आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 254, कुल 399 में से
संदर्भ में पढ़ेंदायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४३ अथापीति परिहारोपक्रमे । पशूनां मध्ये अजाश्वाऽवयश्च जातिभेदेऽपि सह चरन्ति । रेफा शोभा । इह तु तद्गत्यभेदोपचारः । ततः क्यष् । स्नातकस्य मुखं कुण्डलादिना शोभते । इवशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्री- कामतत्वमाचार्यकुले चिरकाल ब्रह्मचारिवासात् । यथैतानि वाक्या- नि दृष्टान्तमात्रमनुवदन्ति न किञ्चिद्विदधति तस्मात् 'ज्येष्ठ पुत्र'मित्या- दिकमप्यविधिरीति न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि 'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव ॥ १३ ॥ सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥ हिशब्दो हेतौ । यस्मादेवाऽनुवादौ न कस्यचिद्विधायकौ तस्माद्ये धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥ यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो- ऽपि तमभागं कुर्वीत ॥ १५ ॥ यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुङ्क्ते तमभागं कुर्वीत जीव- द्विभागे पिता भागं न दद्यात् । ऊर्ध्वं विभागे(१) पितुर्भ्रातरः । अपिश- ब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्यं ख्याप्यते ॥ १५ ॥ जीवन् पुत्रेभ्य(२)इत्यनेन दम्पत्योस्सहभावो दर्शितः । तत्र कार- णमाह— जायापत्योर्न विभागो विद्यते ॥ १६ ॥ स्पष्टम् ॥ १६ ॥ कस्मात् ? पाणिग्रहणाद्धि सहत्वं कर्मसु ॥ १७ ॥ कर्मार्थं द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः । किं तर्हि ? सह- भावेन—'यस्त्वया धर्मश्च कर्तव्यस्सोऽनया सह'ति वचनात् । तत्र किं पृथक् द्रव्यणेति ॥ १७ ॥ (३)तथा पुण्यफलेषु ॥ १८ ॥ पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्वमेव । (४)'दिवि ज्योतिरजर- मारभेता' मित्यादिभ्यो मन्त्रलिङ्गेभ्यः ॥ १८ ॥ १. विभागेऽपि भ्रातर इति. च. पु. २. इत्यत्र भार्याया भागो न दर्शितः। इति घ.ड.पु. ३. इदमग्रिमं च सूत्रमेकतया लिखितं क. पु. । ४. तै ब्रा. ३ ७.५. ११.