भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 256, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 256

प्रेतोदकदानम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४५ वंश्य एवंनामेति । तथा च मनुः- (१)'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥' इति । य एवंभूताः पुरुषास्तेषां प्रेतेषु मृतेषु उदकोपस्पर्शन मरणनिमित्तं स्नानं कर्तव्यम् । गर्भान् बालान् अपरिसंवत्सरानपरिपूर्णसंवत्सरान् परि हाय्य वर्जयित्वा । बालेषु मृतेषु स्नानं न कर्तव्यमिति ॥ २ ॥ मातापितरावेव तेषु ॥ ३ ॥ बालेषु मृतेषु मातापितरावेवोदकस्पर्शन कुर्याताम् ॥ ३ ॥ हतारश्च ॥ ४ ॥ ये च तान् बालान् मृतान् हरन्ति तेऽप्युदकोपस्पर्शनं कुर्युरीति । एवमाचार्यस्य पक्षः ॥ ४ ॥ भार्यायां परमगुरुसंस्थायां चाकालभोजनम् ॥ ५ ॥ भार्या पत्नी । परमगुरव आचार्यमातापितरः । संस्था मरणम् । भार्या- यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन, किं तर्हि ? अपरेद्युः आ तस्मात्कालात् अभोजन च ॥ ५ ॥ किं च- आतुरव्यञ्जनानि कुर्वीरन् ॥ ६ ॥ आतुरत्वं व्यज्यते यैस्तानि च कुर्वीरन् भार्यादिमरणे ॥ ६ ॥ कानि पुनस्तानि ? केशान्प्रकीर्य पांसुनोप्यैकवाससो दक्षिणामुखास्स- कृदुपमज्ज्योत्तीर्योपविशन्त्येवं त्रिः ॥ ७ ॥ प्रकीर्य केशान् पांसूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः । दक्षिणामुखाः दक्षिणां दिशं निरीक्षमाणाः सकृदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति दक्षिणामुखा एव ॥ ७ ॥ एवं त्रिः ॥ ८ ॥ एवमुक्तप्रकारेण त्रिरुपमज्ज्योपविशेयुः ॥ ८ ॥ १. म. ५. ६०.

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 256, कुल 399 में से · BharatKosha