आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 255, कुल 399 में से
संदर्भ में पढ़ें२४४ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क.१५. द्रव्यपरिग्रहेषु च ॥ १९ ॥ द्रव्यपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिरा- र्जयति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति द्रव्यपरिग्रहे- ऽपि सहत्वम् ॥ १९ ॥ एतदेवोपपादयति— न हि भर्तुर्विप्रवासे नैमित्तिके दानं स्तेयमुपदिशन्ति॥२०॥ हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दद्यादि'त्यादिके दाने कृते भार्याया न स्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात् स्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनात् द्रव्यान्तरे स्तेयं भव- त्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्योर्वैषम्यं—यत् पतिर्यथेष्टं वि- नियुङ्क्ते जाया त्वेतावदेवेति । न च पत्युस्स्वयमर्जितस्य विनियोगे जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा राष्ट्रे । अत एव भार्यायास्तेयशङ्का, न भर्तुः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्दशी काण्डिका ॥ १४ ॥ एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥ 'ज्येष्ठो दायाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण- मित्युकम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु- लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमाणमिति । गौतमोऽप्याह— (१)'देशकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाण'मिति ॥ १ ॥ मातुश्च योनिसम्बन्धेभ्यः पितुश्चाऽऽसप्तमाद्यावता वा सम्बन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान् परिहाप्याऽऽपरिसंवत्सरान् ॥ २ ॥ मातुर्योनिसम्बन्धा मातुलादयः । पितुश्चासप्तमात् पुरुषात् सम्बन्धास्सपि- ण्डादयः पैतृष्वस्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वयः । यावता वा- न्तरेण सम्बन्धो ज्ञायते स्मर्यते जन्मना नाम्ना वाऽमुष्याऽयमस्मत्कूटस्थस्य १. गौ. ध. ११. २०.