पितुः ।' इति ॥ वसिष्ठः-- (२)'अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति । अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोढुः । मनुः-- (३)'या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती । वोढुस्स गर्भो भवति सहोढ इति चोच्यते । (४)उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् । स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ दत्तः पूर्वमेवोक्तः । पैठीनसिः--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण द्व्यार्षेयेण जाताः ते असंगतकुलीना द्व्यामुष्यायणा भवन्तीति । मनुः-- (५)भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ (६)क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा । (७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति । (८)सदृशं तु प्रकुर्यातां गुणदोषविवर्जितम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥ (९)मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति । सर्वे एते समानजातीयाः, (१०)सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥ इति याज्ञवल्क्यवचनात् । १. ना. स्मृ १३. ४. २. व स्मृ १७. २५ ३. म. स्मृ. ९. १७३ ४. म स्मृ ९. १७० ५. म. स्मृ ९ १८२. ६. म. स्मृ. ९. १७४. ७. म. स्मृ. ९. १७७ ८. म. स्मृ. ९. १६९ ९. म. स्मृ. ९. १७१. १०. या. स्मृ. २. १३३.
२३८ आपस्तम्बधर्मसूत्रे [ (प. ६.) क. १४. विष्णुः-'यत्र क्वचनोत्पादितस्तु द्वादशः, इति । याज्ञवल्क्यः- (१)'पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ।' इति मनुः- (२)'श्रेयसः श्रेयसोऽभावे पापीयान् रिक्थमर्हति ।' इति । 'क्रमादेते प्रवर्तन्ते मृते पितरि तद्धने । नारदः- (३) ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥' इति । देवलः- 'सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः । औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति । तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः । शेषास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥' इति । मनुः- (४)'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥' इति । बृहस्पतिः- 'क्षेत्रजाद्यास्सुतास्त्वन्ये पञ्चषट्सप्तभागिनः' इति । हारीतः- 'विभजिष्यमाण एकविंशं कानीनाय दद्याद्विंशं पौनर्भवायैकोन- विंशं द्वामुष्यायणायाऽष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौर- साये'ति । वसिष्ठः- (५)“पुत्रं प्रतिग्रहीष्य'न्निति प्रक्रम्य 'तस्मिंश्चेत्प्रतिगृहीते औरस उत्पद्यते चतुर्थभागभाग्'ति । एवमतेषु शास्त्रेषु विद्यमानेषु यदाचार्येण पूर्वमुक्तं 'तेषां कर्मभि- स्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो'रिति तद्धर्मपत्नीजे पुत्रे सति क्षे- त्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् । अथाविभाज्यम् । अत्र मनुः- (६)'अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् । १. या. स्मृ. २. १३२. २. म स्मृ. ९. १६४. ३. ना. स्मृ. १३. ४९. ४ म. स्मृ ९. १३४. ५. व. ध. १५. ६. ९. ६. म. स्मृ. ९. २०८.
दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३९ स्वयमर्हति लब्धं तन्नाऽकामो दातुमर्हती'ति । कात्यायनः— ‘नाऽविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् । समं विद्याधनानां तु देयं वैद्येन तद्धनम् ॥ परभक्तप्रदानेन प्राप्तविद्यो यदाऽन्यतः । तया प्राप्तं तु विधिना विद्याप्राप्तं तदुच्यते ॥’ इति । व्यासः— ‘पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् । तस्य तन्नाऽपहर्तव्यं(१) शौर्यभार्यं तथैव च ॥’ इति । याज्ञवल्क्यः— (२)“क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ पत्यौ जीवति यःस्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥’ व्यासः— ‘साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥ तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥’ इति पुत्रदायविभागः । तदभावे तु मृतस्य य. प्रत्यासन्नः सपिण्डः, स किम् ? ‘दायं हरेते’ति ( १४. ५. ) वक्ष्यमाणेन सम्बन्धः । (३)‘लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । सप्तमः पिण्डदातैषां सापिण्ड्यं साप्तपौरुषम् ॥’ इति सपिण्डलक्षणम् । तेषु यो य. प्रत्यासन्नस्स स गृह्णीयादिति। भार्या तु रिक्थग्राहिणस्सपिण्डाद्या रक्षेयुः, न तु दायग्रहणमित्याचार्य- स्य पक्षः। श्रूयते हि-(४)‘तस्मात् स्त्रियो निरिन्द्रिया अदायादीः' इति। मनुरपि-- (५)'अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुति'रिति । अत्र सपिण्डाद्यभावे बृहस्पतिः-- 'अन्यत्र ब्राह्मणात्किं तु राजा धर्मपरायणः । १. शौर्यं विद्याधनं तथा इति. घ. पु. शौर्य भार्याधनं तथा इति. ड. पु. २. या. स्मृ. २-१९९. ३ मत्स्यपु. अ. १८ श्लो. २९. ४. तै.सं. ६. ५. ८. ५. म. स्मृ ९. १८. निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः, इति मुद्रित- पुस्तकपाठः । बोधायनसूत्रे तु प्रायस्संवदति ( ३. २. ४७. ) पाठः ।
२४० आपस्तम्बधर्मसूत्रे [ (प.६.)क.१४ तत्स्त्रीणां जीवनं दद्यादेष दायविधिस्स्मृतः ॥ अन्नार्थं तण्डुलप्रस्थमपराह्ने तु सेन्धनम् । वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ॥ एतावदेव साध्वीनां चोदितं विधवाधनम् । वसनस्याऽशनस्यैव तथैव रजकस्य च ॥ धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् । (१)धूमावसानिकं ग्राह्यं सभायां स्नानतः पुरा । वसनाशनवासांसि विगणय्य धवे मृते ॥' इति । व्यासः-- 'द्विसाहस्रः परो दायः स्त्रियै देयो धनस्य तु । यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ॥' इति । पणानां द्वे सहस्रे परिमाणमस्य द्विसाहस्रः । एष परो दायः स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्का- याम् । एवं (२)'पत्नी दुहितरश्चे'त्यादीनि यानि पत्न्या दायप्राप्तिपराणि तान्येवमेव द्रष्टव्यानि । गौतमस्तु पुत्राभावे पत्न्यास्सपिण्डादिभिस्स- मांशमाह-(३)'पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये' ति । अस्यार्थः-अनपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यास- त्तिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्राः । तदभावे ऋषिस- म्बन्धास्समानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रियाः पृथङ्निर्देशात् च शब्दाच्च यदा सपिण्डा भजेरन् तदा स्त्री सह तैरेकमंशं गृह्णीयात् । ततश्च 'पितुरूर्ध्वं विभजतां माताप्यंश समं हरे'दिति सपिण्डादिभि- स्सहग्रहणमुक्तमिति । वयमप्येतमेव पक्षं रोचयामहे ) । अत्र पितरि भ्रातरि सोदर्ये च जीवति सोदर्यो भ्राता गृह्णीयादित्येके मन्यन्ते । तथा च शङ्खः-- 'अपुत्रस्य स्वर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लभे- यातां, पत्नी वा ज्येष्ठे'ति । देवलः-- 'ततो दायमपुत्रस्य विभजेरन् सहोदराः । कुल्या दुहितरो वापि म्रियमाणः पिताऽपि च ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥' इति । १. धूमावसानिकं श्राम्यं सन्ध्यायां स्नानतत्परा । इति ढ भूमावसनिकं इति. घ. पु. २. या. स्मृ. २. १३८. ३. गौ. ध. २८. २१, २२. ( ) कुण्डलान्तर्गतो भागः च पुस्तकेऽधिकपाठतया परिगणितः ।
दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४१ याज्ञवल्क्यः— (१)संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः । दद्याच्चाऽपहरेच्चांशं जातस्य च मृतस्य च ॥ अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् । असंसृष्ट्यपि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥' इति । अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'त्यत्र भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात्(२) पितैवेत्याचार्यस्य पक्षः। तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥ २ ॥ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥ सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत । हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥ ३ ॥ दुहिता वा ॥ ४ ॥ दुहिता वा दायं हरेत् । पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये ॥४॥ सर्वाभावे राजा दायं हरेत् ॥ ५ ॥ सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥ ५ ॥ ज्येष्ठो दायाद इत्येके ॥ ६ ॥ एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः । सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्वं वा पूर्वजस्येतरान् बिभृयात्पितृव'दिति ॥ ६ ॥ देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥ क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जात भौमं धान्यं कृष्णं माषादि कृष्णायसमित्यन्ये ॥ ७ ॥ रथः पितुः परिभाण्डं च गृहे ॥ ८ ॥ १ या. स्मृ. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ. ध.२८.३. आप० ध० ३१
२४२ आपस्तम्बधर्मसूत्रे [(प्र.६)क.१४. रथः पितुरंशः (१) गृहे च यत् परिभाण्डमुपकरणं पीठादि तदपि ॥ ८ ॥ अलङ्कारो भार्यायाः ज्ञातिधनं चेत्येके ॥ ९ ॥ भार्यायास्तु धृतोऽलङ्कारोऽंशः, ज्ञातिभ्यः पित्रादिभ्यश्च यल्लब्धं धनं तच्चे- त्येवमेके मन्यते ॥ ९ ॥ * तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १० ॥ ज्येष्ठो दायद इति यदुक्तं तच्छास्त्रैर्विरुद्धम् ॥ १० ॥ येन विरुद्धं तद्दर्शयति— (२)“मनुः पुत्रेभ्यो दायं व्यभज”दित्यविशेषेण श्रूयते ॥११॥ पुत्रेभ्य इति बहुवचननिर्देशादविशेषेण श्रवणम् ॥ ११ ॥ अत्र चोद्यम्— अथापि(३) “तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ती” त्येकवच्छ्रूयते ॥ १२ ॥ अथापि ननु चेत्यर्थः । ज्येष्ठं पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकव- दपि श्रूयते । यथा एक एव ज्येष्ठो दायादः तदनुरूपमपि श्रूयते इति ॥१२॥ परिहरति— अथापि नित्यानुवादमविधिमाहुर्न्यायविदो यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातक- स्य मुखं रेफायतीव । तस्मात् वस्तश्च श्रोत्रियश्च स्त्रीकामतमाविति ॥ १३ ॥ १. एतदनन्तरं ‘उपलक्षणमेतत् वाहनस्य’ इत्यधिकं घ.पु.
- एतच्चिह्नानन्तरं यतोऽपि नानुवादः ॥ ११ ॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते छ. पुस्तके । २. मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् इति (तै. सं. ३. १.९.) तैत्तिरीयश्रुतौ श्रूयते । तत्र पुत्रेभ्य इत्यविशेषेणैव विभागः श्रुतः । न तु ज्येष्ठस्य विशेषोऽभिहित इत्यर्थः । ‘नाभानेदिष्ठः’ इति मनुपुत्रस्य कस्याचिन्नाम । अस्यैव नाभाग इति संज्ञा । अस्य कथा भागवते ( ९ ४. ) अनुसन्धेया । ३. तत्रैव तैत्तिरीयश्रुतौ ( तै. सं. २. ५. २. )
दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४३ अथापीति परिहारोपक्रमे । पशूनां मध्ये अजाश्वाऽवयश्च जातिभेदेऽपि सह चरन्ति । रेफा शोभा । इह तु तद्गत्यभेदोपचारः । ततः क्यष् । स्नातकस्य मुखं कुण्डलादिना शोभते । इवशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्री- कामतत्वमाचार्यकुले चिरकाल ब्रह्मचारिवासात् । यथैतानि वाक्या- नि दृष्टान्तमात्रमनुवदन्ति न किञ्चिद्विदधति तस्मात् 'ज्येष्ठ पुत्र'मित्या- दिकमप्यविधिरीति न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि 'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव ॥ १३ ॥ सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥ हिशब्दो हेतौ । यस्मादेवाऽनुवादौ न कस्यचिद्विधायकौ तस्माद्ये धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥ यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो- ऽपि तमभागं कुर्वीत ॥ १५ ॥ यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुङ्क्ते तमभागं कुर्वीत जीव- द्विभागे पिता भागं न दद्यात् । ऊर्ध्वं विभागे(१) पितुर्भ्रातरः । अपिश- ब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्यं ख्याप्यते ॥ १५ ॥ जीवन् पुत्रेभ्य(२)इत्यनेन दम्पत्योस्सहभावो दर्शितः । तत्र कार- णमाह— जायापत्योर्न विभागो विद्यते ॥ १६ ॥ स्पष्टम् ॥ १६ ॥ कस्मात् ? पाणिग्रहणाद्धि सहत्वं कर्मसु ॥ १७ ॥ कर्मार्थं द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः । किं तर्हि ? सह- भावेन—'यस्त्वया धर्मश्च कर्तव्यस्सोऽनया सह'ति वचनात् । तत्र किं पृथक् द्रव्यणेति ॥ १७ ॥ (३)तथा पुण्यफलेषु ॥ १८ ॥ पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्वमेव । (४)'दिवि ज्योतिरजर- मारभेता' मित्यादिभ्यो मन्त्रलिङ्गेभ्यः ॥ १८ ॥ १. विभागेऽपि भ्रातर इति. च. पु. २. इत्यत्र भार्याया भागो न दर्शितः। इति घ.ड.पु. ३. इदमग्रिमं च सूत्रमेकतया लिखितं क. पु. । ४. तै ब्रा. ३ ७.५. ११.
२४४ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क.१५. द्रव्यपरिग्रहेषु च ॥ १९ ॥ द्रव्यपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिरा- र्जयति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति द्रव्यपरिग्रहे- ऽपि सहत्वम् ॥ १९ ॥ एतदेवोपपादयति— न हि भर्तुर्विप्रवासे नैमित्तिके दानं स्तेयमुपदिशन्ति॥२०॥ हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दद्यादि'त्यादिके दाने कृते भार्याया न स्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात् स्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनात् द्रव्यान्तरे स्तेयं भव- त्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्योर्वैषम्यं—यत् पतिर्यथेष्टं वि- नियुङ्क्ते जाया त्वेतावदेवेति । न च पत्युस्स्वयमर्जितस्य विनियोगे जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा राष्ट्रे । अत एव भार्यायास्तेयशङ्का, न भर्तुः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्दशी काण्डिका ॥ १४ ॥ एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥ 'ज्येष्ठो दायाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण- मित्युकम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु- लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमाणमिति । गौतमोऽप्याह— (१)'देशकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाण'मिति ॥ १ ॥ मातुश्च योनिसम्बन्धेभ्यः पितुश्चाऽऽसप्तमाद्यावता वा सम्बन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान् परिहाप्याऽऽपरिसंवत्सरान् ॥ २ ॥ मातुर्योनिसम्बन्धा मातुलादयः । पितुश्चासप्तमात् पुरुषात् सम्बन्धास्सपि- ण्डादयः पैतृष्वस्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वयः । यावता वा- न्तरेण सम्बन्धो ज्ञायते स्मर्यते जन्मना नाम्ना वाऽमुष्याऽयमस्मत्कूटस्थस्य १. गौ. ध. ११. २०.
प्रेतोदकदानम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४५ वंश्य एवंनामेति । तथा च मनुः- (१)'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥' इति । य एवंभूताः पुरुषास्तेषां प्रेतेषु मृतेषु उदकोपस्पर्शन मरणनिमित्तं स्नानं कर्तव्यम् । गर्भान् बालान् अपरिसंवत्सरानपरिपूर्णसंवत्सरान् परि हाय्य वर्जयित्वा । बालेषु मृतेषु स्नानं न कर्तव्यमिति ॥ २ ॥ मातापितरावेव तेषु ॥ ३ ॥ बालेषु मृतेषु मातापितरावेवोदकस्पर्शन कुर्याताम् ॥ ३ ॥ हतारश्च ॥ ४ ॥ ये च तान् बालान् मृतान् हरन्ति तेऽप्युदकोपस्पर्शनं कुर्युरीति । एवमाचार्यस्य पक्षः ॥ ४ ॥ भार्यायां परमगुरुसंस्थायां चाकालभोजनम् ॥ ५ ॥ भार्या पत्नी । परमगुरव आचार्यमातापितरः । संस्था मरणम् । भार्या- यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन, किं तर्हि ? अपरेद्युः आ तस्मात्कालात् अभोजन च ॥ ५ ॥ किं च- आतुरव्यञ्जनानि कुर्वीरन् ॥ ६ ॥ आतुरत्वं व्यज्यते यैस्तानि च कुर्वीरन् भार्यादिमरणे ॥ ६ ॥ कानि पुनस्तानि ? केशान्प्रकीर्य पांसुनोप्यैकवाससो दक्षिणामुखास्स- कृदुपमज्ज्योत्तीर्योपविशन्त्येवं त्रिः ॥ ७ ॥ प्रकीर्य केशान् पांसूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः । दक्षिणामुखाः दक्षिणां दिशं निरीक्षमाणाः सकृदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति दक्षिणामुखा एव ॥ ७ ॥ एवं त्रिः ॥ ८ ॥ एवमुक्तप्रकारेण त्रिरुपमज्ज्योपविशेयुः ॥ ८ ॥ १. म. ५. ६०.
२४६ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १५. तत्प्रत्ययमुदकमुत्सिच्याऽप्रतीक्षा ग्राममेत्य यत्स्त्रिय आहुस्तत्कुर्वन्ति ॥ ९ ॥ ततः तत्प्रत्ययं तेषां मृतानां भार्यादीनां यथा प्रत्ययो भवति—मह्यमुदकं दत्तमिति, तथोदकमुत्सिञ्चन्ति। त्रिरित्यनुवृत्तेस्त्रिः। आचारात्पीड्यत्त्वाञ्च वाससा तिलमिश्रं हस्ताभ्यां। भारद्वाजाय यज्ञशर्मणे एतत्तिलोदकं ददा- मीति प्रयोगः। उत्सिच्या प्रतीक्षाः पृष्ठतोऽनिरीक्षमाणा ग्राममेत्य गृहं प्रविश्य । अनेन बहिरिदं कर्मेति गम्यते । यत्तत्र मृतविषये स्त्रियः कर्तव्यमित्याहुः तत्कुर्वन्ति अग्न्युपस्पर्शनगवालम्भनादीनि । एतत्प्रथमेऽहनि । द्विती यादि(१)ष्वहरहरञ्जलिनैकोत्तरवृद्धिरैकादशाहारिति पितृमेध उक्तं द्र ष्टव्यम् ॥ ९ ॥ इतरेषु चैतदेवैक उपदिशन्ति ॥ १० ॥ ‘आकालमभोजन’ (२. १५, १) मित्यादि यदुक्तं तदितरेषु भार्यादि- भ्योऽन्येष्वपि सपिण्डेषु मृतेषु कर्तव्यमित्येके आचार्या उपदिशन्ति ॥१०*॥ शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत् ॥ ११ ॥ एकान्तेऽपि विधिप्रतिषेधानुसारिणः शुचयः, तान्। मन्त्रवतः (२)अ धीतवेदान् सर्वकृत्येषु श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु दैवेषु पित्र्येषु मानुषेषु च भोजयेत् । (३)अन्ते 'ततो ब्राह्मणभोजन'मिति स्मृत्यन्तरे दर्शनात् ॥ ११ ॥ देशतः कालतः शौचतः सम्यक्प्रतिग्रहीतृत इति दानानि प्रतिपादयति ॥ १२ ॥
- एतदन्तर— ब्राह्मणश्चैतस्मिन् कालेऽमात्यान् केशश्मश्रूणि वा वापयते ॥ ११ ॥ अमात्याः प्रधानाः । स्पष्टमन्यत् ॥ ११ ॥ समावृत्ता न वा वपेरन् ॥ १२ ॥ पूर्वापवादोऽयम् । अमात्येष्वेव गुरुकुलात् समावृत्ताः स्नातकाः न केशादि वाप- येरन् ॥ १२ ॥ न विहारिण इत्यन्ये ॥ १३ ॥ विहारिणो बालाः । तेऽपि न ॥ १३ ॥ इत्यधिकं. घ. पुस्तके. १. आप. पि. सू. २. 'अधीताविस्मृतवेदान्' इति. ड. पु ३. 'अन्ततः' इति. च' पु.
अहविष्यहोमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४७
सप्तम्यर्थे तसिल् । देशः प्रयागादिः । कालः सूर्यग्रहणादिः । (१)शौ- चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो- वृद्धश्श्रेया'नित्यादि । एतेषु दानानि देयान्यवश्यं प्रतिपादयति दद्यादिति१२ यस्याऽग्नौ न क्रियते यस्य चाऽग्रं न दीयते न तद्भोक्तव्यम् ॥ १३ ॥ यस्याऽन्नस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माच्चोद्धृत्याऽग्रं न दीयते न तद्भोक्तव्यम् ॥ १३ ॥ न क्षारलवणहोमो विद्यते ॥ १४ ॥ यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु चादि । (४)क्षारलवणसंसृष्टं न होतव्यम् ॥ १४ ॥ तथाऽवरात्रसंसृष्टस्य च ॥ १५ ॥ अवरात्रं कुलुत्थादि । तत्संसृष्टस्याप्यन्नस्य होमो न विद्यते ॥ १५ ॥ अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तत्राह - अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि ञ्जुहुयात्तद्भुतमहुतं चाग्नौ भवति ॥ १६ ॥ औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्णं भस्माऽपोह्य तस्मिन् भस्मनि जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहविष्यस्य होमः । तदेवं क्रियमाणं हुतं च भवति हवनार्थनिर्वृत्तेः । अहुतं चाऽग्नौ भवति । भस्ममात्रत्वादिति । अत्र बोधायनः— (६)अथ यद्येतदेवाग्नं स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जु- हुया'दिति । (७)अपर आह—यान्यहविष्याणि व्यञ्जनान्यहरहर्भोज्यानि तेषा- मेष संस्कारस्सकृच्च होमोऽमन्त्रक इति ॥ १६ ॥ उत्तरे द्वे सूत्रे स्पष्टे— न स्त्री जुहुयात् ॥ १७ ॥
१. शौचं कृच्छ्रादि इति ङ. च. पु. २. 'यस्य ब्राह्मणस्यान्नं न दीयत' इति क.च. पुस्तकोराधिकम् । ३. 'गुडसुधालिकुचादि' इति ङ. पु. ४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गास्ते शैब्यं सस्ये गोधूमकोद्र- वौ । धान्यक देवधान्यं च शमीधान्यं तथैक्षवम् । स्विन्नधान्यं तथा पण्यमूलं क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति घ.पु. ६. बौधा. गृ. ७. अपरे मन्यन्ते 'इति. घ. पु.
२४८ आपस्तम्बधर्मसूत्रे [ (प.६.) क. १५ ] नाऽनुपेतः ॥ १८ ॥ आन्नप्राशनाद्गर्भा नाऽप्रयता भवन्ति ॥ १९ ॥ अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शेऽपि । गौतमस्तु अपां मार्जनादिकमिच्छति । यथाह (१)'अन्यत्राऽपां मार्जनप्र- धावनावोक्षणेभ्यः' ॥ १९ ॥ आ परिसंवत्सरादित्येके ॥ २० ॥ यावत् संवत्सरो न परिपूर्यते तावन्नाप्रयता गर्भा इत्येके मन्यते॥२०॥ यावता वा दिशो न प्रजानीयुः ॥ २१ ॥ यावद्दिग्विभागज्ञानं नाऽस्ति तावन्नाऽप्रयता भवन्ति ॥ २१ ॥ (२)ओपनयनादित्यपरम् ॥ २२ ॥ उपनयनादर्वाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥ अत्रोपपत्तिः— अत्र ह्याधिकारश्शास्त्रैर्भवति ॥ २३ ॥ हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥ सा निष्ठा ॥ २४ ॥ उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसमानाधिकरण्यात् स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥ स्मृतिश्च ॥ २५ ॥ अस्मिन्नर्थे स्मृतिरपि भवति—(४)उताऽब्रह्मचारी यथोपपादमूत्रपु- रीषो भवति नाऽस्याऽचमकल्पो विद्यते इति (५)'प्रागुपनयनात्काम- चारवादभक्ष' इति गौतमः ॥ २५ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥ १. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयनादित्येके इति घ. ३ घ. पुस्तके 'भवतीति'इतीतिकरणान्तं सूत्रं पठित्वा'इति करणे हेतौ' इति व्याख्यातम् । ४. 'उते'त्यादि 'विद्यत'इत्यन्तं घ. पुस्तक एवास्ति । ५. गौःध. २. १.
अथ सप्तमः पटलः ॥ सह देवमनुष्या अस्मिँल्लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क- र्माण्यारहन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भव- न्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । (१)प्रजानि- श्चेयसाय च ॥ १ ॥ (२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः । पुरा किल देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमसहमना देवा. कर्मभिः श्रौतैस्स्मार्तैर्गार्ह्यैश्च यथावदनुष्ठितैर्दिवं जग्मुः मनुष्यास्तु तथा क- र्तुमसमर्था अहीयन्त हीना अभवन् इहैव लोके स्थिताः । यत एवं कर्म- णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कर्माण्यारहन्ते कुर्वन्ति यथारभन्त देवाः, ते देवै ब्रह्मणा च सहामुष्मिन् लोक भवन्ति त्रिवि ष्टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान् दृष्ट्वा मनुर्वैवस्वतः श्राद्धशब्दं श्रा- द्धमिति शब्दमानमेतत्कर्म प्रोवाच । किमर्थम् ? प्रजानिःश्रेयसाय, तादर्थ्ये च- तुर्थी । प्रजानां निःश्रेयसार्थम् । निश्रेयसाचेति पाठे छान्दसो यकारस्य चकारः। अपर आह—छान्दसो लिङ्गव्यत्ययः । प्रजानिश्रेयसं चाऽस्य कर्मणः फलमिति ॥ १ ॥ तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २ ॥ तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा- स्तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः । त्रीणि श्राद्धे क- रणानि—होमो, ब्राह्मणभोजनं, पिण्डदानं चेति । अत्र भोजनस्य(४)प्र- धानत्वख्यापनार्थोऽयमर्थवादः ॥ २ ॥ मासि मासि कार्यम् ॥ ३ ॥ तदिदं कर्म मासे मासे कर्तव्यम् । वीप्सावचनाद्यावज्जीविकोऽभ्यासः। १. प्रजानिश्रेयसाय च इति पृथक्सूत्र च . पु. २. मासि श्राद्धविधित्सया इति ड. पु. ३. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च. पु. ४. 'प्रधानतत्व' इति च पु. आप० ध० ३२